०४९ रामादिभिः गोमत्यादिनदीतरणम्

रामोपीति । तेनैव रात्रिशेषेण येनैव रात्रिशेषेण पौरान् विहाय गतः तेनैव । महदन्तरम् महावकाशम्, महद्दूरमिति यावत् ॥ २।४९।१ ॥

तथैवेति । गच्छतः सतः, व्यपायात् निरगात् । विषयान्तं कोसलदेशान्तम् ॥ २।४९।२ ॥

ग्रामानिति । विकृष्टसीमान्तान् विशेषेण कृष्टाः सीमान्ताः युषु । बीजावापार्थं आसीमान्तं सज्जीकृतक्षेत्रानित्यर्थः । पश्यन् शनैरिव शीघ्रम् अति अतिक्रम्य ययौ । उत्तमाश्वानां गतिचातुर्यात्पुष्पितवनरमणीयदेशदर्शनपारवश्याच्च अतिशीघ्रमपि गमनं शनैरिव प्रत्यभादित्यर्थः । ग्रामसंवासवासिनां ग्रामाः महाग्रामाः, संवासाः स्वल्पग्रामाः तेषु निवासिनां मनुष्याणां वाचः श्रृण्वन् अतिययाविति पूर्वेण सम्बन्धः । श्रृण्वन्वाचो मनुष्याणामित्युक्तम् ता एवाह राजानं धिगित्यादिसार्धैः पञ्चभिः । आस्थितं प्राप्तम् । पापानुबन्धिनी पापसम्बन्धिनी । तीक्ष्णा क्रूरा । सम्भिन्नमर्यादा खण्डितमर्यादा । ईदृशं कल्याणगुणैकतानम् । सानुक्रोशं सदयम् ॥ २।४९।४७ ॥

अहो इति । प्रजानां पुत्राणां मध्ये प्रियम् । अनघं निर्दुष्टम् । यद्वा प्रजानां प्राणिनां प्रियं स्वसुतं रामं परित्यक्तुमिच्छतीति वा सम्बन्धः ॥ २।४९।८ ॥

एता इति । एताः पूर्वोक्ता वाचः श्रृण्वन् कोसलान् कोसलदेशानतिययौ ॥ २।४९।९ ॥

शिववारिवहां शिवानि मनोज्ञानि वारीणि वहतीति तथा ॥ २।४९।१० ॥

गत्वेति । गोयुतानूपां गोभिर्युक्तान्यनूपानि जलप्रायप्रदेशा यस्यां सा तथा ॥ २।४९।११ ॥

गोमतीमिति । स्यन्दिकां स्यन्दिकाख्याम् ॥ २।४९।१२ ॥

स महीमिति । स रामः महीं स्यन्दिकानदीमर्यादम्, कोसलदेशमित्यर्थः । राष्ट्रावृताम् अवान्तरजनपदावृताम् । वैदेहीमन्वदर्शयदिति सम्बन्धः ॥ २।४९।१३ ॥

सूत इतीति । आभाष्य सम्बोध्य । हंशमत्तस्वरः मत्तहंसस्वरः ॥ २।४९।१४,१५ ॥

मृगया किं शिष्टाचरितेत्यत्राहराजर्षीणामित्यादिना । हि यस्मात्कारणात् राजर्षीणां वने मृगया रत्यर्थम्, अस्तीति शेषः । काले मृगयायोग्यकाले, श्राद्धादिकाल इत्यर्थः । मनुजैः सदाचारपरैः, वृतां स्वीकृताम् । धन्विनामभिकाङ्क्षितां लक्ष्यवेधनार्थं धन्विभिरभिकाङ्क्षितामित्यर्थः । तां नात्यर्थमभिकाङ्क्षामि किञ्चित्काङ्क्षामीत्यर्थः । यद्वा मृगयायाः स्त्रीद्यूतादिसप्तव्यसनान्तःपातित्वेन निषिद्धत्वात्कथं मृगयां पर्यटसीत्यत आह राजर्षीणामिति । राजर्षीणामस्मिंल्लोके रत्यर्थं या मृगया अस्ति । हि प्रसिद्धौ । तां पर्यटिष्यामीति पूर्वेण सम्बन्धः । कीदृशीम् ? काले वृताम् । अन्यत्समानम् । तथापि सदा मृगयापर्यटने राज्यपालनरूपस्वधर्मनाशः स्यादत आह नात्यर्थमिति । अत्यर्थं सदा नाभिकाङ्क्षामि यतः एषा काचित्कमृगया, राजर्षिगणसम्मता रतिः क्रीडा ॥ २।४९।१६,१७ ॥

स इति । तं तमर्थं पूर्वोक्तार्थम् अभिप्रेत्य विषयीकृत्य वाक्यमुदीरयन् तमध्वानं मार्गम् ययाविति सम्बन्धः ॥ २।४९।१८ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायाम् अयोध्याकाण्डव्याख्यायां एकोनपञ्चाशः सर्गः ॥ २।४९ ॥