तेषामित्यादि श्लोकद्वयमेकं वाक्यम् । मुमुर्षया उपलक्षितानाम् । सत्त्वानि असवः । उद्गतानि उत्क्रान्तानीव बभूवुः ॥ २।४८।१,२ ॥
स्वं स्वमिति । बाष्पेण पिहिताननाः अश्रुव्याप्तमुखा इत्यर्थः ॥ २।४८।३ ॥
नचेति । हर्षो बाह्यसन्तोषः, आमोदः आन्तरसन्तोषः ॥ २।४८।४ ॥
नष्टं चिरकालनष्टं धनादिकम् । धनागमं धनलाभम् ॥ २।४८।५,६ ॥
ये रामं न पश्यन्ति तेषां गृहादिभिः किमिति सम्बन्धः । अयं भावः संसारसागरान्निरवधिककरुणया सकलजगदुद्धरणाय नररूपेणावतीर्य स्वदेशे स्वपुरे चावस्थितं भगवन्तं श्रीरामं परमादरेणापश्यन्तो ये पुत्रदारादिषु रमन्ते ते पापिष्ठाः पुनः पुनस्संसरन्तीति ॥ २।४८।७ ॥
वने रामं परिचरन् यो ऽनुगच्छति स सत्पुरुषः भाग्यपुरुषः । सा सीतापि भाग्यवतीत्यर्थः ॥ २।४८।८ ॥
आस्तां तावत्सीतालक्ष्मणयोर्भाग्यानुवर्णनम् कस्तद्वर्णयितुं शक्तःअचेतना अप्यापगादयः सुभाग्या इत्याहुःआपगा इति ॥ २।४८।९ ॥
शोभयिष्यन्तीति । रम्यकाननाः चारुवृक्षसङ्घाः, अनूपाः जलप्रायतीरप्रदेशः ॥ २।४८।१०,११ ॥
विचित्रकुसुमैः आपीडः शिरोभूषणं येषां ते । बह्वीः मञ्जरीः पुष्पस्तबकान् धर्तुं शीलमस्त्येषामिति । छान्दसो ह्रस्वः । नगाः वृक्षाः । राघवं दर्शयिष्यन्ति । अयं भावः नगाः रामं परमात्मानं मत्वा स्वनिष्ठभ्रमरझङ्काररूपमन्त्रोच्चारणपूर्वकं स्वशाखाकरोद्धृतमञ्जरीरूपपुष्पाञ्जलिभिः राघवमर्चिष्यन्तीति ॥ २।४८।१२ ॥
अकाल इति । गिरयो दर्शयिष्यन्ति,स्वनिष्ठवृक्षद्वारेति शेषः ॥ २।४८।१३ ॥
पादपा इति । रामयिष्यन्तीति । स्वमूलाकीर्यमाणपल्लवकुसुमरचितशय्यासु सीतासमेतं रामं रमयिष्यन्तीत्यर्थः ॥ २।४८।१४ ॥
यत्रेति । रामः वसतीति शेषः । तत्र हेतुः स हि शूर इति ॥ २।४८।१५ ॥
पुरेति । राघवो नो ऽस्माकम् । अदूरात् पुराभवति आसन्नो भविष्यतीत्यर्थः । “यावत्पुरा” इत्यादिना भविष्यदर्थे लट् । अतो राघवमनुगच्छामेति प्रार्थनायां लोट् ॥ २।४८।१६ ॥
यं राममनुगच्छेम महात्मनस्तादृशस्य, पादच्छाया छायेत्यनुग्रहहेतुभूता सेवा लक्ष्यते । श्रीरामचन्द्रपादसेवैव नः सुखा परपसुखसाधनभूता । सः रामः गतिः शरणं परायणं सर्वप्रकारेणाधारभूतः ॥ २।४८।१७ ॥
वयमिति । स्त्रिय इत्यर्थः । यूयं पुरुषा इत्यर्थः । योगक्षेमम् अप्राप्तद्रव्यस्य प्राप्तिर्योगः, प्राप्तस्य रक्षणं क्षेमम् ॥ २।४८।१८,१९ ॥
अनेन वासेन को नु संप्रीयेतेति योजना । अप्रतीतेन असुखेन । शोकस्मरणम् उत्कण्ठा, उत्कण्ठास्य सञ्जाता उत्कण्ठितः, अत्कण्ठितश्चासौ जनश्च उत्कण्ठितजनः, तेन सहितः सोत्कण्ठितजनः तेन सोत्कण्ठितजनेन । वासेन अयोध्यावासेन । हृतचेतसा चित्तनाशकेन ॥ २।४८।२० ॥
कैकेय्या इति । कैकेय्या राज्यं यदि अधर्म्यम् अधर्मौपेतम् । अनाथवत् नाथरहितं स्यात्, तस्मिन् राज्ये नः अस्माकम् जीवितेनाप्यर्थौ नहि, कुतः पुत्रैः धनैरित्यन्वयः ॥ २।४८।२१ ॥
ययेति । पुत्रो रामः, सा कं वा परिहरेत् रक्षेत् । यद्वा त्यागात्परिहरेत्, सर्वानपि परित्यजेदित्यर्थः । भर्तृपुत्रत्यागकारिण्यास्तस्या इतरत्यागः कियानिति भावः ॥ २।४८।२२ ॥
कैकेय्या इति । जीवन्त्याः कैकेय्या राज्ये तस्याः भृतकाः भृत्यभूता जीवन्त्यः सत्यः न निवसेमहि । इममर्थं प्रति शपामहे ॥ २।४८।२३२५ ॥
विलापः नाशः ॥ २।४८।२६ ॥
ते विषपिति । ते यूयं पुरुषाः, सस्त्रीका इति शेषः । विषमालोड्य विषं पेषायित्वा अश्रुतिं वापि गच्छत न विद्यतेश्रितिः युष्मन्नामग्रहणं यस्मिन् देशेत तं देशं गच्छतेत्यर्थः ॥ २।४८।२७ ॥
मिथ्येति । मिथ्याप्रव्राजितः मिथ्यावरकल्पनया प्रव्रजितो ऽभूत् । कैकेय्या वशगे भरते राजनि सति । सौनिके पशुमारकसमीपे, पशवो यथा निश्चितमरणास्तिष्ठन्ति सन्निविष्टाः स्मः ॥ २।४८।२८ ॥
विश्लेषासहिष्णुतया रामस्त्वकार्यं कृतावानित्यभिधाय तद्गुणकीर्तनेनाप्यायनं कुर्वन्तिपूर्णचन्द्रानन इत्यादिना ॥ २।४८।२९ ॥
पूर्वाभिभाषी स्वसौहार्दभव्यत्वप्रदर्शनाय सर्वत्र पूर्वभाषणशीलः ॥ २।४८।३०,३१ ॥
ता इति । मृत्योर्हेतोः भयागमे सति यथा ॥ २।४८।३२ ॥
इतीति । विलपन्तीनां प्रलपन्तीषु सतीषु, दिनकरो ऽस्तं जगाम । सूर्यास्तमयानन्तरं रजनी चाभ्यवर्ततेति, अनेन पौरस्त्रीदुःखासहिष्णुतया अस्तमयानन्तरम् अस्तमयात्पुर्वं च भानोः पूर्वगत्यपेक्षया अतिवेगगमनं द्योत्यते ॥ २।४८।३३ ॥
नष्टेति । नष्टो ज्वलनानां सम्पातो होमाद्यर्थमुद्बोधो यस्यां सा । प्रशान्तान्यध्ययनानि सत्कथाः पुण्यकथाश्च यस्यास्सा ॥ २।४८।३४ ॥
उपशान्तेति । निराश्रया रामाश्रयराहित्यान्निराश्रय ॥ २।४८।३५ ॥
तथेति । सुतैः सुतेभ्यः । स रामः तासामधिको ऽभवत् । अतो रामनिमित्तं रुरुदुरिति सम्बन्धः ॥ २।४८।३६ ॥
प्रशान्तं गीतोत्सवनृत्तवाद्यतौर्यत्रिकं यस्यां सा । पिहितः आपणानां पण्यवस्तूनाम् उदयः प्रसारणं यस्यां सा । संक्षपितोदकः क्षीणोदको यथा ॥ २।४८।३७ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायाम् अयोध्याकाण्डव्याख्यायाम् अष्टचत्वारिंशः सर्गः ॥ २।४८ ॥