प्रभातायामिति । शोकेनोपहताः अत एव निश्चेष्टाश्च तथा ॥ २।४७।१ ॥
शोकेति । शोकजाश्रुभिः परिद्यूनाः क्लिन्नाः । रामस्यालोकमपि रामसम्बन्ध्यालोकसाधनं रथरेण्वादिकमपि ॥ २।४७।२,३ ॥
विषयाविष्टचित्तानां भगवतः श्रीरामस्य दर्शनं दूरापास्तमिति द्योतयन्त इवाहुःधिगस्तु खल्विति ॥ २।४७।४ ॥
कथमिति । अवितथक्रियः अमोघक्रियः ॥ २।४७।५,६ ॥
इहैवेति । निधनं प्रायोपवेशेन मरणम् । महाप्रस्थानं मरणदीक्षापूर्वकमुत्तराभिमुखगमनम् ॥ २।४७।७,८ ॥
किमिति । नीतः प्रापितः । वनमिति शेषः । अस्यायमर्थःरामवृत्तान्तं पृच्छन्तं जनं प्रति अस्माभिः राघवो वनं नीत इति वक्तुं कथं क्षमम् ? अन्यद्वा किं वक्ष्याम इति । । ४७।९१२ ॥
तत इति । मार्गानुसारेण रथमार्गानुसारेण । किञ्चित्क्षणं किञ्चित् कालम् । मार्गनाशात् रथमार्गादर्शनात् । पुनः महता विषादेन समभिप्लुताः ॥ २।४७।१३ ॥
रथस्येति । मार्गनाशेन हेतुना दैवेनोपहता इति, प्रलपन्त इति शेषः । किमिदमितः परं किं करिष्याम इति न्यवर्तन्तेत्यन्वयः ॥ २।४७।१४,१५ ॥
आलोक्येति । क्षयव्याकुलमानसाः क्षयं गृहं प्रति व्याकुलानि व्यथितानि गन्तव्यं न वेत्येवं रूपचिन्तायुक्तानि मनांसि येषां ते तथा । अवर्तयन्त अमुञ्चन् ॥ २।४७।१६ ॥
एषेति । नातिशोभत इत्यश्रूण्यवर्तयन्तेति पूर्वेण सम्बन्धः ॥ २।४७।१७,१८ ॥
ते तानीति । ते पौराः । महाधनानि अमूल्यानि तानि वेश्मानि, स्वस्ववेश्मानीत्यर्थः । विशन्तोपि दुःखेन सहितं स्वजनं वा जनम् अन्यजनं वा निरीक्षमाणा अपि दुःखेनोपहतास्सन्तः, स्वपरवेश्मविवेकं स्वजनान्यजनविवेकं च नैव प्रजज्ञुः, न प्रापुरित्यर्थः ॥ २।४७।१९ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां सप्तचत्वारिंशः सर्गः ॥ २।४७ ॥