तत इति । सीतामुद्वीक्ष्य सौमित्रिमब्रवीदित्यनेन सीतोद्देशेनाप्यवोचदित्यवगम्यते ॥ २।४६।१ ॥
इयमिति । वनवासस्य वनवाससम्बन्धिनीनां निशानां मध्य इत्यर्थः । पूर्वा प्रथमा । अद्य इयं निशा इदानीमुपस्थिता रात्रिः । वनं प्रहिता वने प्राप्ता, वनवासदिनेष्वेको दिवसो गतप्राय इत्यर्थः । अतः स त्वम् उत्कण्ठितुं गृहसौख्यादिवाञ्छां कर्तुं नार्हसि ॥ २।४६।२ ॥
पश्येति । यथा यथायोगं स्वस्वनिलयमायद्भिर्मृगद्विजैः निलीनानि अन्तर्लीनतया व्याप्तानि अत एव शून्यानि रुदन्तीव खिन्नानीव चारण्यानि वर्तन्ते तानि पश्य ॥ २।४६।३ ॥
अद्येति । सस्त्रीपुंसा स्त्रीपुरुषसाहिता । ऽअचतुरऽ इत्यादिना अकारान्तता ॥ २।४६।४ ॥
कुतः अनुरक्ता इति । बहुभिर्गुणैर्हेतुभिः अनुरक्ताः ॥ २।४६।५ ॥
पितरमिति । अभिक्ष्णशः मुहुर्मुहुः रुदन्तौ तौ पितरौ रोदनवशादन्धौ भवेतां वापि किम् इति पितरं मातरं चानुशोचामीत्यन्वयः ॥ २।४६।६ ॥
अथापि तदनुशोचने न काचिच्चिन्तेत्याहभरत इति ॥ २।४६।७ ॥
भरतस्येति । अनृशंसत्वम् अक्रौर्यम् ॥ २।४६।८ ॥
अथ लक्ष्मणानुगमनेन सन्तुष्ट आह त्वयेति । मामनुव्रजता त्वया, कार्यं कर्तव्यमेव कृतम् । हि यस्मात् । वैदेह्या रक्षणार्थे सहायता अन्वेष्टव्या सम्पादनीया ॥ २।४६।९ ॥
अद्भिरिति । अत्र तमसातीरे, अद्भिरेव अप एव आहारीकृत्य वत्स्यामीत्यर्थः । वनवासोपक्रमदिवसत्वात्तमसातीरस्य पुण्यक्षेत्रत्वाच्चोपवासः कार्य इति भावः (वत्स्याम्यत्रेति पाठः ) ॥ २।४६।१०,११ ॥
सो ऽश्वानिति । संयम्य बद्ध्वा, प्रभूतयवसान् समृद्धग्रासवतः कृत्वा । प्रत्यनन्तरः प्रत्यासन्नः ॥ २।४६।१२ ॥
उपास्येति । शयनं शयनस्थलं चक्रे ॥ २।४६।१३ ॥
तामिति । सौमित्रिणा सार्धं सौमित्रिं हस्ते गृहीत्वा शय्यां वीक्ष्य सभार्यः संविवेशेति सम्बन्धः । यद्वा वृक्षदलैः सौमित्रिणा सार्धं सूतेन कृतां तां शय्यां वीक्ष्येति सम्बन्धः । वृतामित्यपि वा पाठः ॥ २।४६।१४,१५ ॥
जाग्रत इति । उदितो रविः अरुणोदयकालो जात इत्यर्थः ॥ २।४६।१६।१७ ॥
निशाम्य अवलोक्य, निद्राणा इति शेषः ॥ २।४६।१८ ॥
अस्मद्व्यपेक्षान् अस्मास्वेव विशेषेणापेक्षावतः । अत एव गृहेषु निरपेक्षान् अपेक्षारहितान् ॥ २।४६।१९ ॥
यथेति । यथा वयमेतेषां निवृत्तौ नियमं कुर्मः तथैवास्मन्निवर्तने नियमं कुर्वन्ति स्म, अत एव एते प्राणान्वा नशिष्यन्ति त्यक्ष्यन्ति, निश्चयमस्मन्निवर्तनरूपनिश्चयं न त्यक्ष्यन्तीति सम्बन्धः ॥ २।४६।२० ॥
यावदिति । सुप्ता एते । यावत् यावत्पर्यन्तम् । नोत्थिता भवेयुरिति शेषः । तावत् तावत्पूर्वमेव । लघु क्षिप्रम् । रथमारुह्य गच्छामेत्यर्थः ॥ २।४६।२१ ॥
अत इति । इक्ष्वाकुपुरवासिनो मामनुरक्ताः, इदानीमिव भूयोपि पुनरपि, वृक्षमूलानि संश्रिताः न स्वपेयुः, अतो गच्छामेति पूर्वेण सम्बन्धः ॥ २।४६।२२ ॥
पौरा इति । आत्मकृतात् आत्मनिमित्तात् स्वैः कृतादित्यर्थः । दुःखात् आत्मना आत्महेतुना, दुःखेन न योज्यः पौरा इति सम्बन्धः ॥ २।४६।२३,२४ ॥
अथेति । अतस्तस्माद्रथादरण्यं गच्छामि । शीघ्रं गच्छ, रथसंयोजनायेति शेषः ॥ २।४६।२५,२६ ॥
अयमिति । युक्तः सज्जः ॥ २।४६।२७ ॥
तमिति । परिच्छदः धनुः कवचादिलक्षणः ॥ २।४६।२८ ॥
स सन्तीर्येति । सन्तीर्य परपारसमीपजलस्थितरथादवतीर्येत्यर्थः । पद्भ्यामेव महामार्गं प्रपद्येत्यर्थः । भयदर्शिनां भयशङ्किनाम् ॥ २।४६।२९ ॥
मोहनार्थमिति । पौराणां मोहनार्थं त्वमेव रथमास्थाय न तु वयम् । उदङ्मुखः प्रयाहि अयोध्यां प्रति रामभद्रो निवृत्त इति पौराणां भ्रान्तिमुत्पादयितुमुदङ्मुखो याहीत्यर्थः । स्वस्याप्युदङ्मुखगमने व्रतभङ्गः स्यादितिधिया । सुमन्त्र त्वमेक एव रथमास्थाय किञ्चिद्दूरं गत्वा पुनरागच्छेत्युक्तवान् ॥ २।४६।३०,३१ ॥
रामस्येति । प्रत्यागम्य मार्गान्तरेण प्रत्यागम्य ॥ २।४६।३२ ॥
ताविति । सम्प्रयुक्तं सम्यगानीतं रथं समास्थितौ समारूढौ, अभूतामिति शेषः । येन पथा तपोवनं गम्यते तेन पथा स सुमन्त्रः तुरङ्गमान् चोदयामासेत्यन्वयः ॥ २।४६।३३ ॥
तत इति । पूर्वोक्तनिगमनश्लोकः । सः सुमन्त्रः । प्रयाणमाङ्गल्यनिमित्तदर्शनात् प्रयाणानुकूलमङ्गलसूचकनिमित्तदर्शनाद्धेतोः । तं रथमुदङ्मुखं चकार । निमित्तस्वीकारार्थमुदङ्मुखं चकारेत्यर्थः । ततः निमित्तस्वीकारानन्तरम् । ससारथिः सारथिसहितः दाशरथिः रथं समास्थाय दक्षिणाभिमुखतया वनं ययावित्यन्वयः ॥ २।४६।३४ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां षट्चत्वारिंशः सर्गः ॥ २।४६ ॥