०४५ तमसातीरगमनम्

निवर्तित इति । ते पौराः ॥ २।४५।२,३ ॥

स इति । याच्यमानः निवर्तस्वेति प्रार्थ्यमानः । सत्यं सत्यवचनम् ॥ २।४५।४ ॥

स्वाः प्रजाः इव स्वपुत्रानिव ॥ २।४५।५ ॥

अयोध्यानिवासिनां युष्माकमिति शेषः ॥ २।४५।६ ॥

स हीति । प्रियाणि इह लोके सुखकराणि, हितानि परलोकार्थमनुष्ठेयानि, वर्णाश्रमाचारादीनि ॥ २।४५।७ ॥

वयोबालो ऽपि ज्ञानादिना वृद्धः । मृदुरपि वीर्यगुणान्वितः ॥ २।४५।८ ॥

स हीति । हि यस्मात् भरतः, वः युष्मदर्थम् युवराजः समीक्षितः निश्चितः, राज्ञे ते शेषः । अतो मया शिष्टैरपि लक्ष्मणशत्रुघ्नादिभिः सर्वैरपि भर्तुः राज्ञः शासनं नियोगः कार्यमिति सम्बन्धः ॥ २।४५।९,१० ॥

यथायथेति । धर्ममेवास्थितो ऽभवत् धर्ममेव परिगृह्णाति । धर्मे पितृवाक्यपरिपालनरूपे वा, रामं पतिमकामयन् ॥ २।४५।११ ॥

बाष्पेण पिहितं पिहितलोचनम् । गुणैः रज्जुभिरेव स्वगुणैर्बद्ध्वा ॥ २।४५।१२ ॥

त इति । ओजसा तपोबलेन, एवं त्रिविधं यथा वृद्धाः, तेषां मध्ये वयः प्रकम्पशिरसः अतिवृद्धत्वादेव आरादनुधावनाशक्त्या दूरादिदं वक्ष्यमाणमूचुः ॥ २।४५।१३ ॥

रामस्य परमकरुणामुत्पादयितुं तुरङ्गान् प्रत्याहुःवहन्त इति । वहन्तः रथेन प्रापयन्तः । हिता भवत, भर्तारं वनं न नयतेति यावत् । ब्राह्मणयाच्ञामतिक्रम्य युष्मद्गमनं भर्तुरहितमिति भावः ॥ २।४५।१४ ॥

एवं प्रार्थितानां तेषां वेगगमनदुःखादाहुःकर्णवन्तीति । विशेषेण यूयं कर्णवन्त इत्यनुकर्षः । तस्माद्बवद्भिर्वनं न गन्तव्यम्, अपितु याचनामस्मदीयां प्रतिवेदिताः ज्ञातवन्तः निवर्तध्वम् ॥ २।४५।१५ ॥

धर्मत इति । धर्मात् उपवाह्यः पुरसमीपं प्रापणीयः । वः युष्माभिः, नतु पुराद्वनम् अपवाह्यः अपनीय प्रापणीयः ॥ २।४५।१६ ॥

एवमिति । प्रलपतः आर्तवाक्यानि प्रयुञ्जानान् ॥ २।४५।१७ ॥

पद्भ्यामिति । पद्भ्यां जगाम, ब्राह्मणवाक्यश्रवणानन्तरं रथगमने दोषो भवतीति प्रतिनिवृत्त्य ब्राह्मणाश्वासने व्रतभङ्गो भवतीति च भयाद्रथादवतीर्य तदागमनपर्यन्तं सन्निकृष्टपदन्यासो भूत्वा वनपरायण एव शनैर्जगाम, नतु निवृत्तो नापि स्थित इत्यर्थः ॥ २।४५।१८ ॥

कुतो हेतोरित्यत आहद्विजातीनिति । रथेन परिमोक्तुं न शशाक रथेनोपलक्षितः सन् द्विजातीन्निवर्तयितुं न शशाक । ब्राह्मणेष्वतिविश्वासात् रथारूढस्सन् ब्राह्मणान्निवर्तयितुं नोचितमित्यमन्यतेत्यर्थः ॥ २।४५।१९ ॥

गच्छन्त मेव प्रार्थनानन्तरमपि गच्छन्तमित्यर्थः ॥ २।४५।२० ॥

दुःखप्रदर्शनेन प्रलापादिनाप्यनिवृत्तं रामं सहवनगमनलक्षणं महाभारमारोप्य निवर्तयितुमुद्युञ्जतेब्राह्मण्यमिति । ब्राह्मण्यं ब्राह्मणसम्बन्धि सकलमन्त्रतन्त्रज्ञानयोगानुष्ठानरूपमस्मदीयं कर्म, ब्राह्मणसमूहो वा । द्विजस्कन्धेति । पात्रारणिभरणद्वारेणेतिशेषः ॥ २।४५।२१ ॥

वाजपेयेति । मेघानिव जलात्यय इति शरदि मेघवत्पाण्डराणीत्यर्थः ॥ २।४५।२२ ॥

अनवाप्तेति । वाजपेयिकैः वाजपेययागप्राप्तातानि वाजपेयुकानि तैः ॥ २।४५।२३ ॥

या हीति । वेदमन्त्रानुसारिणी तदभ्यासानुसरणशीला । त्वत्कृते त्वन्निमित्तम् । वनवासानुसारिणीकृता वेदमन्त्राभ्यासादिकं परित्यज्य वनवासोन्मुखीकृतेत्यर्थः ॥ २।४५।२४ ॥

नस्त्वया सह वनगमने न काप्यनुपपत्तिरित्याहुःहृदयेष्विति । चारित्रं पातिव्रत्यम् ॥ २।४५।२५ ॥

न पुनरिति । त्वद्गतौ त्वन्निवर्तनरूपगतौ । मतिः सुकृता सुष्ठु निश्चिता । निश्चयः वनगमननिश्चयः । पुनर्न कार्यः, त्वयेति शेषः । त्वयि धर्मव्यपेक्षे सति ब्राह्मणप्रार्थनाकरणरूपधर्मनिरपेक्षे सति । इतो ऽधिकम् किम् किम्भूतम् धर्ममुपेक्षितं स्यात् न किमपीत्यर्थः । इतः परं ब्राह्मणप्रार्थनाया अप्यधिकं कं धर्मं साधयिष्यसीति भावः ॥ २।४५।२६ ॥

तथापि गच्छन्तं प्रत्याहुःयाचित इति । हंसशुक्लशिरोरुहैः पलितकैशैः । शिरोभिः महीपतनपांसुलैः साष्टाङ्गप्रणामेन महीपतनपांसुलैः रजोव्याप्तैर्देहैश्च याचितो निवर्तस्व । निभृताचार निश्चलध्रर्मानुष्ठान ॥ २।४५।२७ ॥

बहूनामिति । ये द्विजाः इहागताः, तेषां ये यज्ञाः विस्तृताः, सम्भृतसम्भारा इत्यर्थः । तेषां यज्ञानां समाप्तिः तव निवर्तने आयत्ता त्वन्निवर्तनाधीनेत्यर्थः । एवं न कृतं चेत् सर्वे यज्ञाः त्वयैव विघ्निताः स्युरिति भावः ॥ २।४५।२८ ॥

न केवलं वयमेव, तिर्यक्स्थावराण्यपि त्वन्निवृत्तमाकाङ्क्षन्त इत्याहुःभक्तीत्यादि । भक्तिं स्नेहं दर्शय, निवृत्त्येति शेषः ॥ २।४५।२९ ॥

अनुगन्तमिति । मूलैर्हेतुभिः । उद्धतवेहिनः अत्यन्तहतवेगवन्तः, अत एव त्वामनुगन्तुमशक्ताः वायुवेगेन हेतुना विक्रोशन्तीवेति सम्बन्धः । अयं भावःपुरवासिनां रामानुयानभाग्यमवलोक्य स्वयमपि तदर्थमुद्युक्ताः मूलैर्हेतुभिर्हतगमनवेगाः पुरजनैरिवास्माभिः रामानुयानभाग्यं न लब्धमिति वायुवेगेन हेतुना विक्रोशन्तीति ॥ २।४५।३० ॥

निश्चेष्टागारसञ्चाराः चेष्टया गात्रसञ्चालनादिना आहारार्थं सञ्चाराः येभ्यो निर्गताः । प्रयाचन्ते प्रार्थयन्ते, वृक्षरूपे एकस्मिन्नेव स्थाने विष्ठिताः न तु भुवमवरोहन्त्यहारार्थमपीत्यर्थः ॥ २।४५।३१ ॥

एवमिति । रामनिवर्तने द्विजातीनां विक्रोशतां सतां राघवं वारयन्ती तमसा ददृशे दृष्टेति सम्बन्धः । यद्वा द्विजातीनां निवर्तने । सम्बन्धसामान्ये षष्ठी । द्विजातिभिः प्रार्थ्यमानरामनिवर्तन इत्यर्थः ॥ २।४५।३२ ॥

तत इति । संपरिवर्त्त्य अध्वश्रमनिवृत्त्यर्थं भुवि परिवेष्टनं कारयित्वा अचारयत् भक्षितयवसानकरोत् ॥ २।४५।३३ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वीदपिकाख्यायाम् अयोध्याकाण्डव्याख्यायां पञ्चचत्वारिंशः सर्गः ॥ ४५ ॥