०४४ कौसल्यासान्त्वनम्

पुत्रविवासजनितशोकेन विलपन्तीं कौसल्यां सुमित्रा समाश्वासयतिविलपन्तीमित्यादिना ॥ २।४४।१ ॥

कृपणं यथा तथा रुदितेन वा किम् अयुक्तमेवेत्यर्थः । अत्र हेतुः, सद्गुणैर्युक्तः अत एव पुरुषोत्तमः, पुरुषोत्तमस्य न कुत्राप्यपाय इति भावः ॥ २।४४।२ ॥

राममुद्दिश्य विलापो न कार्य इत्यत्र हेतुमाहयस्तवेत्यादि श्लोकद्वयमेकान्वयम् । आर्ये कौसल्ये यस्तव पुत्रः प्रेत्यफलोदये प्रेत्यफलस्य आमुष्मिकसुखस्य उदयो यस्मिन् स तथा । शश्वच्छिष्टैराचरिते धर्मे पितृवाक्यपरिपालनरूपधर्मे सम्यक् स्थितः सन्, हस्तप्राप्तं राज्यमपि त्यक्त्वा सत्यवादिनं पितरं साधुसिद्धसङ्कल्पं कुर्वन् गतः । वनमिति शेषः । स रामो न शोच्य इत्यन्वयः ॥ २।४४।३,४ ॥

व इति गायत्र्याः पञ्चमाक्षरं वर्तत इत्यस्यादिमाक्षरेण व इत्यनेन सङ्गृह्णाति वर्तत इति । अस्मिन् रामे उत्तमां वृत्तिं पितृतुल्यप्रतिपत्त्या शुश्रूषाव्यापारम् । वर्तते करोति । अतस्तस्य रामस्य लाभः सुखमित्यर्थः ॥ २।४४।५ ॥

अरण्येति । अरण्यवासे यद्दुःखमस्ति तज्जानती भर्तुस्तदपनयनार्थं वैदेह्यनुगच्छति, अतो रामस्य न दुःखप्रसङ्ग इति शेषः ॥ २।४४।६,७ ॥

सुमित्रा जन्मान्तरीयभगवदाराधनजनितसुकृतपरिपाकेन श्रीरामं परमात्मानं मत्वा मनसि निधाय वनेष्वातपादिषु सञ्चरतो रामस्य सूर्यादिबाधा नास्ति, अपितु तत्सेवैव भविष्यतीति कौसल्यामाश्वासयति व्यक्तं रामस्येत्यादि श्लोकत्रयेण । सुर्यः रामस्य शौचम् अपहतपाप्मत्वादिलक्षणम् । माहात्म्यं सर्वनिन्तृत्वादिलक्षणं च व्यक्तं यथा तथा विज्ञाय, अंशुभिः गात्रं रामदेहं सन्तापयितुं नार्हति । “भीषोदेति सूर्यः” इति श्रुतिप्रामाण्यात् परमात्मभीतस्य सूर्यस्य परमात्मसन्तापकरत्वं च न युक्तमिति भावः ॥ २।४४।८ ॥

“भीषास्माद्वातः पवते” इति श्रुत्यनुसारेण भगवद्भीतो वायुरपि सेवां करिष्यतीत्यभिप्रेत्याहशिव इति ॥ २।४४।९ ॥

जगदाह्लादकरस्यापि भगवतः श्रीरामस्य स्वशक्त्यनुसारेण चन्द्रोप्याह्लादं करिष्यतीत्याशयेनाहशयानमिति ॥ २।४४।१० ॥

ददाविति । ब्रह्मा रणे तिमिध्वजसुतं “वैजयन्तमितिख्यातं पुरं यत्र तिमिध्वजः । स शम्बर इति ख्यातः शतमायो महासुरः ॥ " इत्युक्तत्वात् तिमिध्वजशब्देन शम्बर उच्यते । तत्सुतं दानवेन्द्रं हतं दृष्ट्वा यस्मै रामाय दिव्यास्त्राणि ददौ । “यदा व्रजति सङ्ग्रामं ग्रामार्थे नगरस्य वा । गत्वा सौमित्रिसहितो नाविजित्य निवर्तते " इत्यभिधानात् । कदाचिद्रामो दण्डकारण्यं गत्वा वैजयन्तं पुरं निरुध्य दशरथविरोधिभूतशम्बरस्तुं हतवन्, तेन प्रीतो ब्रह्मा रामाय दिव्यास्त्राणि ददावित्यवगम्यते ॥ २।४४।१११३ ॥

या श्रीरिति । रामस्य या श्रीः सर्वलक्षणसम्पन्नगात्रशोभा, यर्च्छौर्यं जेतृत्वं या कल्याणसत्त्वता प्रशस्तबलयुक्तता, एतैरसाधारणहेतुभिः स रामः क्षिप्रं राज्यमवाप्स्यतीतिसम्बन्धः ॥ २।४४।१४ ॥

सुर्यस्येति । सूर्यस्य सकलजगत्प्रकाशकस्यापि, सूर्यः प्रकाशको भवेत् । अग्नेरग्निः सर्वदाहकस्याग्नेरपि दाहकः । प्रभोः प्रभुः सर्वनियन्तुर्ब्रह्मादेरपि नियन्ता । श्रियः श्रीः सम्पदोपि सम्पत् । कीर्त्याः अग्न्या कीर्तिः कीर्तेरपि प्रशस्त्यापादकः । क्षमाक्षमा सर्वाधारभूताया भूमेरप्याधारः ॥ २।४४।१५ ॥

दैवतानां च दैवतं पूज्यः । भूतानां भूतसत्तमः महद्भूतम् । रामस्य परमात्मत्वात्सूर्यस्यापि भवेत्सूर्य इत्यादि श्लोकद्वयेनोक्तं सर्वं वास्तवमेवेत्यवगन्तव्यम् ॥ २।४४।१६ ॥

पृथिव्येति । सहराम इत्यत्र सः ह रामः इति पदच्छेदः । सः रामः पृथिव्या वैदेव्या श्रिया

विजयलक्ष्म्या च एताभिस्तिसृभिस्सह क्षिप्रमभिषेक्ष्यते हेति सम्बन्धः ॥ २।४४।१७ ॥

दुःखजमित्यस्य पृथिव्या सहेति पूर्वश्लोकस्थेन रामो ऽभिषेक्ष्यत इत्यनेन सम्बन्धः ॥ २।४४।१८ ॥

तथापि तस्य वने विषयसुखं नास्तीति शोचन्तीं प्रत्याह कुशचीरेति । कुशचीरधरमपि देवं दीप्यमानं, लक्ष्मीः राजलक्ष्मीः । सीतेव सीतात्मना ॥ २।४४।१९ ॥

धनुर्ग्रहवरः धनुर्गृह्णन्तीति धनुर्ग्रहाः शूराः तेषां वरः श्रेष्ठः ॥ २।४४।२०२३ ॥

मा शोक इति । रामे रामविषये । अशिवमशुभं न दृश्यते, अतः शोकः प्रलापादिः । दुःखं मनोव्यथा वा, मा न कार्यमित्यर्थः ॥ २।४४।२४२६ ॥

अभिवादयमानमिति । मेघलेखा मेघपङ्क्तिः ॥ २।४४।२७,२८ ॥

अभिवाद्यनमस्यान्तं प्रवरोच्चारणपूर्वकं नमस्यन्तम् ॥ २।४४।२९ ॥

आश्वासयन्तीति । वाक्योपचारे वाक्यरूपोपचारे । कुशला ॥ २।४४।३०,३१ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायामयोध्याकाण्डव्याख्यायां चतुश्चत्वारिशः सर्गः ॥ २।४४ ॥