राघव इति । विजिह्नतां विषं कौटिल्यरूपं विषम्, उप्त्वा निक्षिप्य, निर्मुक्ता मुक्तकञ्चुकी पन्नगीव ॥ २।४३।२,३ ॥
अथेति । अन्नमदत्त्वा वरं ममात्मजं कैकेय्या दासमपि दातुं कामकारः मम इष्टाचरणमेव । कुतः ? अथ अन्नरहितदासकरणानन्तरम् । रामः नगरे भैक्षं चरन् गृहे वसेत् स्म । वसेत्खल्विति योजना ॥
२।४३।४ ॥
पातयित्वेति । पर्वणि आहिताग्निना प्रदिष्टो रक्षोभागत्वेनोपकल्पितः पुरोडाश इव कैकेय्या रामं स्थानाद्राज्यात् स्वगृहावस्थानाद्वा, यथेष्टतः यथेच्छं पातयित्वा रक्षसां भागः प्रदिष्टः, प्रक्षिप्त इत्यर्थः । त्वयेति शेषः । यद्वा पातयित्वेति कैकेय्या कर्त्र्या रामः स्वस्थानाद्राज्यात् पातयित्वा भ्रंशयित्वा रक्षसां भागस्सन् यथेष्टतः यथेच्छम्, प्रदिष्टः विनियुक्तः । प्रविद्ध इति पाठे क्षिप्त इत्यर्थः । अत्र दृष्टान्तमाह पर्वणीति । पर्वणि दर्शपूर्णमासरूपपर्वणि, आहिताग्निना व्रीहिगततुषजालमिति शेषः । रक्षसां भाग इवेति पर्वण्याहिताग्निना व्रीहिगततुषजालं यथा रक्षोभागत्वेन प्रदिष्टं तथा कैकेय्यापि रामो राक्षसभागत्वेन नियुक्त इति भावः । अत एव दर्शपूर्णमासानुक्रमणिकायां ऽरक्षोभ्यः स्वाहा रक्षोभ्य इदं न ममऽ इत्युद्देश्य त्यागः ॥ २।४३।५,६ ॥
वने त्विति । कैकेय्यानुमते, स्थितेनेति शेषः ॥ २।४३।७ ॥
त इति । तरुणाः तरुणी च तरुणौ च तरुणाः । फलकाले युवावस्थत्वेन राज्यभोगानुभवकाले ॥ २।४३।८ ॥
अपीति । यत् यस्मिन् काले, सभार्यं राघवं भ्रात्रा सह पुरे पश्येयं मम शोकक्षयकरः स कालः इदानीमपि इदानीमेव स्यादिति योजना ॥ २।४३।९ ॥
सुप्त्वैवेति । या यशस्विनी तामयोध्यामिति सम्बन्धः ॥ २।४३।१०१३ ॥
प्रविशन्ताविति । उदग्रायुधनिस्त्रिंशौ आयुधं धनुः निस्त्रिंशः खड्गः ॥ २।४३।१४ ॥
कदेति । कन्या द्विजातीनां कन्याश्च द्विजातयश्चेति द्वन्द्वः । अत्र कन्यानां सुमनसः पुष्पाणि, द्विजातीनां फलानीप्ति विवेकः । प्रदिशन्तः प्रगृह्णन्तः । हृष्टा भूत्वा रामादयः पुरीं प्रदक्षिणं करिष्यन्ति, पौरजनोत्सवायेति शेषः ॥ २।४३।१५ ॥
कदेति । बुद्ध्या परिणतः ज्ञानेन वृद्धः, वयसा च अमरप्रभः । अमरा हि नित्यं पञ्चविंशतिवार्षिका एव भवन्ति, तत्सदृश इत्यर्थः । त्रिवर्ष इव मा ललन्निति पाठः । मा मां प्रति ललन् क्रिडां कुर्वन् ॥ २।४३।१६ ॥
निस्संशयमिति । कदर्यया क्षुद्रया, शातिताः कृत्ताः ॥ २।४३।१७ ॥
साहमिति । बालवत्सा गौरिव । वत्सला साहं सिंहेन गौरिव कैकेय्या बलाद्विवत्सा कृतेति सम्बन्धः ॥ २।४३।१८ ॥
न हीति । तावद्गुणैर्जुष्टं यावन्तः कल्यणगुणास्सन्ति तावद्गुणैः जुष्टं युक्तम् ॥ २।४३।१९ ॥
न हीति । कल्प्यते, दैवेनेति शेषः । कल्पय इति पाठेविद्यत इत्यर्थः ॥ २।४३।२० ॥
अयमिति । अयं मां दीपयते, सन्तापयतीत्यर्थः ॥ २।४३।२१ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां त्रिचत्वारिशः सर्गः ॥ २।४३ ॥