यावदित्यादि । निर्यतस्तस्य सम्बन्धि रजसो रूपं यावददृश्यत तावदात्मचक्षुषी न सञ्जहारेति सम्बन्धः ॥ २।४२।१ ॥
यावद्राजेति । अत्र रजः कर्तृत्वेनानुषज्यते राजा पुत्रं यावत्पश्यति,रथधूलिदर्शनद्वारेति शेषः । तावत् अस्य राज्ञः पुत्रदर्शने पुत्रदर्शननिमित्तं धरण्यां रजो व्यवर्द्धतेव मन्निमित्तेन पुत्रदर्शनेन राजा कञ्चित्कालमप्यव्यथितो भवेदिति मत्वेव व्यवर्धतेत्यर्थः ॥ २।४२।२ ॥
राजसोप्यदर्शने तच्छरीरं पतितमभूदित्युच्यतेन पश्यतीत्यादि । रामस्य सम्बन्धि रजः ॥ २।४२।३ ॥
तस्य दक्षिणमुद्धृत्येति । तस्य दक्षिणं बाहुम् । उद्धृत्य गृहीत्वा, कोसल्या अन्वागात् स्वपुरं प्रति गम्यमानं तमनुससारेत्यर्थः । कैकेयी त्वस्य वामपार्श्वमेव केवलमन्वगात् ॥ २।४२।४,५ ॥
धतदेवाहकैकेयीति । ४२।६।७ ॥
न केवलमैहिकव्यवहारस्य त्यागः, अपि तु पारलौकिकस्यापीत्याहअगृह्णामित्यादि । यच्च ते पाणिमगृह्णां, यच्च त्वामग्निं पर्यणयं प्रदक्षिणमनयम् अग्निसाक्षिकं ते तव पाणिमगृह्णामित्यर्थः । इह लोके परत्र च तत्सर्वमनुजानामीत्यन्वयः । अस्यार्थःइह लोके तत्सर्वमनुजानामि त्यजामि, इतःपरं त्वया सह क्रिडादिव्यवहारं त्यजामीत्यर्थः । परलोके त्यजामीति इतः परं परलोकार्थं त्वया सह अग्निहोत्रादिकर्म त्यजामीत्यर्थः ॥ २।४२।८ ॥
रामप्रव्राजनानन्तरं कैकेयीसम्पादितराज्यलाभेन भरते तुष्टे स्वस्य मरणं निश्चित्याह भरत इति । भरतः राज्यं प्राप्य, प्रतीतः स्यात् सन्तुष्टः स्याच्चेत्ततो मे मम मरणानन्तरम् स भरतः पित्रर्थं मे
यद्दद्यात् तद्दत्तं मां मागमदित्यन्वयः ॥ २।४२।९ ॥
अथेति । अथरेणुसमुध्वस्तम्, सम्मार्जिरेणुमित्यर्थः ॥ २।४२।१०,११ ॥
निवृत्त्येति । ग्रस्तस्य राहुग्रस्तस्य ॥ २।४२।१२१८ ॥
सा नूनमिति । सुखसदोचिता सुखस्य सदा उचिता ॥ २।४२।१९ ॥
अनभिज्ञेति । श्वापदानर्दितम् श्वापदानां व्याघ्रादिहिंस्रपशूनाम् आनर्दितं शब्दम् ॥ २।४२।२०,२१ ॥
इतीति । अपस्नातः मृतस्नातः । अरिष्टं सूतिकागृहं, तद्वत्कश्मलम् ॥ २।४२।२२ ॥
तदेव प्रदर्श्यते शून्येति । शून्याः सम्मार्जनरहिताः चत्वरं चतुष्पथम् वेश्मनामन्ताः मध्यप्रदेशाश्च यस्यां तां तथोक्ताम् । संवृतापणदेवतां पिहितापणदेवतागृहामित्यर्थः । क्लान्ताः दुर्बलाः दुःखार्ताश्च जना यस्यां तथा । नात्याकीर्णः अत्यन्तप्राणिसम्मर्दरहितो महापथो यस्यां ताम् । अनेन सञ्चारक्षमाः सर्वे राममनुगता इति द्योत्यते ॥ २।४२।२४ ॥
सुपर्णेन हृतोरगमिति रिपूणां निर्भयप्रवेशमात्रे दृष्टान्तः ॥ २।४२।२५ ॥
अथेति । मृदु मन्दोच्चरितम्, मन्दार्थम् अबुद्धार्थम् । दीनं शोच्यम् । अस्वरं शुद्धकण्ठध्वनिरहितम् ॥ २।४२।२६,२७ ॥
द्वारदर्शिनः द्वारपालाः, विनीतवत् विनीताः सन्तः, कौसल्याया गृहमनयन् तत्र तैर्न्यवेश्यन्त । भवार्थे यक् । ते द्वारपाला अपि तत्रैव स्थिता इत्यर्थः ॥ २।४२।२८ ॥
तत इति । लुलितं कलुषितम् ॥ २।४२।२९३१ ॥
सुखिता इति । ये नरोत्तमाः तं कालं तावत्कालपर्यन्तं जीविष्यन्ति ते सुखिताः । अन्यो ऽन्यं परिष्वजन्तः पुनरागतं रामं द्रक्ष्यन्तीति योजना ॥ २।४२।३२ ॥
अथेति । कालरात्र्यां संहाररात्र्याम् ॥ २।४२।३३ ॥
न त्वामिति । हे कौसल्ये त्वां न पश्यामि, अतस्त्वं मां पाणिना साधु सम्यक् स्पृश, कुतः ? मे दृष्टिः अद्यापि न निवर्तते, तत्कुतः ? राममनुगता “रमन्ते योगिनो ऽनन्ते सत्यानन्दे चिदात्मनि । इति रामपदेनासौ परब्रह्माभिधीयते” इति श्रुतेः । अतः अद्यापि न निवर्तत इति सम्बन्धः । अयं भावः चक्षुषो रामैकप्रवणत्वभाग्यलाभवत्सर्वेन्द्रियाणां तादृग्भाग्यं यदि लभ्येत तदानीं मदन्यो धन्यो न को ऽपीति मनसि निधाय सर्वेन्द्रियाणां तत्प्रार्थयन् आदौ तावत् त्वचः तदस्ति नास्ति वेति निश्चेतुं मां स्पृशेति कौसल्यां नियोजयति ॥ २।४२।३४ ॥
तमिति । उपोपविश्य शयनसमीपे उपविश्येत्यर्थः ॥ २।४२।३५ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां द्विचत्वारिंशः सर्गः ॥ २।४२ ॥