०४१ प्रजाशोकवर्णनम्

तस्मिन्निति । कृताञ्जलौ मातृपरिवेष्टितं पितरमुद्दिश्य कृताञ्जलौ तस्मिन् रामे निर्याते नगरान्निर्गच्छति सति संजज्ञ इति सम्बन्धः ॥ २।४१।१ ॥

तदेवाहअनाथस्येति । गम्यत इति गतिः प्राप्यः । शरणं रक्षिता ॥ २।४१।२ ॥

न क्रुद्ध्यतीति । अभिशप्तः मिथ्याभिशंसनं प्रापितः । क्रोधनीयानि प्रजाक्रोधकराणि ॥ २।४१।३५ ॥

अहो इति । निश्चेतनः बुद्धिहीनः । प्रवत्स्यति प्रवासयति ॥ २।४१।६८ ॥

नाग्निहोत्राणीति । होतृ़णां व्यसनातिशयादित्यर्थः । सूर्यश्चान्तरधीयतेति रामव्यसनकर्शितस्सन् दिवसशेषे सत्यपि अन्तर्धानं प्राप्तवानिति गम्यते ॥ २।४१।९ ॥

व्यसृजन्निति । व्यसृजन् त्यक्तवन्तः, नाग्निहोत्राण्यहूयन्तेत्यादिनैवमुक्तम्रामस्य सर्वात्मनामात्मभूतत्वात्तस्य दुःखे सति सर्वस्यापि दुःखं भवति अत एवास्मिन् रामायणे यद्यत्प्रतिपाद्यते तत्सर्वं वास्तवमेवेत्यवगन्तव्यम् । न पाययन् नापाययन् ॥ २।४१।१० ॥

त्रिशङ्कुरिति । लोहिताङ्गः अङ्गारकः, बृहस्पतिबुधावपि । अन्ये ग्रहाः शनिशुक्रादयः । सोममभ्येत्य वक्रगत्या सोमं समाक्रम्य अत एव दारुणास्सन्तो व्यवस्थिताः ॥ २।४१।११ ॥

नक्षत्राणीति । विशाखाः इक्ष्वाकुकुलनक्षत्रं विशाखानक्षत्रादुत्पन्नसूर्यवंशजत्वादिक्ष्वाकोरित्याशयः । नक्षत्राणि गतार्चीषि जातानि । ग्रहाश्च विशाखाः विमार्गस्थाश्च सधूमाश्च अत एव गततेजसः नभसि प्रचकाशिर इत्यनेन राजविपत्सूच्यते ॥ २।४१।१२ ॥

कालिकानिलवेगेन मेघपङ्क्तिसहितवायुवेगेन उत्थितो महोदधिरिवाभूदिति सम्बन्धः ॥ २।४१।१३ ॥

ग्रहः जात्येकवचनम्, नवग्रहा इत्यर्थः । नक्षत्रम् अश्विन्यादि न किञ्चन प्रकाशे ॥ २।४१।१४ ॥

अकस्मात् अकारणात् ॥ २।४१।१५ ॥

शोकपर्यायसंतप्तः शोकपरम्परासंतप्त इत्यर्थः ॥ २।४१।१५१८ ॥

अनर्थिनः सुता इति । सुता अनर्थिनो ऽनपेक्षिणो ऽभवन् । मातापित्रोरिति शेषः । तथा स्त्रीणां भर्तारो ऽनर्थिनो ऽभवन्, भ्रातरश्चानार्थिनो ऽभवन् । भ्रातृ़णामितिशेषः । अयमर्थःवनं गच्छन्तं रामं दृष्ट्वा कौसल्या न निवारितवतीति कृत्वा मातरो निष्प्रयोजना इति सुता जननीरत्यजन्, रामोपि मातरं मुक्त्वा वनं गत इति कृत्वा पुत्रेण नार्थ इति मातरः सुतानत्यजन् । भर्तारः पत्युपद्रवकारिणीं कैकेयीमवेक्ष्य स्वभार्या अत्यजन् । भार्या अपि कौसल्यामुपेक्ष्य तत्पुत्रं वनं गमयन्तं राजानमवेक्ष्य स्वभर्तृ़नत्यजन् । भ्रातरोपि भरतं रामराज्यापहारहेतुं मत्वा भ्रातृनत्यजन् । एवं कनीयांसोपि ज्येष्ठानत्यजन्निति । ततः सर्वे सर्वं परित्यज्य राम एव सर्वेषां नो बन्धुः किमन्यैरिति तमेवान्वचिन्तयन् अचिन्तयन् ॥ २।४१।१९ ॥

ये त्विति । शयनं मूर्च्छया प्राप्तं भूशयनम् ॥ २।४१।२० ॥

तत इति । पुरन्दरेण रहितेव सपर्वता मही चचाल । पुरन्दरस्य त्रिलोकपतित्वात्तद्राहित्ये पालकाभावाद्भूमेश्चलनं सिद्धमिति दृष्टान्तत्वम् । ननाद च दुःखाच्चक्रन्देत्यर्थः ॥ २।४१।२१ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां एकचत्वारिंशः सर्गः ॥ २।४१ ॥