अथेति उपसङ्गृह्य पादग्रहणपूर्वकं प्रणम्य । दीनाः वृद्धयोर्मातापित्रोः शुश्रूषा न लब्धति दीनाः ॥ २।४०।१ ॥
तमिति । मातृदुःखदर्शनात् शोकसम्मूढः ॥ २।४०।२ ॥
अन्वक्षमिति । भ्रातुः अन्वक्षम् अनुपदम् ॥ २।४०।३,४ ॥
सृष्ट इति । सुहृज्जने अत्रत्यसुहृज्जने । स्वनुरक्तोपि त्वं मया वनवासाय सृष्टः अनुमतः स त्वं गच्छेति भ्रातरि रामे प्रमादं मा कार्षीः रामसेवायामनवधानतां मा कुर्वित्यर्थः ॥ २।४०।५ ॥
कनिष्ठस्य ज्येष्ठानुवर्तनं परमधर्म इत्युपदिशन्त्याह व्यसनीति । राज्याद्यभावे व्यसनी वा राज्यप्राप्त्या समृद्धो वा एष रामः ते गतिः शरणम् । कुतः ? ज्येष्ठवशगो भवेदिति यत् एष एव धर्म इति योजना ॥ २।४०।६ ॥
इदं हीति । इदं ज्येष्ठानुर्वतनरूपम् । धर्मान्तरमप्याह दानमिति ॥ २।४०।७ ॥
वनवासे पितृमातृनगरस्मरणेन मनश्लाञ्चल्यं भवतीति धिया तत्रैव पित्रादिप्रतिनिधिं कल्पयतिराममिति । गच्छेत्यस्य उवाचेत्युत्तरेण सम्बन्धः । रामं दशरथं पितरं विद्धि, जनकात्मजां मां मातरं विद्धि, अटवीम् अयोध्यां नगरीं विद्धि । यद्वा रामं दशः पक्षी रथो यस्य तं दशरथं विष्णुं विद्धि । “दशः पक्षी विहङ्गमः " इति हलायुधः । जनकात्मजां मां लक्ष्मीं विद्धि । अटवीम् अयोध्यां योद्धुमशक्याम् विष्णुपुरीं विद्धि । “देवानां पूरयोध्या” इति श्रुतेः । अथवा दशरथं रामम् उपगत विद्धि । भर्त्रभावान्मां जनकस्य पितुः आत्मजां पितृगृहवर्तिनीं विद्धि । रामेण सह सर्वेषां निर्गमनात् अयोध्यामटवीं विद्धि । यद्वा रामं विद्धि दशरथं च विद्धि, परिचारिकापरिचारकयोर्गुर्वोः को वा
अनुवर्त्यः ? इति विचारय । अयोध्यां विद्धि अटवीं विद्धि, ऐहिकसुखराज्यभोगपारलौकिकज्येष्ठानुवर्तनधर्मयोः को वा गरीयानिति विचारयेत्यर्थः । लक्ष्मणमिति । संसिद्धं संसादने गमने निश्चयवन्तम्, गमनोद्युक्तमित्यर्थः । प्रियराघवम् प्रियो राघवो यस्य स तथा ॥ २।४०।८१० ॥
रथमिति । यत्र यद्देशप्रापणे । मां वक्ष्यसि नियोजयसि तं देशं क्षिप्रं प्रापयिष्यामि ॥ २।४०।११ ॥
कुतः ? यानि चतुर्दशवर्षाणि त्वया वने वस्तव्यानि तान्यद्यैवोपक्रमितव्यानि आरम्भणीयानि । कुतः ? कैकेय्या अद्यैव गच्छेति हि चोदितो ऽसि ॥ २।४०।१२ ॥
तं रथमिति । हृष्टेन इदानीं पतिसेवा लब्धेत्यानन्दयुक्तेन चेतसा उपलक्षिता ॥ २।४०।१३ ॥
अथो इति । रामसक्ष्मणौ रथमारुरुहतुः ॥ २।४०।१४ ॥
वनवासमिति । श्वशुरो दशरथः ॥ २।४०।१५ ॥
तथैवेत्यादि श्लोकद्वयमेकं वाक्यम् । सुमन्त्रो भ्रातृभ्यां रामलक्ष्मणाभ्याम् आनीतान्यायुधजालानि कलचानि । सचर्म चर्मपिनद्धम् । लक्षणया पिटकमित्यर्थः । कठिनं खनित्रं च रथोपस्थे रथमध्ये प्रतिन्यस्य निक्षिप्य तत् सीतायै दशरथदत्तवस्त्राभरणादिजातं च प्रतिन्यस्य ॥ २।४०।१६ ॥
रथमारूढान् सीतातृतीयान् दृष्ट्वा अश्वानचोदयदित्यन्वयः । एतत्पक्षे दृष्ट्वा रथमिति पाठः ॥ २।४०।१७ ॥
प्रतियात इति । चिररात्राय चिरकालावस्थानाय । नगरी मूर्च्छा नगरस्थस्त्रीबालवृद्धादिषु दुःखातिशयेन नगर्येव विसंज्ञितेव बभूवेत्यर्थः । (नगरी इति पाठः) बलमूर्च्छा अश्वगजादिमोहः । जनस्य उत्सवार्थं, समागतजानपदस्य भटादीनां वा मूर्च्छा बभूवेत्यर्थः ॥ २।४०।१८ ॥
तदिति । तत्पुरं समाकुलम् इतिकर्तव्यतामूढम्, सम्भ्रान्तं रामानुगमनत्वरायुक्तम् । मत्ताः अत एव सङ्कुपिताः द्विपा यस्मिन् तत्तथा । हयानां शिञ्जितानां पर्याकुलप्राणिभूषणशब्दानां च निर्घोषो ध्वनिर्यस्मिंस्तत्तथा । अत एव पुरं महास्वनमासीत् ॥ २।४०।१९,२० ॥
पार्श्वत इति । तं सुमन्त्रमित्यर्थः ॥ २।४०।२१,२२ ॥
आयसमिति । देवगर्भप्रतिमे देवकुमारसदृशे । यद्यस्मात् कारणात् ॥ २।४०।२३२५ ॥
महतीति । एनमनुगच्छसीति यत् एषा ॥ २।४०।२६२९ ॥
पिता हि राजेति । सन्नः खिन्नः ॥ २।४०।३०३२ ॥
निर्गच्छतीति । अभ्यवहितम् अवसिक्तमिति यावत् ॥ २।४०।३३३५ ॥
दृष्ट्वेति । एकचित्तगतम् एकचित्तत्वं प्राप्तम् ॥ २।४०।३६३८ ॥
अन्वीक्षमाणः पश्चादीक्षमाणो रामः । पितं मातरं च ददर्शेति सम्बन्धः ॥ २।४०।३९ ॥
स बद्ध इति । किशोरः बालाश्वः, संक्षिप्तः निबद्धः, प्रकाशं नाभ्युदैक्षत, सङ्कुचितदर्शनव्यापारो बभूवेत्यर्थः ॥ २।४०।४० ॥
पदातिनाविति । दृष्ट्वा रामः पितराविति शेषः ॥ २।४०।४१ ॥
न हीति । पितुः मातुश्च दुःखदं दर्शनं सहितं न शक्तः, दुःखितौ पितरौ द्रष्टुं न शक्त इत्यर्थः । तोत्रं प्रतोदः (दुःखदमितिपाठः) ॥ २।४०।४२ ॥
प्रत्यगारमिति । अगारं प्रति वत्स कारणात् बद्धवत्सा धेनुर्यथा धेनुरिव । राममाता कौसल्या । अभ्यधावत् राममिति शेषः ॥ २।४०।४३,४४ ॥
रामलक्ष्मणसीतार्थं तद्वियोगवशादित्यर्थः ॥ २।४०।४५ ॥
तिष्ठेति । चक्रयोर्युयुत्सुसेनयोः अन्तरास्थितः पुरष इव सुमन्त्रस्य आत्मा मनः दशरथरामवचनाभ्यां
डोलायितो बभूव ॥ २।४०।४६ ॥
राजवचनातिक्रमे महानपराधः स्यादित्यत आहनेति । उपालब्धोपि मयि तिष्ठ तिष्ठेति पुनःपुनः क्रोशति सति मद्वचनं नाकार्षीरिति राज्ञा निन्दितोपीत्यर्थः । दुःखस्य इदानीमनुभूयमानदुःखस्य । चिरं चिरकालावस्थानं । पापिष्ठमतिदुस्सहमिति कृत्वा राज्ञां उपालब्धोपि नाश्रौषमिति पश्चाद्वक्ष्यसि, अतः शीघ्रं गच्छेति रामः तं सुमन्त्रमब्रवीदिति योजना ॥ २।४०।४७ ॥
रामस्येति । तं जनम् अनुव्रजन्तं पौरजनम् अनुज्ञाप्य,रामेणानुज्ञां प्रापय्येत्यर्थः । व्रचतोपि स्वतो गच्छतोपि हयान् पुनः शीघ्रगमनार्थं चोदयामास ॥ २।४०।४८ ॥
न्यवर्ततेति । राज्ञो जनः राजसम्बन्धी जनः, मानुषं मानुषाणां समूहः, पौरजनश्चेत्यर्थः रामं प्रदक्षिणं कृत्वा न्यवर्तत, देहमात्रेणेत्यर्थः । अपि तु मनसाप्यश्रुवेगैश्च न न्यवर्ततेति योजना । यद्वा राज्ञो जनः राजसम्बन्धी अवरोधजनः उपजीविनो वा । रामं प्रदक्षिणं कृत्वा न्यवर्तत, देहमात्रेणेति शेषः । किन्तु मनसाप्यश्रुवेगैश्च न न्यवर्तत । मानुषं मानुषाणां समूहो मानुषम्, पौरजन इत्यर्थः । देहेन मनसाप्यश्रुवेगैश्च न न्यवर्ततेति योजना । यद्वा निवृत्तस्यापि राजजनस्य मनश्चाश्रुवेगश्च न निवृत्ताः । एवं नागरजनः स्वयं न न्यवर्ततेत्यर्थः ॥ २।४०।४९ ॥
सचिवाः शास्त्रार्थकथनेन राजानं निवर्तयन्तियमिति ॥ २।४०।५० ॥
तेषामिति । व्यवस्थितः अवस्थितः ॥ २।४०।५१ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायामयोध्याकाण्डव्याख्यायां चत्वारिंशः सर्गः ॥ २।४० ॥