०३९ वनप्रस्थानम्

रामस्येति । विगतचेतनः, अभूदिति शेषः ॥ २।३९।१४ ॥

कैकेय्या क्लिश्यमानस्यापि मम यतो मृत्यर्न विद्यते तत्प्राप्तिर्न विद्यते, अतः काले अनागते देहाज्जीवितं न च्यवत्येव ॥ २।३९।५ ॥

य इति । आच्छाद्यते ऽनेनेत्याच्छादः । तापसानामाच्छादो यस्य स तथा । एवम्भूतमात्मजं यो ऽहं पश्यामि तस्य मे मृत्युर्न विद्यत इति पूर्वेणान्वयः ॥ २।३९।६ ॥

एकस्या इति । इमां निकृतिं वरलक्षणशाठ्यम् । संश्रित्य आश्रित्य । स्वार्थे प्रयतमानायाः कैकेय्याः कृते कैकेयीनिमित्तं अयं जनः क्लिश्यत इत्यन्वयः ॥ २।३९।७,८ ॥

संज्ञामिति । नेत्राभ्यामुपलक्षितः ॥ २।३९।९ ॥

औपवाह्यमुपवाहनमात्रोपयुक्तम्, युद्धानर्हमित्यर्थः ॥ २।३९।१० ॥

एवमिति । साधुः वीरो रामः पित्रा मात्रा च वनं निर्वास्यत इति यत् एवमेव गुणवतां नृ़णां गुणानां

फलमुच्यते शास्त्रेणेति मन्य इति दुःखातिशयोक्तिः ॥ २।३९।११,१२ ॥

तमिति । रथमाचचक्षे रथ उपस्थित इत्युक्तवान् ॥ २।३९।१३ ॥

राजेति । सर्वतः शुचिम् इहामुत्रानृणम् । वित्तसञ्चये कोशगृहे । व्यापृतं धनाध्यक्षं निश्चितं यावदवस्थितं वस्तु तद्विषयकज्ञानयुक्तम् ॥ २।३९।१४ ॥

वासांसीति । एतानि वर्षणि चतुर्दशवर्षाणि ॥ २।३९।१५ ॥

नरेन्द्रेणेति । समम् एकदैव । प्रायच्छत् धनाध्यक्ष इति शेषः ॥ २।३९।१६ ॥

सेति । सुजाता अयोनिजा, सुजातानि सामुद्रिकोक्तलक्षणवत्तया उत्पन्नानि ॥ २।३९।१७ ॥

व्यराजयतेति । काले प्रातः काले ॥ २।३९।१८ ॥

तामिति । कृपणं क्षुद्रम् ॥ २।३९।१९ ॥

असत्य इति । असत्यः कुलटाः । विनिपातगतं कृच्छ्रगतम् ॥ २।३९।२० ॥

एष इति । भर्तुः अल्पामप्यापदं दारिद्र्यरोगादिलक्षणाम् । प्राप्य दृष्ट्वा । भर्तारं दुष्यन्ति दूषयन्ति ॥ २।३९।२१ ॥

असत्यशीला इति । असत्यशीलाः असत्यवचनशीलाः । विकृताः विकारोपेतेक्षादिव्यापाराः । क्षणमात्रात् विरागिणः विरागिण्यः अल्पनिमित्ततः क्षणमात्रवैरस्याः, अविश्वसनीयस्नेहा इति यावत् ॥ २।३९।२२ ॥

नेति । कुलं प्रशस्तकुलम् । कृतम् उपकारः । विद्या सद्विद्या । दत्तं दानम् । सङ्ग्रहः सद्ग्रहणम्, न्यायरीत्या आगतस्वीकारः । सर्वमप्येतत् स्त्रीणामसतीनां हृदयं न गृह्णाति तत्पापवृत्तं न प्रतिबध्नाति । “कामातुराणां न भयं न लज्जा” इतिरीत्या कुलाद्युचितकृत्यं पृष्ठीकृत्य कुलाद्यनुचितलोकगर्हितकृत्ये मोहात्प्रवर्तन्त इत्यर्थः । कुत एवमत आह अन्त्यहृदया हि ताः, अव्यवस्थितचित्ता इत्यर्थः ॥ २।३९।२३ ॥

साध्वीनामिति । साध्वीनां पतिव्रतानाम् । श्रुते गुरुजनोपदेशे स्थिते स्वकुलोचितमर्यादावस्थाने (एतत्पक्षेश्रुते स्थिते इति पाठः) स्थितानां त्रीणां परमं परमसुखसाधनम् पतिरेक एव, अतः पतिरेव स्त्रीणां सर्वसाधनेभ्यो विशिष्यते ॥ २।३९।२४ ॥

ततः किमत आह स इति । एष रामः ॥ २।३९।२५,२६ ॥

करिष्य इति । भर्तुः भर्तरि विषये यथा वर्तितव्यं तथा मे मया श्रुतम्, मन्मातापितृभ्यां चेति शेषः ॥ २।३९।२७ ॥

न मामिति । असज्जनेन समानयितुं समतया विचारयितुं नाहमलं न समर्था ॥ २।३९।२८ ॥

नेति । शतात्मजेति बहुव्रीहिः ॥ २।३९।२९ ॥

मितमिति । अमितस्य ऐहिकामुष्मिकसकलसुखस्य । कर्मणि षष्ठी ॥ २।३९।३० ॥

साहमिति । एवंगता एवंविधपातिव्रत्यधर्मं प्राप्ता । श्रेष्ठाश्रुतधर्मपरावरा श्रेष्ठाभ्यः पूज्याभ्यः श्वश्रूमातृप्रमुखाभ्यः श्रुतः परावरः सामान्यविशेषरूपो धर्मो यया सा तथा । किमवमन्ये कस्मादवमन्ये ॥ २।३९।३१ ॥

सीताया इति । शुद्धसत्त्वा सत्त्वगुणाढ्या ॥ २।३९।३२ ॥

तामिति । मातृमध्ये मातृणां मध्ये अतिसत्कृताम्, मातृभिरिति शेषः । अभिक्रम्य प्रदक्षिणीकृत्य ॥ २।३९।३३ ॥

अम्बेति । मां पश्य । वनवासस्य वनवासकालस्य ॥ २।३९।३४ ॥

सुप्ताया इति । एकस्यां रात्र्यां सुप्तायाश्चर्तुदशघटिका इव चतुर्दशवर्षाणि क्षिप्रमेव गमिष्यन्तीत्यर्थः ।

चक्षुर्निमील्य स्वल्पकालं दुःखमविगणय्य तिष्ठेत्यर्थः । सा त्वं समग्रं समग्रश्रेयस्कम् सुहृद्वृतं भ्रातृभार्यादिसहितम् ॥ २।३९।३५ ॥

एतावदिति । अभिनीतार्थं निर्णीतार्थम् । त्रयश्शतशतार्धाः त्रयश्शतं त्रिशतं शतार्धं सङ्ख्या यासां ताः । त्रय इति छान्दसः । स रामः, त्रयश्शतशतार्धाः मातरो मातृ़ः । अवेक्ष्य विविच्य ददर्श ॥ २।३९।३६ ॥

ताश्चेति । ताश्चापि मातरोपि तं रामं तथैव ददृशुरिति विपरिणामः । अथ दशरथात्मजः आर्ताः मातृ़ः इदं जगादेत्यन्वयः ॥ २।३९।३७ ॥

संवासात् एकत्र सहवासात् । किञ्चित्परुषमुक्तम् अज्ञानाद्वापि यत्कृतं तन्मे समनुजानीत, क्षान्तमित्यनुज्ञां कुरुतेत्यर्थः ॥ २।३९।३८ ॥

वचनमिति । समाहितं समीचीनार्थयुक्तम् ॥ २।३९।३९,४० ॥

मुरजेति । मुरजाश्च पणवा मेघाश्च मुरजपणवमेघम् । द्वन्द्वैकवद्भावः । मेघो वाद्यविशेषः । तद्धोषवत् विलपितपरिदेवनाकुलम् विविधानि लपितानि रामगुणकैकेयीदुर्गुणप्रतिपादकवाक्यानि यस्मिन् तद्विलपितम् । परिदेवनं रोदनम्, तेन आकुलम् ॥ २।३९।४१ ॥

इति श्रीमहेश्वरतीर्थवरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां एकोनचत्वारिंशस्सर्गः ॥ २।३९ ॥