०३८ रामेण दशरथप्रार्थना

इयमिति । श्रमणी तपस्विनी, “श्रमु तपसि खेदे च " इति धातुः ॥ २।३८,५ ॥

चीराणीति । अपास्यात् त्यजतु, मम मया न दत्तपूर्वा नानुमतपूर्वा ॥ २।३८।६ ॥

अजीवनार्हेणेति । अजीवनार्हेण मुमूर्षुणा । नृशंसा क्रूरा । प्रतिज्ञा त्वत्प्रार्थितं करिष्यामीति प्रतिज्ञा । नियमेन शपथपूर्वकम् । तावत् प्रथमम् । कृता त्वया हि, बाल्यादज्ञानात् । एतत् सीताप्रव्राजनम् । प्रतिपन्नं प्रारब्धं निश्चितं वा । मया रामस्य प्रव्राजनप्रतिज्ञैव कृता न सीतायाः, त्वयैव केवलमस्याः प्रवाजनमारभ्यते तदेतत्सीताप्रव्राजनं मां दहेत् नाशयेत् वेणुमात्मपुष्पमिव ॥ २।३८।७ ॥

रामेणेति । असोभनम् अपराधः । वैदेह्या सीतया । ते तव । दर्शितः सम्पादितः ॥ २।३८।८,९ ॥

नन्विति । ते तव । पर्याप्तं यावदात्मभावि नरकानुभवायालम्, भूयोप्यधिकम्, ते त्वया, कृतैरनुष्ठीयमाणैः, कृपणैः अनिर्वाच्यदुःखप्रदैः, एभिः सीताप्रव्राजनरूपैः पातकैः । किं किमनुभविष्यसि वा न जानामीत्यर्थः ॥ २।३८।१० ॥

प्रतिज्ञातमित्यादि । अभिषेकाय मया कृतनिश्चयं पश्चात्त्वत्प्रतिबन्धेन इहागतं रामं प्रति जटाचीरधरो वनं गच्छेति यद्वाक्यमब्रवीः, त्वयोक्तं तच्छृण्वता मया च, तावदेव रामविवासनमात्रमेव प्रतिज्ञातम्, न सीताप्रव्राजनमित्यर्थः ॥ २।३८।११ ॥

एतत् मत्प्रवृत्तरामविवासनमप्यतिक्रम्य अधिकप्रवृत्त्या निरयं गन्तुमिच्छसि । को नाम तदतिक्रम इत्यत आह मैथिलीमिति । या त्वं । हि यस्मात् मैथिलीमपि चीरवासिनीमीक्षसे वाञ्छसि तस्मान्निरयं गन्तुमिच्छसीति सम्बन्धः ॥ २।३८।१२,१३ ॥

एवं ब्रुवन्तं सीता यथासुखं गच्छत्विति ब्रुवन्तं । संप्रस्थितः गन्तुं प्रवृत्तः ॥ २।३८।१४,१५ ॥

मयेति । प्रधानपत्नीत्वेन भूयोप्यधिकं संमन्तुं संमानं कर्तुम् ॥ २।३८।१६ ॥

पुत्रशोकमिति । या कौसल्या मयि वनं गते सतीति शेषः । मां सञ्चिन्तयन्ती पुत्रशोकं यथा नर्च्छेत् न प्राप्नुयात् यथा जीवेत् तथा सम्मन्तुमर्हसीति पूर्वेण सम्बन्धः ॥ २।३८।१७ ॥

इमामिति । जातगर्द्धिनीं पुत्रदर्शनकाङ्क्षिणीम् । न्यस्य त्वक्त्वा ॥ २।३८।१८ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपकाख्यायां अयोध्याकाण्डव्याख्यायाम् अष्टत्रिंशः सर्गः ॥ २।३८ ॥