महामात्रेति । महामात्रवचः सिद्धार्थवचः ॥ २।३७।१ ॥
त्यक्तेति । अनुयात्रेण अनुगतबलेन ॥ २।३७।२ ॥
असङ्गतश्चायमनुयात्रप्रस्थापनवाद इत्याहयो हीति । कक्ष्यायां गजबन्धनरज्जौ ॥ २।३७।३ ॥
तथेति । सर्वाणि वस्तूति । भरतायैव अनुजानामि मातुः प्रीतये प्रददामि अतः चीराण्येव वल्कलवस्त्राण्येव ॥ २।३७।४ ॥
खनित्रपिटके खनित्रमवदारणम्, खननसाधनमित्यर्थः । पिटकं कन्दमूलाद्याहरणयोग्यं कण्डोलम् ॥ २।३७।५,६ ॥
म इति । म गमः त्रयाणामानीतानि मुनिवस्त्राणि चीराणि कैकेय्याः प्रतिगृह्य सृक्ष्मवस्त्रमवक्षिप्य तेषु द्वे चीरे स्वयम् अवस्त धृतवान् ॥ २।३७।७,८ ॥
अथेति । पृषती मृगी ॥ २।३७।९ ॥
सेति । सुदुर्मनाः भर्त्तुरीद्दशं वल्कलं प्राप्तमिति । अत एवाश्रुसंपूर्णनेत्रा, कैकेयीकुशचीरे कैकेयीसम्बन्धिनी कुशचीरे ॥ २।३७।१०१५ ॥
ऊचुरिति । एवं तद्वत् इयं न नियुक्ता ॥ २।३७।१६ ॥
पितुरिति । वनं गतस्य तव सम्बन्धिन्याः अस्यास्सीतायाः दर्शनं तावत् त्वदागमनपर्यन्तम् । नः अस्माकम् सफलं त्वद्दर्शनं यथा आनन्दकरं तथा भवत्वित्यर्थः । अथवा अस्या दर्शनं दर्शनेन नः अस्माकं जीवितं सफलं भवत्विति वार्थः । गतस्येति सप्तम्यर्थे षष्ठी । त्वयि गते सतीत्यर्थः ॥ २।३७।१७१९ ॥
तासामिति । सीतयेति षष्ठ्यर्थे तृतीया । संयोगे वा । तुल्यशीलया अनङ्गीकृतनगरस्थितिकया प्रेरितस्सन् चीरं बबन्धैवेति वार्थः ॥ २।३७।२०,२१ ॥
अतीति । अतिप्रवृत्ते अतीतमर्यादे सप्रमाणेव सद्वृत्तेव ॥ २।३७।२२ ॥
रामस्य प्रकृतमासनं प्रस्तुतं पदम्, राज्यमित्यर्थः । अनुष्ठास्यति राज्यं करिष्यति । यावद्रामागमनमित्यर्थः ॥ २।३७।२३ ॥
कथं स्त्रिया राज्यानुष्ठानमत आहआत्मेति । रामस्येयमात्मा “अर्द्धो वा एष आत्मनो यत्पत्नी” इति श्रुतेः ॥ २।३७।२४,२५ ॥
अन्तपालाः राष्ट्रान्तनिक्षिप्तदण्डनायकाः । सहोपजीव्यम् उपजीव्यदशरथसहितम् । सपरिच्छदं सपरिकरम् ॥ २।३७।२६२९ ॥
न हीति । अदत्तां प्रीतिपूर्वकमदत्तां शास्तुं नार्हति । त्वयि वा स्वपितृनाशिकायाम् । इतःपरं पुत्रवद्वस्तुं नार्हतीत्यनुकर्षः । कुतः ? महीपतेर्दशरथाज्जातो यदि “पितृ़न् समनुजायन्ते नराः " इति न्यायादित्याशयः ॥ २।३७।३० ॥
पितृवंशचरित्रं ज्येष्ठे जीवति कनिष्ठस्य राज्यानर्हत्वम् ॥ २।३७।३१ ॥
तदिति । पुत्रगर्द्धिन्या पुत्रवत्सलया ॥ २।३७।३२३४ ॥
एकस्येति । प्रतिकर्मनित्या प्रतिकर्म अलङ्कारव्यापारः स नित्यो यस्यास्सा तथा ॥ २।३७।३५ ॥
विधानैः उपकरणैः ॥ २।३७।३६ ॥
तस्मिन्निति । प्रतिकारकामा प्रतिकारो ऽनुकारः भर्तुस्तपोवेषादिभिरनुकारं कामयमाना विनिवृत्तभावा नैव स्म, वनगमनान्निवृत्तभावा न बभूवैवेत्यर्थः ॥ २।३७।३७ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां सप्तत्रिंशः सर्गः ॥ २।३७ ॥