तत इति । ततः कैकेय्यनङ्गीकारानन्तरम्, अत्र वरदानविषये । प्रतिज्ञया, कैकीयीमुद्दिश्य कृतया । इदं वक्ष्यमाणम् ॥ २।३६।१ ॥
सूतेति । अनुयात्रार्थं सेवार्थम् । प्रतिविधीयतां प्रस्थाप्यताम् ॥ २।३६।२ ॥
रूपेति । वादिन्यः परचित्ताकर्षकवचनचतुराः, रूपाजीवाः गणिकाः । सुप्रसारिताः शिबिरसन्निवेशे पण्यपदार्थप्रसारणं कुर्वन्तः ॥ २।३६।३ ॥
ये चेति । वीर्यतः वीर्यपरीक्षार्थं यैः रमते एनं रामं बहुविधं सुवर्णरत्नादिकम् ॥ २।३६।४७ ॥
यजन्निति । आप्तदक्षिणाः यथोक्तदक्षिणाः ॥ २।३६।८ ॥
भरतश्चेति । पालयिष्यतीति सोपालम्भोक्तिः । संसाध्यतां प्रस्थाप्यतामिति जगादेति सर्गादिश्लोकेनान्वयः ॥ २।३६।९ ॥
एवमिति । भयमागतं भयं प्राप्तम् ॥ २।३६।१०,११ ॥
राज्यमिति । पीतमण्डां मण्डः सुरान्तर्गतसारांशः । निरास्वाद्यतमं निर्गतास्वाद्यतमं वस्तु ॥ २।३६।१२,१३ ॥
वहन्तमिति । हे अहिते धुरि वरद्वयहेतुकभरताभिषेकरामविवासनरूपदुर्वहभारे । नियुज्य नियोज्य । वहन्तम् उक्तार्थमनुष्ठितवन्तम् । मां भूयः नोपारुधः किं तुदसि अभिषेकनिषेधं वरं दत्तवन्तं परिकरप्रदाननिषेधनैष्ठुर्ये च मां निवेश्य भूयः किं क्लेशयसि, मा मास्तु । हे अनार्ये आरब्धं किं कृत्यं नोपारुधः सर्वमुपरुद्धवत्येव, पूर्वमभिषेककृत्यमिदानीमानुयात्रिकप्रदानमारब्धं तदप्युपारुध इत्यर्थः ॥ २।३६।१४ ॥
तस्येति । कैकेयी द्विगुणं क्रुद्धा प्रकारान्तरेण मत्प्रयोजनं नाशयतीति ॥ २।३६।१५१७ ॥
तत्रेति । महामात्रः प्रधानः ॥ २।३६।१८२४ ॥
सफालेति । गिरिदुर्गाणि परिभ्रममाणः कन्दादिकमलोलयत् सर्वा दिशः कन्दाद्यर्थम् अनुचरन्नतिष्ठत ॥ २।३६।२५,२६ ॥
नहीति । अगुणं दोषम् । निरयः दुःखम् । कल्मषं मालिन्यम् ॥ २।३६।२७२९ ॥
तदिति । त्वया विहतया रामस्य श्रिया ते न किञ्चित्फलम्, तदलं वृथाश्रमेण । हि यस्मात् लोकतः प्राप्तः परिवादः रक्ष्यः परिहार्यः ॥ २।३६।३०३१ ॥
एतदिति । कृपणं मार्गमास्थाय या कुचेष्टा कृता ते त्वया सेयं चेष्टा साधुपथादपेता हीति सम्बन्धः ॥ २।३६।३२,३३ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां षट्त्रिंशः सर्गः ॥ २।३६ ॥