०३५ सुमन्त्रकृतं कैकेयीगर्हणम्

तत इत्यादि । लोचने कोपसंरक्ते, कृत्वेति शेषः । वर्णं देहकान्तिम् । मनस्समीक्षमाणः कैकेयीविषयस्नेहरहितं जानन्नित्यर्थः ॥ २।३५।१४ ॥

यस्या इत्यादि सार्धश्लोकमेकवाक्यम् । स्थावरस्य चरस्य च भर्ता राजा दशरथः तव पतिः यदा त्यक्तः, त्वयेति शेषः । तदा तव अकार्यतमं किञ्चिदपि न विद्यत इति योजना ॥ २।३५।५,६ ॥

दुष्प्रकम्प्यं कर्मभिः क्रूरव्यापारैः सन्तापयसि, राजानिमिति शेषः ॥ २।३५।७ ॥

मावमंस्था इति । भर्तुरिच्छा हि भर्तुरिच्छानुसरणमेव ॥ २।३५।८ ॥

यथावय इति । नृपक्षये सति, यथावयः वयःक्रममनतिक्रम्य राज्यानि प्राप्नुवन्ति हि । इक्ष्वाकुकुलनाथे दशरथे वर्तमानेपि तत्कुलक्रमागतमाचरणं लोपयितुमिच्छसीति योजना ॥ २।३५।९,१० ॥

नहीति । विषये देशे । तादृशं ब्राह्मणवासानर्हम् ॥ २।३५।११ ॥

आश्चर्यमिति । यस्यास्ते ईदृशमतिघोरम् वृत्तमाचरन्त्याः सत्याः मेदिनी सद्यो विवृता विदीर्णा न भवतीति यत् इदमाश्चर्यामिव पश्यामीति योजना ॥ २।३५।१२ ॥

महाब्रह्मर्षिसृष्टा इति पाठः । महाब्रह्मर्षिसृष्टाः वसिष्ठादिभिः प्रयुक्ताः । धिग्वाग्दण्डाः धिगित्येवंरूपा वाग्दण्डाः । रामप्रव्राजने स्थितां कृतनिश्चयां त्वां न हिंसन्ति वा न हिंसन्त्येव, आश्चर्यमिति शेषः ॥ २।३५।१३ ॥

अथान्यापदेशेन राजानमनुक्रोशतिआम्रमिति । कुठारेण आम्रं छित्त्वा निम्बं परिचरेत् आलवालादिकरणीन संरक्षेत् । य एनं निम्बं पयसा सिञ्चेद्वा । अस्य निम्बोपचारिणः पुरुषस्य प्रीतये मधुरो मधुररसो न भवेत् । अतो वृथाश्रमाय कैकेय्यनुवर्तनं राज्ञ इत्याशयः ॥ २।३५।१४ ॥

एवं कोपवचनान्युक्त्वा मर्मवचनान्याहआभिजात्यमिति । ते मातुः आभिजात्यं प्रशस्तमातापितृजन्मोचितव्यवहारवत्त्वरूपं यथा तथैव ते तव आभिजात्यमपि हि मन्य इति व्यङ्ग्योक्तिः, कारणानुसारेण कार्यं भवतीति भावः । तदेव दर्शयति नहीति । निम्बात् क्षौद्रं न स्रवेदिति वचो लोके निगदितम्, लोके प्रसिद्धमेव किलेत्यर्थः (आभिजात्यमिति पाठः) ॥ २।३५।१५ ॥

ननु का मम मातुराभिजात्यक्षतिरित्यत्राहतवेति । असद्ग्राहं घोरपापकर्माभिनिवेशम् । पूर्वं यथा येन प्रकारेण श्रुतं तथा तत् संप्रति विद्मः ॥ २।३५।१६ ॥

तद्वेदनमेव प्रतिपादयतिपितुरिति । कश्चिद्योगी वरं सर्वभूतरुतार्थविज्ञानविषयकम् । तस्मात् उक्तलक्षणवरदानबलात् । वसुधाधिपः सर्वभूतरुतं तत्प्रतिपाद्यभावजातं संजज्ञे जानीते स्म,तेन सर्वभूतरुतार्थज्ञेन राज्ञा । तिर्यग्गतानां पशुपक्ष्यादीनाम् ॥ २।३५।१७ ॥

ततः किम् ? तत्राहतत इति । ततः वरप्रभावात् । शयने शयनकाले । भृरिवर्चसः सुवर्णवर्चसः “स्वर्णेपि भूरि” इत्यमरः । जृम्भस्य जृम्भाख्यस्य पक्षिणः पिपीलिकाविशेषस्य वा विरुतात् स्वनात्सकाशात् ते तव पितुः पित्रा भावः जृम्भस्याभिप्रायः विदितः । तत्र तदा । सः केकयः । बहुधा द्विस्त्रिः अहसदिति योजना ॥ २।३५।१८ ॥

तत्रेति । तत्र तदा । मृत्युपाशमभीप्सती ते जननी अयं मां परिहसतीति क्रुद्धा सती नृपते ते हासं हासकारणं जिज्ञासामीत्यब्रवीदित्यन्वयः ॥ २।३५।१९ ॥

नृप इति । शंसामि, हासकारणमिति शेषः ॥ २।३५।२० ॥

मातेति । जीव वा, मा वा म्रियस्व वा । हासकारणं मे शंस, तर्हि मां नापहसिष्यसीति

ज्ञास्यामीत्यर्थः ॥ २।३५।२१ ॥

प्रिययेति । वरदाय स्वस्य वरप्रदात्रे योगिने । तमर्थं तयोक्तनिर्बन्धवचनम् । तत्त्वतः याथार्थ्येन ॥ २।३५।२२ ॥

तत इति । इयं म्रियतां ध्वंसतां निगृह्य निरस्यतां वा असद्ग्राहिण्यास्तस्या वचो मा कृथा इति प्रत्यभाषत ॥ २।३५।२३,२४ ॥

तथेति । तथा मातृवत् दुर्जनाचरिते पथि, स्थितेति शेषः । इमं राजानम् । असद्ग्राहम् असत्कार्यग्राहकं कुरुषे ॥ २।३५।२५ ॥

सत्य इति । समनुजायन्त इत्यत्र इतिकरणं द्रष्टव्यम् । पितृसमानलक्षणा जायन्त इत्यर्थः ॥ २।३५।२६ ॥

नेयेति । नेया नेतुं योग्या, विधेयेत्यर्थः । वसुधाधिपो यदाह श्वो रामो ऽआभिपेच्य इति यद्वचनमाह इदं गृहाण । नैवं भवेति पाठेएवं मातृवदसत्कार्याभिनिवेशिनी न भव । अन्यत्समानम् ॥ २।३५।२७ ॥

मा त्वमिति । असद्धर्मं कनिष्ठाभिषेकपूर्वकज्येष्ठविवासनरूपम् । मोपादधाः न ग्राहयेत्यर्थः ॥ २।३५।२८ ॥

स्वोक्तमनङ्गीकुर्वाणां प्रत्याहन हीति । मिथ्याप्रतिज्ञातं लीलयैव केवलमुक्तमित्यर्थः । अतो राजीवलोचनो राजा त्वदुक्तं न करिष्यति ॥ २।३५।२९ ॥

कर्मण्यः कर्मणि साधुः, अतो ज्येष्ठत्वादिगुणको रामो ऽभिषिच्यतामिति ब्रूहीति सम्बन्धः ॥ २।३५।३० ॥

विपक्षे बाधकमाहपरिवाद इति । परिवादः अपवादः । चरिष्यति ॥ २।३५।३१,३२ ॥

रामे हीति । पूर्ववृत्तम् इक्ष्वाकुकुलक्रमागतं वृत्तम् ॥ २।३५।३३ ॥

इतीति । भूयः अत्यर्थम् ॥ २।३५।३४ ॥

नैव सेति । तीक्ष्णैर्वाक्यैः न क्षुभ्यते, सान्त्वैः न परिदूयते न व्यधते ॥ २।३५।३५ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां पञ्चत्रिंशः सर्गः ॥ २।३५ ॥