तत इति । निरुदरः तनुमध्यः ॥ २।३४।१।२ ॥
उपरक्तमिति । उपरक्तं राहुग्रस्तम् । कीजृशं ददर्शेत्यपेक्षायामीदृशमपश्यदिति प्रदर्शनार्थं पुनर्दर्शनक्रियाप्रयोगः ॥ २।३४।३ ॥
आलोक्येति । राममेवानु राममुद्दिश्य ॥ २।३४।४ ॥
तमिति । वर्द्धयित्वा सम्पूज्य । भयविक्लवयेति रामो वनप्रयाणोद्युक्त इति राज्ञे कथं निवेदयिष्यामीति भयेन विक्लवा कातरा यस्यास्सा तथोक्ता । अश्लक्ष्णमिति छेदः ॥ २।३४।५८ ॥
स सत्यवादीति । सत्यवादी दशरथः ॥ २।३४।९ ॥
सुमन्त्रेति । इह मद्वेश्मनि ये केचन मामका दाराः तान् दारान् इहानय ॥ २।३४।१० ॥
स इति । अतीत्य आतिवेगेन प्राप्य, हे आर्याः वः युष्मान् राजा दशरथः ह्वयति आह्वयति ॥ २।३४।११ ॥
एवमिति । प्रचक्रमुः गच्छन्ति स्म ॥ २।३४।१२ ॥
अर्द्धेति । अर्धसप्तशताः अर्धं सप्तशतस्येत्येकदेशसमासः । पञ्चाशदधिकशातत्रयसङ्खयासङ्ख्येयेत्यर्थः । ताम्रलोचनाः, रामवियोगदुःखात् ॥ २।३४।१३ ॥
समवेक्ष्य, दारानिति शेषः ॥ २।३४।१४१७ ॥
अभ्यपतत् अभ्यगतवान् । विसंज्ञमिव विसंज्ञमेव ॥ २।३४।१८ ॥
स्त्रीसहस्रेति । भूषणध्वनिमूर्च्छितः भूषणध्वनिभिर्व्याप्तः । मिश्रित इति पाठे उरश्शिरस्ताडनादिप्रचलद्भूषणानां ध्वनिभिर्मिश्रितः ॥ २।३४।१९ ॥
तमिति । तया सीतया सार्धं तं परिष्वज्य ते त्रयः समवेशयन्नित्यन्वयः ॥ २।३४।२०,२१ ॥
आपृच्छ इति । कुशलेन सौम्येन चक्षुषा मामनुगृहाणेत्यर्थः ॥ २।३४।२२ ॥
ननु लक्ष्मणसीतयोः कुतो वनवासप्राप्तिः ? न ह्यसौ वरनिर्बन्धस्तयोरत आह कारणैरिति । कारणैः हेतुभिः न चेच्छतः, अत्र स्थातुमिति शेषः ॥ २।३४।२३,२४ ॥
प्रतीक्षमाणमिति । वनवासाय जगतीपतेः स्वस्य अनुज्ञाम् अनुमतिं प्रतीक्षमाणं प्रार्थयमानम् राजा उवाचेति सम्बन्धः ॥ २।३४।२५२७ ॥
भवानिति । न मे कार्यस्त्वमानृतः मे मया त्वम् आनृतः ईषदनृतयुक्तो ऽपि न कार्यः, तव नरकपातप्रसङ्गादित्याशयः (कार्यस्त्वमानृतः इति पाठः) ॥ २।३४।२८,२९ ॥
कैकेय्या मिथः रहसि चोद्यमानः, इदानीमेव रामं प्रेषयेति रहसि चोद्यमान इत्यर्थः ॥ २।३४।३० ॥
श्रेयसे परलोकहिताय, वृद्धये इह लोकाभ्युदयाय च । अरिष्टं स्वस्त्ययनं ते अस्तु, अतः अव्यग्रस्सन् अकुतोभयं पन्थानं गच्छस्व ॥ २।३४।३१ ॥
नहीति । सत्यात्मनः सत्यप्रतिष्ठितस्वभावस्य । धर्माभिमनसः धर्माबिनिविष्टमनसः ॥ २।३४।३२ ॥
अद्येति । अद्य अस्मिन् दिवसे । इदानीं प्रवृत्तां राजनीम् आवस सर्वथा मा गच्छ । किमर्थम् ? एकाहेति । चरामि भोक्ष्यामि तावत् वर्ते च ॥ २।३४।३३ ॥
साधयिष्यसि गमिष्यसि ॥ २।३४।३४ ॥
दुष्करमिति । मत्प्रियार्थं मम परलोकहितार्थम् ॥ २।३४।३५ ॥
नैच्छदिति । छन्नया गूढक्रूराभिप्रायया । चलितः भ्रंशितः, त्वदभिषेकमनोरथ इत्यर्थः ॥ २।३४।३६ ॥
वञ्चेनेति । या वञ्चना सामान्येन प्रतिश्रुतवरयोर्भरताभिषेकत्वादविवासनविशेषपर्यवसायित्वरूपा, मे मया लब्धा । तां तु तामपि । वृत्तसादिन्या कुलोचितचरित्रनाशिन्या ॥ २।३४।३७ ॥
नेति । अपानृतकथम् अपगतासत्यवचनं कर्तुमिच्छसीति यत् नैतदाश्चर्यतमम्, यद्यस्मात् मे ज्येष्ठसुत इति योजना ॥ २।३४।३८,३९ ॥
ऽतर्पितस्सर्वकामैःऽ इत्युक्तस्योत्तरमाहप्राप्स्यामीति । गुणान् अभिमतपदार्थान् सर्वकामैरपक्रमणमेव वृणे सर्वकामप्रतिनिधित्वेन गमनमेव वरय इत्यर्थः ॥ २।३४।४०४३ ॥
अहमिति । वनचरैः तपस्विभिः । निदेशं शासनम् ॥ २।३४।४४ ॥
ऽभव राजा निगृह्य माम्ऽ इत्यस्योत्तरमाहमा विमर्श इति । मा विमर्शः विचारो मास्तु । कथमेवमत आह नहीति । आत्मनि मनसि, सुखं प्रियं वा उद्दिश्य राज्यं न कांक्षितम् अपि तु तव निदेशं तवाज्ञां यथाकर्तुं यथावत्कर्तुमेवेत्यर्थः ॥ २।३४।४५४७ ॥
त्वामहमिति । त्वां सत्यं सत्ययुक्तम् इच्छामि । अनृतम् अनृतयुक्तम् नेच्छामि । तव प्रत्यक्षं प्रत्यक्षदैवभूतस्य तव सन्निधौ । सत्येन सुकृतेन च ते तुभ्यं शप इति सम्बन्धः ॥ २।३४।४८ ॥
न चेति । विपर्ययः सङ्कल्पितवनगमनोद्योगनिवृत्तिः ॥ २।३४।४९,५० ॥
मा चेति । उत्कण्ठाम् व्यथाम् ॥ २।३४।५१५३ ॥
येनेति । त्वयेत्यर्थः ॥ २।३४।५४ ॥
पुरमिति । केवला कृत्स्ना ॥ २।३४।५५ ॥
मयेति । त्वया यदुक्तम्, कैकेय्या इति शेषः ॥ २।३४।५६ ॥
नेति । यथा शिष्टसम्मते तव निदेशे । मे मया । मनो धीयते तथा महत्सु प्रिये च न धीयते अतः मत्कृते दुःखं व्यपैत्विति योजना ॥ २।३४५७५९ ॥
एवमिति । शोकः त्वग्दाहोत्पादकः । दुःखम् अन्तर्व्यथोत्पादकम् ॥ २।३४।६० ॥
देव्य इति । तां कैकीयीम् । हाहाकृतं हाहाशब्दस्य कृतं करणं यस्मिन् तत्तथा । सर्वं परिचारिकादिजनजातम् ॥ २।३४।६१ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायाम् अयोध्याकाण्डव्याख्यायां चतुस्त्रिंशः सर्गः ॥ २।३४ ॥