तत इति । तदायुधे तयोरसाधारणायुथे, धनुषी इत्यर्थः । खड्गादीनामप्युपलक्षणमेतत् । मालादामभिः मालानिचयैः । समलङ्कृते चन्दनादिभिः ॥ २।३३।२ ॥
तत इति । प्रासादहर्म्याणि प्रासादाः देवानां भूभुजां चावासाः, हर्म्याणि धनिनां मन्दिराणि विमानशिखराणि । विमानं सप्तभूमिकं सझ । उदासीनः निरुत्सुकः, व्यलोकयत् । राममिति शेषः ॥ २।३३।३ ॥
न हीति । तस्मात् बहुजनाकुलत्वे रथ्यायां गन्तुमशक्यात्वात् । आरुह्य प्रासादानारुह्य प्रासादात्प्रासादारोहणरूपोपायादेव पश्यन्ति । प्रासादानिति वा पाठः ॥ २।३३।५ ॥
ता एवाह यमिति ॥ २।३३।६ ॥
ऐश्वर्यस्येति । रसज्ञः विषयानुभवचतुरः, पितरम् अनृतम् अनृतवचनयुक्तं कर्तुम् । वचनं धर्मगौरवादितिपाठेवचनं पितृवचनम् । अनृतं कर्तुम् । धर्मगौरवात् पितृवचनकरणरूपधर्मविषयकबहुमानात् ॥ २।३३।७९ ॥
अद्येति । अद्य प्रयाणानुमत्यर्थदर्शनसमय इत्यर्थः । सत्त्वं जन्तुम्, पिशाचमिति यावत् । आविश्य प्राप्य भाषते ॥ २।३३।१० ॥
निर्गुणस्येति । वृत्तेन केवलं चरित्रमात्रेण । पूर्वश्लोकपूर्वार्द्धमर्धान्तरेण व्याख्यायते अद्येति । अद्य वनगमनानुमतिसमये । सत्त्वं सत्त्वगुणम् । आविश्य प्राप्य । भाषते त्वया वनं न गन्तव्यमिति राजा रामं वदिष्यतीत्यर्थः । कुतः ? नहि राजेति सार्धेन । अन्यत्समानम् ॥ २।३३।११ ॥
वृत्तमेवाहआनृशंस्यमिति । आनृशंस्यम् अहिंसकत्वम् । अनुक्रोशो दया । श्रुतम् अनुष्ठानपर्यवसायिशास्त्राध्ययनम् अत एव शीलं सत्स्वभावः, दमः इन्द्रियनिग्रहः । शमः चित्तप्रशान्तिः ॥ २।३३।१२ ॥
तस्मादिति । यस्मात्सर्वोत्तमः सकलकल्याणगुणाभिरामो रामः तस्मात् तस्य उपघातेन ईषद्धिंसनेन परमपीडिताः ॥ २।३३।१३ ॥
किञ्च जगत्पालकत्वजगज्जनकत्वादपि तस्योपघातेन जगत्पीडितमित्याहपीडयेत्यादिश्लोकद्वयेन । पुष्पफलोपगः पुष्पफलान्युपगच्छति प्राप्नोतीति तथा । पुष्पफलसमेत इत्यर्थः । मनुष्यणामित्युपलक्षणम् प्राणिमात्रस्येत्यर्थः । धर्मसारः धर्म एवान्तस्सारो यस्य स तथोक्तः ॥ २।३३।१४,१५ ॥
यदेवमतः, त इति ये रामोपघातमसहमानाः ते वयं सपत्न्यः सपत्नीकाः । येन मार्गेणेति शेषः ॥ २।३३।१६ ॥
एकदुःखसखाः समानसुखदुःखाः ॥ २।३३।१७ ॥
समुद्धृतेत्यादि । निधानानि निक्षेपाणि । परिध्वस्ताजिराणि भग्नाङ्गणानि । उपात्तधनधान्यानि, अत्र धनशब्देन गावादिकमनिक्षिप्तभूषणनिष्कादिकं चोच्यते ॥ २।३३।१८ ॥
उद्बिलैः उद्भिन्नबिलैः ॥ २।३३।१९,२० ॥
दुष्कालेन क्षामराजक्षोभयुक्तकालेन ॥ २।३३।२१ ॥
वनमिति । येन वनेन हेतुना ॥ २।३३।२२ ॥
बिलानीति । दंष्ट्रिणः सर्पाः । सानूनि पर्वतप्रस्ताः ॥ २।३३।२३ ॥
अस्मत्त्यक्तमिति । अस्मात्त्यक्तम्, पुरमिति शेषः । सेव्यमानम् अस्माभिराश्रयमाणम्, वनमितिशेषः । अत्र कर्तारः पूर्वोक्तगजसिंहादयः ॥ २।३३।२४ ॥
तृणेति । तृणमांसफलादानां देशं व्यालमृगद्विजम् । व्यालमृगाः द्विजाः मनुयो यस्मिन् स
तथोक्तः, देशं वनम् । तृणमांसफलादानान् फशुव्यालमृगाद्विजानिति पाठे तृणमांसफलानाम् आदानम् एभ्यो वनदेशेभ्यः ते तथा । पशुव्यालमृगद्विजान् पश्वादयश्च येषु ते तथोक्ताः ॥ २।३३।२५ ॥
इतीति । न विचक्रे विकारं न प्रापितवान् ॥ २।३३।२६२८ ॥
प्रतिक्षमाण इति । आर्तं खिन्नम् । निदेशं नियोगम् ॥ २।३३।२९ ॥
तत्पूर्वमिति । तत्पूर्वं तदारभ्य । आर्तरूपं दुःखरूपम् । महात्मा महाधैर्यः । पितुः प्रतिहरणार्थं स्वागमननिवेदनार्थं सुमन्त्रं प्रेक्ष्य तत्प्रतीक्षां कृत्वा व्यतिष्ठत ॥ २।३३।३०,३१ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायाम् अयोध्याकाण्डव्याख्यायां त्रयस्त्रिशः सर्गः ॥ २।३३ ॥