०३२ सम्पद्वितरणम्

तत इति ॥ २।३२।१ ॥

तमिति । अग्न्यगारम् अग्निहोत्रशाला वेश्म रामस्याभ्यागच्छ । दुष्करकारिणः प्राप्तराज्यत्यागपूर्वकवनगमनरूपदुष्करकारिणः ॥ २।३२।२ ॥

तत इति । सन्ध्यां माध्याह्निकीम् ॥ २।३२।३ ॥

तमिति । अभिचक्राम प्रत्युत्थानादिकं कृतवान् ॥ २।३२।४ ॥

जातरूपेति । अङ्गदमृर्ध्वाकारं पत्रलताचित्रितं बाहुमूलधार्यं भूषणम् । केयूरम् तस्याधोभागे धार्यं वलयाकारं भूषणम् । वलयैः कटकैः हेमसूत्रैः मणिभिः स्वर्णसूत्रस्यूतैः मुक्तादिमणिभिरित्यर्थः ॥ २।३२।५ ॥

सुयज्ञमिति । सीताप्रचोदित इति सीतया सुयज्ञपत्न्यै दिव्याभरणदानाय सखीत्वात् प्रचोदित इत्यर्थः ॥ २।३२।६ ॥

हारमिति । हेमसूत्रम् उरोभूषणविशेषमित्यर्थः ॥ २।३२।७,८ ॥

पर्यङ्कमिति । त्वयि प्रतिष्ठापयितुम्, तुभ्यं दातुमित्यर्थः ॥ २।३२।९ ॥

नाग इति । शत्रुञ्जयो नाम प्रसिद्धं यं गजं मातुलो मम ददौ तं गजं ते ददामि ॥ २।३२।१०१६ ॥

सूत इति । सार्धश्लोकमेकं वाक्यम् । सूतः सुमन्त्रादन्यः चित्ररथनामकः, सुचिरोषितः चिरकालवृद्धः, पशुकाभिः अजामहिषीप्रभृतिभिः ॥ २।३२।१७ ॥

ये चेति । कठकालापाः कठाः कठसम्बन्धिशाखाध्यायिनः, कालापाः कलापिसम्बन्धिशाखाध्यायिनश्च कठकालापाः । दण्डमाणवाः पलाशदण्डयुक्ता ब्रहचारिणः अन्यत् व्रतोपवासादिकं न कुर्वन्ति ॥ २।३२।१८ ॥

कुतः ? नित्येति । स्वादुकामाः मृष्टान्नकामाः, तर्हि कथमेवंविधा दानयोग्या इत्यत आह महतामिति । “तषोहि स्वाध्यायः” इति श्रुतेः । नित्यतपस्वित्वेन महतां सम्मताः । रत्नपूर्णानि धनपूर्णानि अशीतियानानि अशीत्युष्ट्रान् ॥ २।३२।१९ ॥

शालिवाहेति । शालिन् वहन्तीति शालिवाहाः बलीवर्दाः भद्रकाः कर्षणप्रवीणाः महर्षभाः । व्यञ्जनार्थं दधिघृताद्यर्थम् । उपाकुरु ददस्वेत्यर्थः ॥ २।३२।२० ॥

मेखलीनामिति । मेखलाः मेखलिनः ब्रह्मचर्यव्रतिनः । अर्श आदित्वादच् । समवस्थितः । विवाहार्थमिति शेषः । तेषां सहस्रम् गोसहस्रं विवक्षितम् । गवामेव प्रकृतत्वात् । अम्बा कौसल्या,नः अस्माकं दक्षिणां ब्रह्मचारिभ्यो दत्तं यथा नन्देत् तथार्चयेति योजना । प्रथमान्तपाठे दक्षिणा समर्था अम्बा कौसल्या नः अस्माकं यथा स्वाश्रितब्रह्माचारिवर्गस्य विवाहार्थं भिक्षाप्रदानेन नन्देत् तथा दापयेतिवार्थः ॥ २।३२।२१,२२ ॥

तत इति । तद्धनम् यथोक्तम्, यथोक्तविभागमित्यर्थः ॥ २।३२।२३ ॥

अथेति श्लोकद्वयमेकं वाक्यम् । बाष्पगलान् बाष्पगद्रदान् । एकैकस्य उपजीवनं जीवनसाधनम् । बहुद्रव्यम् एकैकस्य सम्प्रदाय दत्त्वा ॥ २।३२।२४ ॥

लक्ष्मणस्य वेश्म यदिदं मम गृहं च एकेकं प्रत्येकं यावन्ममागमनम् अशून्यं कार्यमित्युपजीविनो ऽब्रवीदिति योजना । अशून्यं कार्यमित्यस्यायमर्थःयुष्माभिरत्रोपविश्य रक्षणीयमिति ॥ २।३२।२५,२६ ॥

तत इति । अस्य रामस्य ॥ २।३२।२७ ॥

तत इति । कृपणेभ्यः भूरि दापयेति शेषः ॥ २।३२।२८ ॥

तत्रेति । तत्र तस्मिन् काले देशे च पिङ्गलः पिङ्गलवर्णः, गार्ग्यः तद्वंश्यः, क्षतवृत्तिः क्षतेन खननेन लब्धकन्दमूलादिना वृत्तिर्जीवनं यस्य स तथोक्तः । फालकुद्दाललाङ्गली फालं द्वैधीकरणसाधनं कुठारादि, कुद्दालः खननसाधनं खनित्रम् । लाङ्गलं हलाकारः कर्षणसाधनभूतो दण्डविशेषः, तद्वान् ॥ २।३२।२९,३० ॥

राममिति । सभार्यपुत्रमात्मानमिति शेषः । दर्शयेति द्विकर्मकम् । यदि दर्शयसि तदा सर्वथा किञ्चिदवाप्स्यसि ॥ २।३२।३१ ॥

स इति । दुश्छदामतिजीर्णत्वादाच्छादयितुमशक्यां यत्र रामनिवेशनं यत्र यस्मिन् पथि रामनिवेशनं प्राप्यते तादृशं पन्थानमास्थाय प्रातिष्ठत प्रस्तितवान् ॥ २।३२।३२ ॥

भृग्विति । दीप्त्या ब्रह्मवर्चसेन ॥ २।३२।३३ ॥

निर्द्धन इति । प्रत्यवेक्षस्व मयि कृपां कुरु ॥ २।३२।३४ ॥

तमिति । परिहाससमन्वितं लीलास्मितान्वितम् ॥ २।३२।३५ ॥

गवामिति । गवामसङ्ख्यातानां गवां मध्ये एकमपि सहस्रं मया न विश्राणितं न दत्तम् । अतो दण्डेन यावत्परिक्षिपसि गवाकीर्णं यावन्तं देशं परिक्षिपसि परिगृह्णासि तावत् तावद्देशस्थं गोजातमवाप्स्यसीत्यर्थः । ब्राह्मणानां गोग्रहणचापल्यप्रदर्शनार्थमेवंरीत्या भगवतोक्तमिति भावः ॥ २।३२।३६ ॥

स इति । तां शाटीं सम्भ्रान्तः सन्तुष्टः सन् । आविध्य भ्रामयित्वा । वेगितः त्वरितः । सर्वप्राणेन सर्वशक्त्या । चिक्षेप मुक्तवान् ॥ २।३२।३७ ॥

स इति । सः दण्डः । सरयूपारं सरयूतीरम् । तीर्त्त्वा प्राप्य उक्षाणसन्निधौ वृषसन्निधौ ॥ २।३२।३८ ॥

तमिति । आ तस्मादित्यभिविधावाकारः, ताः गाः त्रिजटाय त्रिजटस्य ॥ २।३२।३९ ॥

उवाचेति । परिहासोप्ययं दण्डपरिक्षेपणवचनरूपो ऽयं विनोदार्थ इत्यर्थः ॥ २।३२।४० ॥

इदमिति । इदं तेजः शक्तिः अतिवृद्धस्यापि सतस्तव जिज्ञासितुं ज्ञातुमित्यर्थः । इममर्थं दण्डप्रक्षेपणरूपार्थमुद्दिश्य प्रचोदितोसि, अपरं गोभ्यो ऽन्यत् किमपि वरितुं व्यवस्यति चेत् वृणीष्व ॥ २।३२।४१ ॥

इदं वचनं नोपचारमात्रमित्याहब्रवीमीत । यन्त्रणा इतोप्यधिकवरस्य वरणे सङ्कोचः, ते तव । नास्ति मास्तु । कुतः ? मम यद्यद्धनं तद्विप्रकारणात् विप्रप्रयोजनसम्पादनार्थम् । कथं तथात्वमत आह भवत्सु भवादृशेषु सम्यक् प्रतिपादनेन परिपूर्णप्रदानेन हेतु ना मया आर्जितं धनं मे प्रीतियशस्करं प्रीतिकरं यशस्करं च भवेत् ॥ २।३२।४२ ॥

तत इति । यशोबलप्रीतिसुखोपबृंहणीः यशःप्रभृतीनां विवर्द्धनीः । तदाशिषः तस्य रामस्य आशिषः ॥ २।३२।४३ ॥

स चेति । धर्मबलैः धर्मप्रयुक्तपराक्रमैः । यथार्हसम्मानवचःप्रचोदितः तत्तदौचित्येनाभिहितसम्मानवाक्य इत्यर्थः ॥ २।३२।४४ ॥

द्विज इति । दरिद्रभिक्षाचरणः दरिद्रस्सन् भिक्षाचरणः ॥ २।३२।४५ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायाम् अयोध्याकाण्डव्याख्यायां द्वात्रिंशः सर्गः ॥ २।३२ ॥