०३१ लक्ष्मणानुगमनम्

एवमित्यादि श्लोकद्वयमेकं वाक्यम् । एवम् उक्तप्रकारम् सीतारामसंवादं श्रुत्वा पूर्वमागतः कौसल्यागृहात् रामेण सह सीतासंवादप्रवृत्तेः पूर्वमेवागतो लक्ष्मणः, शोकम् अर्द्धशरीरभूतायास्सीताया अपि वनानुगमनं कृच्छ्रादङ्गीकृतम्, मम तु कथं सम्भविष्यतीति विरहजं शोकं सोढुमशक्नुवन् । वोढुमशक्नुवान्निति पाठभेदः । भ्रातुश्चरणौ गाढं निपीड्य प्रणम्य सीतां, प्रार्थयन्निति शेषः । स्वाभिमतप्राप्तौ सीताशरणागतिरेवामोघोपाय इति मत्वा मत्प्रार्थनामपि पुरुषकारत्वेनाङ्गीकुर्विति सीतां प्रार्थयन् राघवं प्रत्युवाचेत्यर्थः ॥ २।३१।१७ ॥

यदर्थमिति । एतदिच्छामि एतत् प्रतिषेधप्रयोजनमित्यर्थः । संशयः बाल्यात्प्रभृति सुस्निग्धं छायावत्परतन्त्रम् मां कं हेतुमुद्दिश्य आर्यौ निषेधतति संशयः ॥ २।३१।८१३ ॥

भरतो रक्षिष्यतीत्यत आह न स्मरिष्यतीति । कैकेय्यां पर्यवस्थितः तन्नियोगेन सपत्नीतिरस्कारविषये पर्यवस्थितः प्रतिष्ठितः ॥ २।३१।१४१८ ॥

अथ मातृरक्षायां भरत एवास्त इत्याह तवैवेति । तवैव तेजसा अप्रमेयबलवैभवरामजनन्यरक्षणे मम महाननर्थो भवेदिति मत्वा भरतः सम्यक् पूजयिष्यतीति ॥ २।३१।१९ ॥

इदानीं स्वात्मभरणे कौसल्यायाः कस्याप्यपेक्षा नास्तीति दर्शयतिकौसल्येति । कौलस्या सहस्रं मद्विधानपि बिभृयात्, सा स्वात्मानं बिभृयादिति किमु वक्तव्यम् । कुतस्तस्या एवं शक्तिः ? तत्राह यस्या इति । यस्याः प्रसादात् उपजीविनां ग्रामाणां सहस्रं संप्राप्तमभूत् । उपजीवनामिति क्वचित्पाठः ॥ २।३१।२०,२१ ॥

कुरुष्वेति । इह मय्यनुचरे वैधर्म्यं वैपरीत्यसाधकं तद्वाक्योल्लङ्घनजनितजनन्यपोषणाधर्म्यं न विद्यते, कौसल्याया उपजीवनमस्तीति दर्शितत्वादिति भावः । कृतार्थः ज्येष्ठभ्रातुः पितृसमत्वेन आपदि तव सेवया कृतार्थो भविष्यामीत्यर्थः । तव चार्थः प्रकल्पते, फलमूलाद्याहरणेन शुश्रूषा रूपप्रयोजनं सिद्ध्यतीत्यर्थः ॥ २।३१।२२२४ ॥

भवानिति । सर्वं करिष्यामीति मया कर्तव्यं सर्वमित्यर्थः । स्वपतश्च त इत्यनेन रात्रौ लक्ष्मणस्य निर्निद्रत्वं द्योत्यते ॥ २।३१।२५ ॥

रामस्त्विति । व्रज अनुव्रज । आपृच्छस्व अनुजानीहि ॥ २।३१।२६ ॥

ये चेति । वरुणः जनकस्य महायज्ञे धनुरादिकमावयोर्ददौ सत्कृत्य निहितं निक्षिप्तम् आचार्यसझनि वसिष्ठसझनि । ननु जनकयागे धनुरादिप्रदानस्याश्रवणात् कथमत्र सिद्धवदनुवादः क्रियते ? सत्यमेतत् भगवतो वाल्मीकेरियं शैली प्रस्तुतार्थप्रतिपादनपारवश्यात् यत्र वक्तव्यमर्थं तत्रानुक्त्वा उत्तरत्र केनचिद्व्याजेन सिद्धवदनुवदतीति । यथा बालकाण्डे ऽनभिहितं मणिबन्धनं “मणिरत्नमिदं दत्तं वैदेह्याः श्वशुरेण मे” इति सुन्दरकाण्डे ऽभिहितवान् । अयोध्याकाण्डे वक्तव्यं काकासुरवृत्तान्तं “सं पित्रा च परित्यक्तः सुरैश्च समहर्षिभिः " इत्यादिना सुन्दरकाण्डे उक्तवान् ॥ २।३१।२७,३४ ॥

वसिष्ठपुत्रं सुयज्ञमानयेत्यनेन मूलप्रभोर्दशरथस्य वसिष्ठपौरोहित्यं ऽतत्पुत्रस्य तत्पुत्रःऽ इति न्यायेन स्वाचार्यस्य सुयज्ञस्य विशिष्यानयननियोगः ॥ २।३१।३५ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायाम् एकत्रिंशः सर्गः ॥ २।३१ ॥