सान्त्व्यमानेति । वनवासनिमित्ताय वनवासनिमित्तानुमतिसिद्ध्यर्थम् ॥ २।३०।१ ॥
सेति । उत्तमसंविग्ना, अतिभीतेति यावत् । प्रणयात् स्नेहात् अभिमानात् कोपात् परिचिक्षेप वचनमुक्तवती ॥ २।३०।२ ॥
तदेवाहकिं त्वेति । हे राम त्वा त्वाम् । पुरुषविग्रहम् आकारमात्रेण पुरुषम् । स्त्रियमेव सन्तं जामातरं प्राप्य किममन्यत, तत् त्वं न ज्ञातवानित्यर्थः । यदि जानाति तर्हि मां तुभ्यं न प्रयच्छेदित्याक्षेपशेषः । यद्वा “स एव वासुदेवो ऽयं साक्षात्पुरुष उच्यते । स्त्रीप्रायमितरत्सर्वं जगद्भ्रह्मपुरस्सरम् ॥ " इति श्रीविष्णुपुराणोक्तेः । वैदेहो मे पिता त्वां जामातरं प्राप्य लोके त्वद्व्यतिरिक्तं पुरुषविग्रहं पुरुषाकृतिं सर्वमपि स्त्रियममन्यत, किं किमर्थममन्यत? एतादृशकातरं त्वां तथामन्वानो भ्रान्त इत्यर्थः । यद्वा किन्त्विति । रामाज अमातरम् प्राप्य स्त्रियं पुरुष विग्रहम् इति पदच्छेदः । हे रामज रमयियुं जात अवतीर्णेति, हे पुरुष क्रीडार्थमवतीर्ण, परमपुरुषेत्यर्थः । अमातरं स्त्रियं मातृव्यतिरिक्तां सपत्नीमातरं कैकैयीं प्राप्य उद्दिश्य वैदेहो मे पिता विग्रहं कलहम् अमन्यत किम् ? नामन्यतैव । कैकेय्या सह एतादृशकलह आयास्यतीति न ज्ञातवानित्यर्थः । तथापि न मां विहाय त्वया वनं गन्तव्यमिति भावः । यद्वा रामजामतरमित्येकं पदम् । पुरुषविग्रहम् पुरुषान् भक्तान् विशेषेण गृह्णाति स्ववशी करोतीति तथा, रामजामातरम् “रमन्ते योगिनोऽनन्ते” इति श्रुतेः आनन्दरूपजामातरं त्वां प्राप्य, वैदेहो मे पिता स्त्रियं स्वस्त्रियम् । स्त्रियमित्युपलक्षणम्, पुत्रमित्रकलत्रादिकमामुष्मिकं च सत्यप्रमन्यत किम् ? किन्तु सर्वं तुच्छमिति ज्ञात्वा परमानन्दपूर्णोऽभूत्, एतादृशसर्वानन्दकरस्त्वं मां कथं व्यथयसीति भावः ॥
२।३०।३ ॥
अनृतमिति । बतेति खेदे । अयं लोकः तपति दिवाकर इव रामे परं तेजो ऽस्तीति अज्ञानादविचाराद्यद्वक्ष्यति तदनृतम् । कुतः ? अनुपलभ्यमानत्वात्तादृशतेजो नास्त्येवेत्यर्थः । यद्वा अज्ञानादाक्षेपं कृतवत्यस्मीति भीत्या लोक एवं वदिष्यतीति स्वापराधं परिहरति अनृतमिति । यन्मामनादाय गच्छसीति श्लोकादावध्याहृत्य योजनीयः । अयं लोकः तपति दिवाकर इव रामे परं तेजो नास्तीति अज्ञानादविचारादनृतं यद्वक्ष्यति तत् बतेति योजना । एतदहं न सह इति भावः ॥ २।३०।४ ॥
किं हीति । किं कृत्वा किमकार्यं कृत्वा । विषण्णोसि “अप्यकार्यशतं कृत्वा भर्तव्या मनुरब्रवीत्” इत्युक्तावश्यभरणीयविषये विषादो न युक्त इति भावः । मदनुसरणे कालाग्निसदृशक्रोधस्य तव कुतो वा भयमस्ति । यद्यस्मात् मां परित्यक्तुकामोसि तादृशं कारणं नास्तीत्यर्थः ॥ २।३०।५ ॥
द्युमत्सेन इति कश्चित् । तस्य सुतं सत्यवन्नामकम् अनुव्रतां सावित्रीमिव तस्य पत्नीमिव मां विद्धि ॥ २।३०।६ ॥
न त्विति । हे राम यथा कुलपांसनी अन्यं पश्यति तथा अहं त्वदृते अन्यं मनसा न द्रष्टास्मि न द्रक्ष्याम्येव, अतस्त्वया गच्छेयमिति योजना ॥ २।३०।७ ॥
दृढपातिव्रत्यप्रदर्शनेपि वनगमनासम्मतिं ज्ञात्वा कुद्ध्यतिस्वयमिति । कौमारीं कुमारावस्थायामेव परिणताम् शैलूष इव जायाजीव इव परेभ्यः अन्येभ्यो दातुमिच्छसि । यद्वा भरताय रामकर्तृकराज्यदानमसहमानाहहे राम भार्यां भर्तुं योग्याम् । कुतः सतीम् अनश्वराम् । कुतः चिरमध्युषितां पितृपितामहाद्यागतां कौमारीं कुमारवयस्येव त्वया प्राप्यम्, यौवराज्यरूपामित्यर्थः । मां राज्यलक्ष्मीं शैलूष इव वेषधारी सन् परेभ्यो भरतादिभ्यो दातुमिच्छसि, इदं तव नोचितमिति भावः ॥ २।३०।८ ॥
“भरतस्य समीपे तु नाहं कथ्यः कदाचनऽ इति पूर्वमुक्तवतो रामस्योत्तरमाहयस्येति । यस्य भरतस्य पथ्यं हितम् आत्थ, यस्य चार्थे यस्य भरतस्य अभिषेकरूपप्रयोजननिमित्ते अवरुध्यसे निगृहीतोसि, तस्य वश्यः इच्छानुसारी विधेयश्च नियोज्यश्च भव, नाहं तदिष्टानुवर्तिनी, त्वद्विधेया च वसामीत्यर्थः ॥ २।३०।९,१० ॥
न चेति । विहारशयनेष्विव विहारः परिक्रमः, उद्यानसञ्चार इति यावत् । विहारशयनेष्विव पथि परिश्रमो मे न भविता न भविष्यतीति योजना ॥ २।३०।११ ॥
कुशेति । तूलाजिनसमस्पर्शाः अजिनानि प्रियकादिमृगाजिनानि ॥ २।३०।१२,१३ ॥
शाद्वलेष्विति । शाद्वलेषु यथा शिश्ये, त्वया सहेति शेषः । ततः शाद्वलशयनात् कुथास्तरणतल्पेषु किं स्यादिति योजना । आस्तरणानि कौसुम्भोत्तरच्छदाः ॥ २।३०।१४।१५ ॥
न मातुरिति । न मातुरित्यादौ कर्मणि षष्ठी । आर्तवानि तत्तदृतौ जातानि ॥ २।३०।१६,१७ ॥
सिद्धान्तमाहयस्त्वयेति । त्वया सह यः सः स्वर्गः । त्वया विना यः सः निरय इत्यर्थः ॥ २।३०।१८,१९ ॥
पश्चादपीति । पश्चात् किञ्चित्कालानन्तरम्, तदैव त्वद्विप्रयोगकाल एव ॥ २।३०।२०,२१ ॥
इतीति । आयस्ता आयासं प्राप्ता । सस्वरं सशब्दम् ॥ २।३०।२२ ॥
सेति । दिग्धैः विषयुक्तैः बाणैः चिरसन्नियतं चिरसन्निरुद्धम् ॥ २।३०।२३,२४ ॥
तच्चेति । बाष्पेण शोकाग्निरूपोष्मणा ॥ २।३०।२५ ॥
तामिति । परिविश्वासयन् समाश्वासयन्, उज्जीवयन्नित्यर्थः । न देवीति । तव नियोगदुःखेन, प्राप्तमपीति शेषः । स्वयम्भोरिव सर्वतः सर्वेषामायुर्भाग्यं च लिखितुं परिमार्ष्टुं च कर्तुः ब्रह्मणो यथा कुतश्चिदपि भयं नास्ति तद्वदित्यर्थः ॥ २।३०।२७ ॥
तवेति । सर्वं समग्रम् । अभिप्रायम् अन्तरम् । अविज्ञाय तत एव हेतोः तवारण्ये वासं न रोचये नाङ्गीकृतवानस्मि, इतःप्रागिति शेषः ॥ २।३०।२८ ॥
यदिति । सृष्टासि निश्चितासि, इदानीमिति शेषः । आत्मवता अक्षुभितमनस्केन योगिनेत्यर्थः ॥ २।३०।२९ ॥
सर्वात्मनादयितायास्ते सह यानं धर्मश्चेत्याहधर्मस्त्विति । धर्मो वानप्रस्थधर्मः, सद्भिः सपत्नीकैः राजर्षिभिः यथा सूर्यं सुवर्चला ह्यनुवर्तते तथा मामनुवर्तस्वेति शेषः ॥ २।३०।३० ॥
मम तु वनगमनं निश्चितमेवेत्याहन खल्विति । न गच्छेयमिति न खलु, गच्छेयमेव सर्वयेत्यर्थः । कुतः वचनमिति सत्योपबृंहितं वचनं मां वनं नयति ॥ २।३०।३१ ॥
एष इति । वश्यता विधेयता अहं पितृवचनपरिपालनोद्युक्तः तं व्यतिक्रम्य पितृविधेयत्वरूपं धर्मं व्यतिक्रम्य अहं जीवितुं नोस्तहे इति सम्बन्धः ॥ २।३०।३२ ॥
अस्वाधीनमिति । अस्वाधीनम् आराधकानधीनम्, स्वतन्त्रमिति यावत् । प्रकारैः प्रार्थनापरैः ॥ २।३०।३३ ॥
यत्र त्रयमिति । यत्र पितृमातृगुरुरूपं त्रयं तत्र त्रयो लोकाः वर्तन्ते मातापितृगुरुशुश्रूषया लोकत्रयान्तर्वर्त्त्यशेषदेवताद्याराधनफलप्राप्तिर्भवतीत्यर्थः । अतः तत्समं पवित्रं मेध्यं नास्ति तेन कारणेन इदं मातापितृगुरुरूपत्रयमभिराध्यत इति योजना । यद्वा पवित्रं पविः महाभयलक्षणस्संसारः, तस्मात्त्रायत इति पवित्रम्, संसारनिवर्तकमिति यावत् । “पविर्व्रज्रे महाभये” इत्यभिधानात् । पाठान्तरस्तु यत्त्रयमिति । यत् यत्र पितृमातृगुरुरूपं त्रयं तत् तत्र त्रयो लोका वर्तन्ते ॥
२।३०।३३३६ ॥
स्वर्ग इति । सुखानि च, सिध्यन्तीत शेषः । गुरुवृत्त्यनुरोधेन गुरुचित्तवृत्त्यनुवर्तनेन ॥ २।३०।३६३८ ॥
ममेति । त्वद्भावापरिज्ञानात् त्वां नेतुं पूर्वं मम मतिः सन्ना क्षीणा, यतः वने वसिष्यामीति मामनुयातुं मतिः त्वन्मतिः सुनिश्चिता, अतः पूर्वं सन्ना मे मतिः, इदानीं त्वां वनं नेतुमुद्युक्तेति शेषः । यद्वा हे सीते सा त्वं वसिष्यामीति मामनुयातुं यतः सुनिश्चिता अतः त्वां दण्डकावनं नेतुं मम मतिस्सन्ना उद्युक्तेति योजना ॥ २।३०।३९ ॥
सेति । दिष्टा अनुज्ञाता वनाय वनं गन्तुं मामनुगच्छस्व । पाठान्तरस्तु सेति । अतिदिष्टा अनुज्ञाता ॥ २।३०।४० ॥
सर्वथेति । व्यवसायं भर्त्रनुसरणानुध्यवसायम् अतिक्रान्ता प्रकर्षेण प्राप्ता ॥ २।३०।४१ ॥
आरभस्वेति । वनवासक्षमाः वनवासे हिताः क्रियाः दानादिक्रियाः इदानीमेतद्बुद्धिनिश्चये सतीत्यर्थः ॥ २।३०।४२,४३ ॥
भूषणानीति । कीडार्थाश्चाप्युपस्कराः जातरूपमयकृत्रिमपुत्रिकाद्युपस्करणादीनि ॥ ३०।४४ ॥
शयनीयानीति । ब्रह्मणानामनन्तरं स्वभृत्यवर्गस्य देहीति योजना ॥ २।३०।४५ ॥
अनुकूलमिति । आत्मनः स्वस्याः आगमनं भर्तुः अनुकूलम् इष्टम् ॥ २।३०।४६ ॥
तत इति । धर्मभृतां धर्मभृद्भयः दातुं प्रचक्रम इत्यन्वयः ॥ २।३०।४७ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां त्रिंशः सर्गः ॥ २।३० ॥