०२९ सीतायाः वनगमनविज्ञप्तिः

ये त्वयेति । वने वस्तव्यतां निवासं प्रति ये दोषाः कीर्तिताः । तान् दोषान् । तव स्नेहपुरस्कृतान् स्नेहसम्बन्धान् गुणानेव विद्धि, दोषा अपि त्वत्सन्निधिवशाद् गुणतां भजन्त इत्यर्थः ॥ २।२९।२ ॥

मृगा इति । सृमरः गवयः ॥ २।२९।३ ॥

अदृष्टपूर्वेति । ते सर्वे भयावहमृगाः, अदृष्टपूर्वरूपत्वात् अनालोकितैतादृशरूपत्वात् । अदृष्टपूर्वं तावकं रूपं येषां ते तथा, तेषां भावस्तत्त्वं तस्मादपसर्पेयुः ॥ २।२९।४ ॥

त्वयेति । गुरुजनाज्ञया “इयं सीता मम सुता सहधर्मचरी तव । छाये वानुगता सदा " इत्येवंरूपया गुरुजनस्याज्ञया, त्वद्वियोगेन हेतुना ॥ २।२९।५,६ ॥

पतिहीनेति । कामं यथेच्छम् । एवं मदागमननिवारणाद्युक्तेन पूर्वसर्गोक्तं बहुदोषजातं त्वया विदर्शितम् । तथा हि पतिहीनाया नार्या जीवितुमशक्यत्वादहमपि जीविविरोधिनं त्वद्वियोगं सोढुं न शक्नोमीति भावः ॥ २।२९।७ ॥

अथ चापीति । अथेति वाक्यालङ्कारे, पुरा पितृगृहे वने वस्तव्यं किलेति ब्राह्मणानां सत्यं सत्यवचनं मया श्रुतम् । अतो मे वन एव वस्तव्यं खलुः ॥ २।२९।८ ॥

लक्षणिभ्य इति । लक्षणिभ्यः सामुद्रिकलक्षणज्ञेभ्यः ॥ २।२९।९ ॥

आदेश इति । सः वनवासस्य आदेशः, आदिष्टवनवास इत्यर्थः । प्राप्तव्यः अवश्यभोग्यः । स ब्राह्मणैरभिहितः वनवासस्य आदेशः मया प्राप्तव्यः । यस्मात्तस्मादेव हि सा श्रुतादेशा सती अहं त्वया यास्यामि नान्यथा एवं सति ॥ २।२९।१० ॥

कृतादेशेति । कृतादेशा कृतब्राह्मणनियोगा भविष्यामि, अतः त्वया सह गमिष्यामि । काल इति । समुत्पन्नः सम्प्राप्तः, वनवासस्येति शेषः । द्विज इति जात्येकवचनम् ॥ २।२९।११ ॥

वनवासे अजेयानि दुःखानि सन्तीति जानाम्येव तथापि तद्दुःखानि अकृतात्मभिः अजितेन्द्रियैः विषयलोलुपैः, नतु त्वादृङ्मादृशैर्जनैरित्य्थः ॥ २।२९।१२ ॥

कन्ययेत्यादि श्लोकद्वयमेकं वाक्यम् । मम पितुर्गेहे मातुरग्रतः साधुवृत्तायाः भिक्षिण्याः तापस्यास्सकाशात् कन्यया मया वनवासः भावीति श्रुतः, इहास्मिन् गृहे त्वया सह वनवासस्य गमनं विलासार्थं जाह्नवीतीरतपोवनादिगमनं काङ्क्षितं हि, त्वं च बहुविधं प्रसादितो वै प्रसादित एवेति सम्बन्धः ॥ २।२९।१३,१४ ॥

कृतक्षणेति । कृतक्षणा प्राप्तावसरा, प्रतीक्षितकालेत्यर्थः । वनवासस्य वने वासो यस्य सः वनवासः । तस्य तव चर्या शुश्रूषा मम रोचते ॥ २।२९।१५ ॥

शुद्धात्मन्निति । शुद्धात्मन् प्रेमस्वभावाद्भर्तारमनुगच्छन्ती अहं विकल्मषा भविष्यामि । कुतः ? भर्ता हि मम दैवतम् ॥ २।२९।१६ ॥

प्रेत्येति । त्वया सह सङ्गमः प्रेत्यभावेपि परलोकेपि कल्याणः शोभनः ॥ २।२९।१७ ॥

अत्र प्रमाणमाह श्रुतिर्हीत्यादिसार्धश्लोकेन । पितृभिरिति बहुवचनं पितामहाद्यपेक्षया । पितृभिर्या स्त्री अद्भिः सह यस्य यस्मै दत्ता सा इह लोके स्वधर्मेण पतिव्रताधर्मेण वर्तमाना प्रेत्यभावेपि तस्यैव भवतीति श्रुतिः ब्राह्मणानां सकाशाच्छ्रुयत इति सम्बन्धः ॥ २।२९।१८ ॥

एवमिति । श्रुतिस्मृतिन्यायतो नित्यसम्बन्धे सिद्धे सतीत्यर्थः । अस्मात् नगरात् । स्वकां स्वीयाम् ॥ २।२९।१९ ॥

भक्तामिति । सुखदुःखयोस्समां त्वदेकशरणाम्, अत समानदुःखिनीं त्वया सह एकसुखदुःखिनीम् ॥ २।२९।२०२४ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायामयोध्याकाण्डव्याख्यायाम् एकोनत्रिंशः सर्गः ॥ २।२९ ॥