०२८ वनवासदुःखवर्णनम्

सीत इति । स्वधर्मं स्ववाक्यपरिग्रहप्रयोजनं स्वकुलधर्मम् इहैव स्थित्वा यथा मनसः सुखं भवति, स्वशक्त्यनुसारेणेत्यर्थः । मां मामुद्दिश्याचर । अथवा धर्ममेवाचर, मनसः यथा सुखं भवति तथा माचरेति वार्थः ॥ २।२८।३,४ ॥

सीत इति । बहुदोषमिति बहवो दोषाः क्लेशाः यस्मिन्निति बहुदोषम्, कान्तारं दुष्प्रवेशं वनम् । हि यस्मात् बहुदोषमित्यभिधीयते ॥ २।२८।५ ॥

हितबुद्ध्येति । हितबुद्ध्याभिधीयते न तु त्वद्भरणादिप्रयासोपाधिनेत्यर्थः । सदा सर्वकालेपि सुखं नास्तीति जानामि निश्चिनोमि ॥ २।२८।६ ॥

गिरिनिर्झरेति । गिरिनिर्झरसम्भूताः गिरिनिर्झरेभ्यः सम्भूताः प्रभूताः निनदाः तथा गिरिकन्दरवासिनां सिंहानां निनदाश्च श्रोतुं दुःखाः कष्टाः अतो वनं दुःखं दुःखप्रदम् ॥ २।२८।७ ॥

क्रीडमानाश्चेति । विस्रब्धाः निरङ्कुशाः, शून्ये निर्मानुषे समभिवर्तन्ते हन्तुमागच्छेयुरित्यर्थः ॥ २।२८।८ ॥

सग्राहा इति । गजैरपि दुस्तराः सरितः इति योजना ॥ २।२८।९ ॥

लतेति । कृकवाकूपनादिताः वनकुक्कुटनादयुक्ताः । निरपाः निर्गतोदकाः ॥ २।२८।१० ॥

सुप्यत इति । स्वयं भग्रासुजीर्णतया स्वयमेव पतितासु पर्णशय्यासु “सान्द्रपर्णेष्वेव शयीत " इत्युक्तेः । श्रमखिन्नेन दिवा फलाद्यानयनश्रमखिन्नेन मया उक्तशय्यायां सुप्यते ॥ २।२८।११ ॥

अहोरात्रमिति । वृक्षावपतितैः वृक्षेभ्यः स्वयमेव पतितैः फलैरेव अहोरात्रं प्रातः सायं च सन्तोषः तृप्तिः कार्यः ॥ २।२८।१२ ॥

उपवासश्चेति । यथाप्राणेन यथाबलानुसारेण (“तृतीया सप्तम्योर्बहुलम्” इत्युक्तेर्नाम्भावः ।) ॥ २।२८।१३,१४ ॥

कार्यस्त्रिरिति । नित्यशः प्रतिदिनं कालेकाले प्रातरादिकाले अभिषेकस्त्रिः कार्यः, त्रिषवणस्नानं कर्तव्यमित्यर्थः । नियमेनैव चरता कालक्षेपं कुर्वता ॥ २।२८।१५ ॥

उपहार इति । उपहारः पूजा । आर्षेण विधिना वानप्रस्थोचितविधानेन ॥ २।२८।१६ ॥

यथेति । यथाहारैः वनस्थैः यथालब्धेन यादृशं वस्तु यथा प्राप्नोति तेन रूपेणेत्यर्थः ॥ २।२८।१७ ॥

अतीवेति । तिमिरं, रात्रिष्विति शेषः ॥ २।२८।१८,१९ ॥

नदीति । नदीवत्कुटिलगामिनः ॥ २।२८।२० ॥

पतङ्गा इति । पतङ्गः शलभाः । दंशा वनमक्षिकाः ॥ २।२८।२१ ॥

द्रुमा इति । व्याकुलशाखाः व्याकुलाग्राश्चेत्युभयत्र क्रमाद्द्रुमकुशविशेषणम् ॥ २।२८।२२,२३ ॥

क्रोधलोभाविति । भेतव्ये भयहेतुत्वे भयं न कार्यम् ॥ २।२८।२४ ॥

तदलमिति । अलं न गन्तव्यम् ॥ २।२८।२५ ॥

वनं त्विति । रामेण वनं नेतुं मतिर्यदा न कृता तदा सीता तस्य वचनं न चकार ततो हेतोरिदमब्रवीदिति योजना ॥ २।२८।२६ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपकाख्यायां अयोध्यकाण्डव्याख्यायाम् अष्टाविंशः सर्गः ॥ २।२८ ॥