एवं रामेण गृहनिवासमुक्ते वनवास एव मम च धर्मतो न्यायप्राप्त इति सीताहएवमिति । प्रणयादेव स्नेहबलादेव, संक्रुद्धा मत्पृथक्स्थितिमादिशतीत्यमर्षात् ॥ २।२७।१ ॥
स एवामर्षः प्रदर्श्यतेकिमिदमिति । इदं किं भाषसे कुतः लघुतया ध्रुवं लघुत्वेन निश्चितम्, अतितुच्छमिति यावत् । त्वया यद्भाषितं तच्छ्रुत्वा मे अपहास्यं परिहासास्पदं जायते ॥ २।२७।२ ॥
आर्यपुत्रेति । पित्रादयः स्वानि पुण्यानि कर्मफलानि भूञ्जानाः भोक्तुं प्रवृत्ताः, स्वं स्वं भाग्यं स्वानुष्ठुतं कर्मैव, उपासते उपजीवन्ति न तु पित्राद्यनुष्ठितम्, तत्र तेषां सहाधिकाराभावात् । भर्तुरर्धशरीरभूता भार्या तु कर्मफलभोगे प्रवृत्ता भर्वनुष्ठितं कर्मैव उपजीवति । तयोः सहाधिकारादित्यर्थः । अतश्चेति । अतः कारणादेव ।अहमपि वने वस्तव्यमित्यादिष्टैव, तव वनगमनादेशादेव “अर्धो वा एष आत्मनो यत्पत्नी” इत्युक्तप्रक्रिया त्वदर्धशरीरभूताया ममाप्यादेश इत्यर्थः ॥ २।२७।४ ॥
यदेवमतः इह लोके च नारीणां न पित्रादिर्गतिः, पतिरेक एव सदा गतिः अतः, मृद्गन्ती मर्दयन्ती ॥ २।२७।५,६ ॥
ईर्ष्येति । मया निवर्तिता स्वयं स्त्री च सती कथं वनं गमिष्यामीति ब्रूत इत्यक्षान्तिरीर्ष्या, मद्वचनमुल्लङ्घ्यवर्तीति वा मृष्टमन्नं परित्यज्य फलमूलाभ्यां वर्तनमपेक्षत इति वा रोषः । तौ बहिष्कृत्य त्यक्त्वा विस्रब्धः निश्शङ्कः मां नय । अत्र हेतुगर्भं विशेषणं वीरेति । त्यागप्रयोजकं पापं च मयि न विद्यते । नीतयापि मया ततः सुखमेव । अत्रोभयत्र दृष्टान्तः भुक्तशेषमुदकमिवेति । दुष्प्रापपनीयकान्तारयायिना जनेन पीतशेषं कमण्डलुनिष्ठं यथोदकमपापमवश्यं नेयमात्मोपकार्येव केवलं तद्वदित्यर्थः ॥ २।२७।७ ॥
नित्यसम्बन्धित्वादपि नाहं परित्याज्येत्याहप्रासादाग्रैरिति । प्रासादाग्रे स्थितिमता विमानैः यानवता योगबलात् केवलं वैहायसगतेन । मत्त्वर्थीयाजन्ताः । वैहायसगतिमता तथा सर्वावस्थां गतेनापि, भर्त्रा भर्तुः पादच्छायेव भर्त्रा सह स्त्री सर्वावस्थागताभवतीति विशिष्यते विधीयते । अथवा प्रासादाग्रैरित्यादि पञचम्यर्थे तृतीया । प्रासादाग्रेभ्यः विमानैर्वा स्वर्लोकादिस्थितविमानेभ्यो वा, वैहायसगतेन अणिमाद्यष्टसिद्धिसम्पन्नोचितविहायस्सम्बन्धिगमनात्, सर्वावस्थागता दुरवस्थापन्नापि । एतेभ्यः भर्तुः पादच्छाया पादसेवा विशिष्यते अतिरिच्यते ॥ २।२७।८ ॥
अनुशिष्टास्मीति । विवधाश्रयं विवधार्थम् । अनुशिष्टास्मि भर्तुरनुवर्तीनी भवेति सुशिक्षितास्मि । अतः सम्प्रति न वक्तव्या नोपदेष्टव्यास्मि ॥ २।२७।९,१० ॥
सुखमिति । लोकानचिन्तयन्ती त्रैलोक्यैश्वर्यमपि न गणयन्ती । पतिव्रतं पातिव्रत्यम् चिन्तयन्ती अपेक्षमाणा ॥ २।२७।११ ॥
शुश्रूषमाणेति । ब्रह्मचारिणी तपश्चरणशीला, नियता नियमयुक्ता, मधुगन्धिषु मकरन्दसुरभिषु ॥ २।२७।१२ ॥
त्वं हीति । अन्यस्यापि त्वदेकशरणजनान्तरस्यापि ॥ २।२७।१३ ॥
सहेति । निवर्तयितुं न शक्येति न्यायप्राप्तानुगमनत्वादित्याशयः ॥ २।२७।१४ ॥
नते दुःखमिति । अन्नपानादिविशेषसम्पादनायेति भावः ॥ २।२७।१५,१६ ॥
हंसेति । कारण्डवाः जलकुक्कुटाः ॥ २।२७।१७,१८ ॥
एवमिति । व्यतिक्रमम् अपक्रान्तम् । वर्षसहस्राणां शतं वा न वेत्स्यामि, किमुत चतुर्दशवर्षाणीति भावः । स्वर्गोपि न हि मे मतः, त्वया विनेतिशेषः ॥ २।२७।१९,२० ॥
अहमिति । मृगायुतं मृगमिश्रितम् ॥ २।२७।२१ ॥
अनन्येति । याचनां वनानुगमनयाचनाम् । साधु कुरुष्व चरितार्थं सम्पादय, अतः “फलमूलाशना नित्यं भविष्यामि न संशयः । न ते दुःखं करिष्यामि निवसन्ती सह त्वया ॥ “इत्याद्युक्ताद्धेतोर्मया निमित्तेन, गुरुता भारो न भविष्यति ॥ २।२७।२२ ॥
तथेति । न निनीषति स्म, नेतुं नैच्छत् सन्निवर्तने सन्निवर्तननिमित्तम् । दुःखितां दुःखित्वज्ञापनं प्रति ॥ २।२७।२३ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां सप्तविंशः सर्गः ॥ २।२७ ॥