अभिवाद्येत्यादि श्लोकद्वयमेकं वाक्यम् । वनं संप्रस्थितः वनं गन्तुं प्रवृत्तः । आममन्थेव प्रक्षोभयति स्म । तत्र हेतुःगुणवत्तया पूर्वभाषिप्रियवादत्वाद्युक्तविशिष्टगुणतया ॥ २।२६।१।२ ॥
वैदेहीति । तत्सर्वं रामाभिषेकविघातादिकम् । तपस्विनी अभिषेकार्थव्रतवती तदेव यौवराज्याभिषेचनम् । हृदि, वर्तत इति शेषः ॥ २।२६।३ ॥
देवकार्यमिति । देवकार्यं देवपूजाम्, कृतज्ञा अभिषिक्तभर्तृविषये पट्टमहिषीभिः गन्धपुष्पाक्षतादिना कृतपादार्चनादिसमयज्ञेत्यर्थः । राजधर्माणामभिज्ञा अभिषिक्तराजसाधारणलक्षणानि श्वेतच्छत्रचामरपुरस्कृतभद्रासनादीनि ज्ञातवती, प्रतीक्षते स्म, उक्तलक्षणविशिष्टो भर्ता कदा आगमिष्यतीत्याकाङ्क्षया स्थितवतीत्यर्थः ॥ २।२६।४ ॥
प्रविवेशेति । ह्रिया सीतायै कथमीद्दशमप्रियं कथयामीति लज्जया अवनतमुख इत्यर्थः ॥ २।२६।५ ॥
समुत्पत्य स्वासनात् समुत्थाय वेपमाना भर्तुर्विगतहर्षत्वावाङ्मुखत्वादिदर्शनात् कम्पमानेत्यर्थः ॥ २।२६।६ ॥
तामिति । विवृततां गतः व्यक्तदुःखतां प्राप्त इत्यर्थः । मयि वनं गते सति, अदुःखार्हा सीता दुःखेन कथं कालं नयिष्यतीति धिया सञ्जातदुःखो ऽभूदित्यर्थः । “व्यसनेषु मनुष्याणां भृशं भवति दुःखितः” इत्युक्तेः ॥ २।२६।७ ॥
विवर्णवदनमिति । प्रस्विन्नं हस्तगतराज्यस्यान्यगामित्वं स्वस्य वनप्रव्राजनं च कथमस्यै निवेदयिष्यामीति लज्जया प्राप्तदुःखस्वेदम् अमर्षणं शोकधारणाक्षमम् ॥ २।२६।८ ॥
अद्येति । अद्यैव बार्हस्पतः बृबस्पतिदेवताकः, पुष्यः पुष्यनक्षत्रं युक्तः, चन्द्रणेति शेषः । अनुप्रोच्यते ब्राह्मणैरित्यन्वयः । केनेति अद्य पुष्यः अद्याभिषेको रामस्येति द्विजैरुक्तं, सन्तोषं विहाय दुःखं केन हेतुनेत्यर्थः ॥ २।२६।९ ॥
न त इति । शतं शलाकाः यस्मिन् छत्रे तेन छत्रेणावृतं सन्न विराजत इति योजना ॥ २।२६।१० ॥
व्यजनाभ्यामिति । व्यजनाभ्यां वालव्यजनाभ्याम् ॥ २।२६।११ ॥
वाग्ग्मिन इति । वन्दिनः स्तुतिपाठकाः, मङ्गलैः मङ्गलवचनैः, सुताः वंशस्तावकाः, मागधाः वंशशंसिनः ॥ २।२६।१२ ॥
नेति । क्षौद्रं दधि चेति तीर्थोदकमिश्रितमित्यर्थः । मूर्द्धाभिषिक्तस्य शिरस्त्रातस्य विधानतः यथाविधिनेति ॥ २।२६।१३ ॥
नेति । प्रकृतयः अमात्यादयः । श्रेणीमुख्याः परिषन्मुख्याः ॥ २।२६।१४ ॥
चतुर्भिरिति । पुष्यरथः उत्सवाय कल्पतो रथः न तु समराय, ताद्दग्रथः निर्जिगमिषो राज्ञो ऽग्रे भवति तस्मिन्निच्छायां सत्यामारोहति नोचेत्केवलमग्रे गच्छति ॥ २।२६।१५ ॥
नेति । तथा हस्ती च कृष्णमेघप्रभो हिरिप्रभश्च ॥ २।२६।१६ ॥
न चेति । भद्रासनं पुरस्कृत्य ते यातं तवागमनं पश्यामीत्यन्वयः ॥ २।२६।१७ ॥
अभिषेक इति । यथा यस्मात्सज्जः सन्नद्धः, प्रवृत्त इति यावत् । एवमपि अपूर्वो मुखवर्णश्च लक्ष्यते प्रहृष्टो न लक्ष्यते, इदं किमित्यन्वयः ॥ २।२६।१८ ॥
इतीति । विलपन्तीमुद्वेगेन पृच्छन्तीम् । तत्रभवान् पूज्यः ॥ २।२६।१९ ॥
महतः अप्रियस्य श्रवणे सीतायाः दुःखं भविष्यतीति भयाच्चित्तदार्ढ्यार्थं विविधगुणकीर्तनेन सम्बोधयति कुल इति । येन क्रमेण येन हेतुना । इदं प्रव्राजनम् ॥ २।२६।२०,२१ ॥
तयेति । नृपोद्यते अभिषेके सज्जे सति । तया अद्य न समयः प्राचीनो वरसङ्केतः, प्रचोदितः प्रवर्त्तितः । तेन कारणेन धर्मेण धर्ममार्गेणैव प्रतिनिर्जितः स्ववशीकृतः ॥ २।२६।२२ ॥
अस्तु, प्रकृते किमायातम् ? तत्राहचतुर्दशेत्यादि ॥ २।२६।२३ ॥
अथ सीताया गृहावस्थापनाय वक्तव्यबुद्धिमुपदिशति–भरतस्येति । त्वया न कथ्यः न श्लाघनीयः ॥ २।२६।२४,२५ ॥
नापीति । तेन विशेषेण न भर्तव्या किन्तु बन्धुसाधारण्येन भरणीयेत्यर्थः । अनुकूलतया वर्तितुं शक्यम् न तु प्रातिकूल्येन ॥ २।२६।२६ ॥
तदनुकूलाचरणं किमर्थमत आहतस्मा इति । नृपतिना दशरथेन ॥ २।२६।२७२९ ॥
काल्यमिति । काल्यं सर्वस्मिन्नप्युषसि ॥ २।२६।३०,३१ ॥
वन्दितव्या इति । स्नेहप्रणयसम्भोगैःप्रणयः अनुनयः सेवा, सम्भोगः अन्नपानादिविशेषप्रदानम् तैः । समाः मे मात्रेति शेषः ॥ २।२६।३२ ॥
भ्रातृपुत्रसमौ भ्राता पुत्रेण च समो, प्राणैः प्राणेभ्यः प्रियतरौ ॥ २।२६।३३,३५ ॥
औरसानिति । जनान् बन्धुत्वरहितानपि ॥ २।२६।३६,३७ ॥
अहमिति । कस्य चिव्द्यलीकम् अप्रियं यथा न कुरुषे न करिष्यसि । त्वया तथा कार्यम् आचरितव्यम् इदं मम वचः आज्ञापितमेतत् सर्वदा हृदि स्थाप्यमिति भावः ॥ २।२६।३८ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां अयोध्यकाण्डव्याख्यायां षड्विंशः सर्गः ॥ २।२६ ॥