सेति । आयासं दुःखम् । अपनीय विनीय । जलमुपस्पृश्य आचम्य । मङ्गलानि मङ्गलवचनानि चकार ॥ २।२५।१ ॥
न शक्यस इति । सतां क्रमे सतां मार्गे ॥ २।२५।२४ ॥
यानीति । गुणैः समुदितं सद्गुणसम्पन्नम् ॥ २।२५।५,६ ॥
समिदिति । क्षुपाः ह्रस्वशाखाशिफायुक्ताः वृक्षाः “ह्रस्वशाखाशिफः क्षुपः” इत्यमरः । पतङ्गाः पक्षिणः ॥ २।२५।७ ॥
स्वस्ति साध्या इति । स्वस्ति कुर्वान्त्विति अग्रेण सम्बन्धः । धाता आधारकर्मप्रधानो भगवान् विराट् विष्णुः । विधाता स्रष्टा, स एव सर्गविधायकः प्रजापत्यात्मा । पूषा भगो ऽर्यमेति रेवत्यादिनक्षत्रदेवताः । अस्मिन् प्रकरणे पुनरुक्तयः पुत्रप्रेमपारवश्यादत्यवगन्तव्याः ॥ २।२५।८१६ ॥
राक्षसानामिति । भयं राक्षसादिसम्बन्धिभयम्, तेभ्यो भयमित्यर्थः ॥ २।२५।१७ ॥
प्लवगा इति । प्लवगाः कपयः, दंशाः वनमक्षिकाः,ऋक्षाः भल्लूकाः । सत्त्वजातयः सत्त्वस्य बलस्य जातिर्जन्म येषु प्राणिषु ते सत्त्वजातयः । शक्तिमन्तः क्रूरजन्तव इत्यर्थः ॥ २।२५।१८।२० ॥
आगमा इति । आगमाः आगमनयोग्याः, मार्गा इत्यर्थः । सर्वसम्पत्तय इति । वनवासापेक्षिताः फलमूलादयः, सन्त्विति शेषः ॥ २।२५।२१ ॥
स्वस्तीति । पार्थिवेभ्यः पृथिव्यां भवाः पार्थिवाः देवेभ्यः सकाशात्ते स्वस्त्यस्त्विति योजना । ये च ते परिपन्थिनः तेभ्यश्च ॥ २।२५।२२,२३ ॥
अग्निरिति । ऋषिमुखाच्च्युताः त्वया गृहीताश्चेति शेषः ॥ २।२५।२४२७ ॥
उपसम्पादयामासेति, होमायेति शेषः ॥ २।२५।२८ ॥
उपाध्याय इति । अनामयमारोग्यम्, उद्दिश्येति शेषः । हुतहव्यावशेषेण हुतानां हव्यानामवशेषेण । बाह्यं होमस्थानाद्बहिर्भवम् । बलिं लोकपालबलिम् ॥ २।२५।२९ ॥
मध्वित्यादि । स्वस्ति वाच्य स्वस्तिवाचनमुद्धिश्य द्विजान् मध्वादिभिरुपलक्षितान् कृत्वा रामस्य वने स्वस्त्यस्त्वित्येवं स्वस्त्ययनक्रियाः स्वस्त्ययनप्रतिपादकमन्त्रान् वाचयामास ॥ २।२५।३०,३१ ॥
यन्मङ्गलमिति । वृत्रनाशे वृत्रनाशनिमित्ते ॥ २।२५।३२३४ ॥
त्रीनिति । त्रीन् विक्रमान् पदविक्षेपान् ॥ २।२५।३५ ॥
ऋतव इति । शुभमङ्गलाः मङ्गलानामपि मङ्गलाः, मङ्गलद्रव्याणामप्यतिशयदायका इत्यर्थः ॥ २।२५।३६ ॥
इतीति । पुत्रस्य रामस्य शिरसि शेषान् श्वेताक्षतान् कृत्वा गन्धैश्च समालभ्य चन्दनैर्विलिप्य सिद्धार्थां दृष्टवीर्याम् ओषधीं मालिकां, विशल्यकरणीम् अन्तर्गतशल्यनिर्गमनकारिणीं मालिकां च गुलिकीकृत्य शुभां रक्षां चकार, रक्षाहेतुत्वेन हस्ते बबन्धेत्यर्थः । तां मन्त्रैरभिजजाप च ॥ २।२५।३७,३८ ॥
उवाचेति । संसज्जमानया अन्तः खेदगद्गतया ॥ २।२५।३९ ॥
केन प्रकारेणोवाचेत्यत्राहआनम्येति । आनम्य गच्छेत्यत्र इतिकरणं द्रष्टव्यम् ॥ २।२५।४० ॥
अरोगमिति । सर्वसिद्धार्थं सिद्धसर्वप्रयोजनम् ॥ २।२५।४१ ॥
प्रणष्टेति । प्रणष्टदुःखसङ्कल्पासङ्कल्पः मानसं कर्म, वने राघवस्य किं भविष्यतीति चिन्तात्मक इत्यर्थः ॥ २।२५।४२,४३ ॥
मङ्गलैरिति । मङ्गलैः राजोचितवस्त्राभरणादिभिः । वध्वाः सीतायाः । संवर्द्ध संवर्धय याहि गच्छ भो इति ॥ २।२५।४४,४५ ॥
प्रदक्षिणं चकारेति । रक्षार्थमेव पुत्रस्य प्रदाक्षेणम् ॥ २।२५।४६ ॥
तथेति । देव्या कृतपदक्षिणः स राघवः तथा च मातुः कृतप्रदक्षिणस्सन् पुनःपुनः मातुश्चरणौ निपीड्येति सम्बन्धः । निपीड्य अभिवाद्येत्यर्थः ॥ २।२५।४७ ॥
इति श्रीमहैश्वरतीर्थविरचतायां श्रीरामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां पञ्चविंशः सर्गः ॥ २।२५ ॥