०२४ रामं प्रति कौसल्योपदेशः

तमिति । अवहितं सावधानम्, निर्देशपालने आज्ञापालने मङ्गलभङ्गभीत्या संरुद्धबाप्पा ॥ २।२४।१ ॥

अदृष्टेति । उञ्छेन क्षेत्रपतितव्रीह्यादिकणिशग्रहणमुञ्छः, तेन वर्तयेन जीवेत् । भवानिति शेषः ॥ २।२४।२ ॥

यस्येति । भृत्या मन्त्रिमुख्याः भर्तुं योग्याः । दासाः भुजिष्याः, दास्य इति यावत् ॥ २।२४।३ ॥

क इति । एवंविधो राघवो निर्वास्यत इति यत् एतच्छ्रुत्वा राजानं कः श्रद्दधेत् कः श्रद्दध्यात् । कस्य वा भयं न भवेत् ? ॥ २।२४।४ ॥

नूनमिति । सर्वमादिशन् सुखदुःखं प्रयच्छन् कृतान्तो विधिर्बलवान् यत्र दैवे सति त्वं वनं गमिष्यसि ॥ २।२४।५ ॥

अयं त्वित्यादि श्लोकत्रयमेकं वाक्यम् । आत्मभवः देहजः । अदर्शनस्य शोकाग्निप्रवर्द्धकत्वान्मारुतत्वनिरूपणम् । विलापदुःखसमिधः विलापदुःखान्येव समिधो यस्य सः । रुदिताश्रूण्येव हुताः कृतहोमाः आहुतयो यस्य सः । चिन्ताबाप्पमहाधूमः चिन्तोष्मैव महाधूमो यस्य सः । अदर्शनचित्तजः अदर्शनेन हेतुना चित्तजः । निश्वासायाससम्भवः निश्वासानामायासः आवर्तनं तेन सम्भवो वृद्धिर्यस्य सः । स मां प्रधक्ष्यतीति सम्बन्धः ॥ २।२४।६९ ॥

यथेति पाठः । यथा निगदितं येन प्रकारेण निगादितम् तद्वाक्यं श्रुत्वा आत्मानुगमनं श्रुत्वेति यावत् ॥ २।२४।१० ॥

कैकेय्येति । वञ्चितः परित्यक्तः । न वर्तयिष्यति न जीविष्यति ॥ २।२४।११ ॥

भर्तुरिति । केवलं नृशंसः अत्यन्तपापहेतुः, मनसा न कर्तव्यः न चिन्तनीयः । तत्र हेतुः गर्हितः ॥ २।२४।१२१६ ॥

पितृवाक्यकरणानन्तरं त्वच्छुश्रूषामपि करिष्यामीत्याहइमानीति । विहृत्येत्यनेन वनवासस्य मृगयावल्लीलात्वं दर्शितम् । वचने स्थास्यामि वचनमनुष्ठास्यामि ॥ २।२४।१७,१८ ॥

अङ्गीकृतवनवासापि कौसल्या सपत्नीकृतदुःखस्मरणात् पुनश्च राघवानुगमनमभिलषतिआसामिति । आसामित्यत्र राममब्रवीदित्यध्याहारः । पितुरपेक्षया पितुरिच्छया ॥ २।२४।१९२१ ॥

अथ सपत्नी मध्ये वस्तुं दुष्कर इति यदुक्तं तत्र परिहारमाह भरत इति ॥ २।२४।२२२६ ॥

शुश्रूषामिति । श्रुतः श्रुतिभिः स्मृतः स्मृतिभिः ॥ २।२४।२७ ॥

स्ववियोगजदुःखविस्मरणार्थं कालक्षेपं विधत्तेअग्नीति । अग्निकार्येषु शान्तिकपौष्टिकहोमेषु, आहुतिभिः सदा देवताः सुमनोभिः पुष्पैः ॥ २।२४।२९ ॥

प्राप्स्यस इति । धर्मभृतां श्रेष्ठः दशरथः, यदि जीवितं धारयिष्यति ॥ २।२४।३०३३ ॥

प्रत्यागत इति । आनृण्यताम् अनृणताम् ॥ २।२४।३४ ॥

कृतान्तस्येति । वच आच्छिद्य निराकृत्य त्वां सञ्चोदयतीति यत्, वनायेति शेषः । ततो दुर्विभाव्या ॥ २।२४।३५ ॥

गच्छेति । श्लक्ष्णेन नीरागदोषेण । चारुणा मनोहरेण । साम्ना सान्त्ववचनेन ॥ २।२४।३६ ॥

क्षणमात्रमप्यदर्शनासहिष्णुत्वात् प्रत्यागमनकाल इदानीमेव सम्भवेदिति प्रार्थयते अपीदानीमिति । यस्मिन् काले वनात्प्रत्यागतं त्वां पुनः पश्येयं स काल इदानीमेव स्यात्, शीघ्रं गच्छेति भावः ॥ २।२४।३७ ॥

तथेति । परमेण आदरेण स्वस्त्ययनं मङ्गलमभिकाङ्क्षितुं शीलमस्या इति तथा ॥ २।२४।३८ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां चतुर्विंशः सर्गः ॥ २।२४ ॥