इति ब्रुवतीति । दुःखहर्षयोर्मध्यं जगाम । ज्येष्ठम्य धर्मे धैर्यं दृष्ट्वा किञ्चित्प्रहृष्टः राज्यत्यागं दृष्ट्वा दुःखितश्च, एषा दुःखहर्षयोर्मध्यगतिः ॥ २।२३।१३ ॥
अग्रहस्तं विधुन्वन्निति । एवं रामेण क्षमापणाय गृहीतस्सन्नित्यर्थः । तिर्यगूर्ध्वमिति । शिरोधरां ग्रीवाम् तिर्यगूर्ध्वं शरीरे चकारादधश्च पातयित्वा क्रोधातिशयेन शिरोधूननं कृत्वेत्यर्थः । अग्राक्ष्णा कटाक्षेण तिर्यग्वीक्षमाणः ॥ २।२३।४ ॥
अस्थान इति । धर्मदोषप्रसङ्गेन धर्मः पितृवचनपरिपालनम् दोषः तस्याकरणम् प्रसङ्गेन प्राप्त्या, धर्महानिप्रसक्त्येत्यर्थः । हेतुना लोकस्य अनतिशङ्कया पितृवचनमकुर्वन् अस्मान् कथं रक्षिष्यतीति शङ्का, तदभावो ऽनतिशङ्का तया च हेतुना यस्येति सुमहान् सम्भ्रमः वनगमनत्वराजातः, अयमयुक्तः भ्रान्तिमूल एवेत्यर्थः ॥ २।२३।५ ॥
तथात्वमेवाह कथमिति । अशौण्डीरम् असमर्थम् अकिञ्चित्करमेव दैवं प्रबलमिति यथा त्वं वदसि, एवं शौण्डीरः दैवमपि निराकर्तुं समर्थः । कश्चित्त्वद्विधः क्षत्रियर्षभो यद्यसम्भ्रन्तः स्यात्तथासौ कथमेतद्वक्तुमर्हति, न कथमपि ॥ २।२३।६ ।।
किन्नामेति । अतः कृपणं दीनं, स्वापेक्षार्थकरणे पुरुषान्तरं प्रार्थयमानमित्यर्थः । अशक्तम् स्वयं पुरतः स्थित्वा यत्किञ्चित्कर्तुमसमर्थम् दैवपदार्थं प्राकृतवत् किन्नाभिशंससि । एवं दैवालम्बनवादं प्रतीक्ष्य धर्मदोषप्रसङ्गं परिहरति पापयोरिति । पापात्मनोस्तयोः कैकेयीदशरथयोर्विषये ते कथं नाम शङ्का पापात्मकत्वशङ्का न विद्यते । पारयोस्तयोर्वाक्याकरणे निर्दुष्टस्य ते धर्महानिप्रसक्तिर्नास्तति भावः ॥ २।२३।७ ॥
ननु, धर्मावलम्बनव्यवहारयोस्तयोः कथं पापशङ्काप्रसक्तिः ? तत्राहसन्तीति । धर्मोपधाः धर्मः उपधा व्याजश्छलो येषां ते, तथा श्लक्ष्णाः धर्माचरणकञ्चुकेन स्वदोषपिधानचतुरास्सन्ति । लोक इति शेषः । हे धर्मात्मन् धर्मैकप्रवणस्वभाव शाठ्यात् गूढविप्रियकारित्वात् स्वार्थम् अभिषेकमस्मत्प्रयोजनं परिजिहीर्षतोः परिहर्तुमिच्छतोः तयोः कैकेयीदशरथयोः सुचरितं सुष्ठु मन्त्रितं किं न बुध्यस इति योजना ॥ २।२३।८ ॥
यदीति । हे राघव एवं यदि शाठ्येन त्वदर्थहरणं प्रागेवाभिषेकप्रस्तावात्पूर्वस्मिन् क्षण एव तयोस्ताभ्यां न व्यवसितं न सङ्केतित यदि स्यात् तर्हि स वरः प्रगेव अस्मात्कालात्पूर्वकाल एव दत्तश्च भवेत् । हि यस्मात् प्रकृतश्च सः पुरैव प्रवृत्तः स वरः । अयं भावःपूर्वं यदि वरप्रतिज्ञा तदानीमेव वरदानं युक्तम् इदन्तु विरुद्धम् तदानीं वरप्रक्रमः प्रक्रान्तस्य वरस्य दशरथ एव स्थापनम् अत्रावसरे तस्य विनियोग इति, तस्माद्वरप्रदानं सत्यमिति न मन्य इति ॥ २।२३।९ ॥
लोकविद्विष्टमिति । ज्येष्ठं परित्यज्य कनिष्ठस्याभिषेचनाल्लोकद्वेषविषयम् । तत्र मे तद्विषयकं मम प्रतिवचनापराधम् ॥ २।२३।१० ॥
येनेति । येन पितृवचनपरिपालनरूपधर्मेण द्वैधमागता पूर्वं राज्याङ्गीकारः इदानीं वनगः नाङ्गीकार इत्येवं भेदं प्राप्ता, यस्य प्रसङ्गात् मुह्यसि अकरणे प्रत्यवायः स्यादिति मोहं प्राप्नोषीत्यर्थः । स धर्मो मम द्वेष्यः ॥ २।२३।११ ॥
कथमिति । कर्मणा शक्तः प्रतीकारकर्मणा ॥ २।२३।१२ ॥
यद्ययमिति । अयं भेदः अभिषेककार्यविघातः किल्बिषात् कपटात् कृतोपि, ताभ्यामिति शेषः । एवंविधः किल्बिषकृत इति, यदि यतः कारणात् न गृह्यते, त्वयेतिशेषः । तत्र तस्माद्धेतोः मे दुःखं जायते कपटकृतमप्यर्थं श्रीरामः साधुतया गृह्णातीति मे व्यथा जायत इत्यर्थः । किञ्च धर्मसङ्गश्च गर्हितः एवंविधधर्माचरणं लोकविरुद्धमित्यर्थः ॥ २।२३।१३,१४ ॥
यद्यपीति । तयोः पित्रोः प्रतिपत्तिः अभिषेकविघटनविषया बुद्धिः दैवी चापि दैवकृतैवेति ते मता, यद्यपि तथापि ते त्वया उपेक्षणीयम् तदपि दैवमपि मे न रोचत इति योजना ॥ २।२३।१५ ॥
विक्लव इति । सम्भावितात्मानः सर्वलोकोपश्लाघनीययशोवीर्यादिमन्तः ॥ २।२३।१६ ॥
दैवमिति । पुरुषकारेण पौरुषेण न दैवेनेति । विपन्नार्थः हतप्रयोजनः ॥ २।२३।१७ ॥
द्रक्ष्यन्तीति । दैवस्य च पौरुषस्य च । पौरुषं शौर्यम् । व्यक्तिः प्रबलदुर्बलविवेकः । व्यक्ता स्फुटा भविष्यति ॥ २।२३।१८ ॥
अद्येति । अभिषेचनं यद्दैवात् यस्माद्दैवादाहतं विघ्नितं सत् दृष्टं तद्दैवं मत्पौरुषहतं जना द्रक्ष्यन्ति ॥ २।२३।१९ ॥
अत्यङ्कुशमिति । अत्यङ्कुशम् अतिक्रान्ताङ्कुशव्यापारम्, उद्दामम् उत्कृष्टदामम्, विशृङ्खलमित्यर्थः । प्रधावितम् आभिमुख्येनागतम् ॥ २।२३।२०,२१ ॥
यैरिति । मिथः रहस्ये ॥ २।२३।२२ ॥
अहमिति । तदाशां तामाशाम् ॥ २।२३।२३ ॥
मद्बलेनेति । मद्बलेन, विरुद्धाय विरुद्धजनस्य उग्रं मम पौरुषं यथा दुःखाय प्रभविष्यति तथा दैवबलं तस्य न स्यात् तथा सुखाय न प्रभविष्यतीत्यर्थः ॥ २।२३।२४ ॥
न कदाचिदपि भरतस्य राज्यप्राप्तिरस्तीत्याहऊर्ध्वमिति । वर्षसहस्रान्ते त्वयि वनवासं प्राप्ते सतीत्यर्थः । प्रजापाल्यं प्रजापालनम् । आर्यपुत्राः आर्यस्य तव पुत्राः, तदानीमपि राज्यपरिपालने नान्यस्यावकाश इत्यर्थः ॥ २।२३।२५ ॥
स्वोक्तवनवासः अशेषजनसम्मत इत्याह पूर्वराजर्षिवृत्त्येति । पुत्रवत् प्रजापालननिमित्तम् प्रजाः पुत्रेषु निक्षिप्य पश्चाद्धि वनवासः । पूर्वराजर्षिवृत्त्या तदाचारेण वनवासो विधीयते ॥ २।२३।२६ ॥
स चेत्यादिश्लोकद्वयमेकं वाक्यम् । हे राम राजनि दशरथे, एवमनेकाग्रे चलचित्ते प्रतिकूले सति । राज्यविभ्रमशङ्कया राज्यस्य विविधचलनशङ्कया आत्मनि राज्यं राजत्वं नेच्छसि चेत् नाङ्गकरोषि चेत् तव राज्यं रक्षेयम् अन्यथा वीरलोकभाक् माभूवमिति ते प्रतिजान इत्यन्वयः ॥ २।२३।२७ ॥
मङ्गलैरिति । मङ्गलैः मङ्गलद्रव्ययुक्तैः जलैरभिषिञ्चस्व आत्मानम्, वसिष्ठादिभिरिति शेषः । तत्र अभिषेककर्मणि व्यापृतो भव व्यग्रचित्तो भव । वारयितुं निवारयितुम् । अहम् अलं पर्याप्तः ॥ २।२३।२९ ॥
त्वदिष्टावरणप्रयोजनायैव मम बाहुवीर्यादिकमत्याह न शोभनार्थावित्यादिसार्धश्लोकमेकं वाक्यम् । असिः खङ्गः आबन्धनार्थाय । आ बध्यत इत्याबन्धनम् अलङ्कारः, तदर्थं न । तथा स्तम्भहेतवः स्तम्भः तूण्णींभावः ॥ २।२३।३० ॥
न चाहमिति । यः शत्रुर्मतः शत्रुत्वेन मम सम्मतः स्यात् तं न कामये, न समत्वेन गणयामीत्यर्थः । इन्द्रो ऽपि समो न भवतीत्याह असिनेति । विद्युच्चलितवर्चसा प्रगृहीतेन अनेन खङ्गेन छेद नानुरूपं वज्रिणमपि न कल्पये, किमुतान्यमित्यर्थः ॥ २।२३।३१ ॥
खङ्गेति । खङ्गनिष्पेषनिष्पष्टैः खङ्गकृतमर्दनेन चूर्णीकृतैरित्यर्थः । गहना काननमिव निरन्तरा । अत एव दुश्चरा ॥ २।२३।३२,३३ ॥
बद्धगोधेति । गोधा ज्याघातवारणम् । मयि स्थिते पुरुषमानी आत्मानं पुरुषश्रेष्ठं मन्यमानः शूराभिमानी कथं स्यादित्यर्थः ॥ २।२३।३४ ॥
बहुभिरिति । अत्यस्यन् प्रकर्षेण क्षिपन् बहुभिर्बाणैरेकं पुरुषम् एकेन बाणेन ॥ २।२३।३५ ॥
अद्येति । अस्त्रप्रभावस्य अस्त्रमाहात्म्यस्य प्रभावः प्रतापः ॥ २।२३।३६ ॥
अद्येतिश्लोकद्वयमेकं वाक्यम् । चन्दनसारस्य चन्दनोत्तमस्य केयूरामोक्षणस्य च अङ्गदधारणस्य अनुकूलौ अर्हौ ते अभिषेकस्य विघ्नकर्तृ़णां निवारणे विषये हे राम कर्म करिष्यतः ॥ २।२३।३७,३८ ॥
ब्रवीहीति । वियुज्यतां नियुज्यताम् ॥ २।२३।३९ ॥
स्त्रीवश्यपितृवचनं न कर्तव्यमित्युक्तवन्तं लक्ष्मणं प्रति सर्वात्मना पितृवचनमनुल्लङ्घनीयमित्युत्तरमाहविमृज्येति । बाप्पं लक्ष्मणनयनजं विमृज्य पित्रोर्वचने व्यवस्थितं प्रतिष्ठितम् मां निबोध । हे सौम्य एष हि सत्पथः समीचीनः पन्थाः “जीवतोर्वाक्यकरणात्प्रत्यब्दं भूरिभोजनात् । गयायां पिण्डदानाच्च त्रिभिः पुत्रता ॥ " इति न्यायादित्याशयः ॥ २।२३।४० ॥
इति श्रीमबेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां अयोध्यकाण्डव्याख्यायां त्रयोविंशः सर्गः ॥ २।२३ ॥