अथेत्यादश्लोकद्वयमेकं वाक्यम् । सविशेषम् सातिशयम्, विस्फारितम् आसाद्य अभिमुखीभूय धैर्येण हेतुना सत्त्वं चित्ताविकृतिम् धारयन्नुवाच ॥ २।२२।१,२ ॥
निगृह्येत्यादश्लोकद्वयमेकं वाक्यम् । अवमानं पितृनिमित्तं जातम् । उपक्लृप्तं संभृतम्, निरत्ययं नाशरहितम्, निर्विघ्नमिति यावत् । कार्यं वनवासोपयुक्तवल्कलाद्यानयनरूपं कुर्वित्युवाचेति पूर्वेण सम्बन्धः ॥ २।२२।३,४ ॥
सौमित्र इति । सम्भारसम्भ्रमः सम्भासम्पादनोत्सवः । अभिषेकनिवृत्त्यर्थेअभिषेकनिवृत्तिः अर्थः प्रयोजनं यस्य स तथोक्तः तस्मिन् । सम्भारसम्भ्रमो ऽस्तु वनवासोचितसाधनसम्पादनविषयो भवत्वित्यर्थः ॥ २।२२।५ ॥
यस्या इति । मदभिषेकार्थे मदभिषेकनिवृत्तिनिमित्तं, मानसं परितप्यते, सा मे माता कौसल्या यथा इति चेत् सविशङ्का न स्यात् तथा कुरु । पितृवाक्यपरिपालनस्य रामकर्तव्यस्य अल्पकालसाध्यत्वात् तद्विषये त्वया न विषेत्तव्यमित्युपदेशेनेत्यर्थः । यद्वा यस्या इति मे माता कैकेयीति वार्थः । स्पष्टमन्यत् ॥ २।२२।६ ॥
कुत इत्यत आहतस्या इति । तस्याः मनसि प्रतिसञ्जातं शङ्कामयं शङ्कारूपं दुःखम् उपेक्षितुं नोत्सहे ॥ २।२२।७ ॥
न बुद्धीति । मातृ़णां पितुर्वा बुद्धिपूर्वम् अबुद्धम् अबुद्धिपूर्वं वा अल्पमपि विप्रियम् कदाचन कदाचिदपि न कृतं न स्मरामि चेति सम्बन्धः ॥ २।२२।८ ॥
सत्य इति । सत्यः सत्यविशिष्टः । सत्याभिसन्धः वरदानविषये सत्यप्रतिज्ञः । परलोकभयात् परलोकभयहेतोरसत्यात् ॥ २।२२।९ ॥
तस्येति । तस्मिन् कर्मणि अप्रतिसंहृते अनिवर्तिते । सत्यं नेति अस्मद्वचनं सत्यं भविष्यतिऽ वानवेति तस्यापि मनस्तापो भवेत् तस्य दशरथस्य तापो मां तपेत् तापयेत् ॥ २।२२।१० ॥
अभिषेकेति । अन्वगेव अनुपदं शीघ्रमेव ॥ २।२२।११ ॥
ममेति । अव्यग्रम् अव्याकुलम् ॥ २।२२।१२,१३ ॥
बुद्धिरिति । येन मन्थरादिजनेन । इयं बुद्धिः अभिषेकत्यागाध्यवसायः । प्रणीता प्रवर्तिता । तस्मिन् मनश्च सुसमाहितं स्थिरीकृतम् । तं जनमपि । सक्लेष्टुं क्लेशयितुम् । नार्हामि न श्क्नोमि । किंपुनः पितरौ । अतः प्रव्रजिष्यामीत्यर्थः । यद्वा बुद्धिरिति, येन पित्रा इयं बुद्धिः प्रणीता अयमभिषेकत्यागाध्यवसायः प्रवृत्तः पितुरनुग्रहादेव तदीयसत्यपरिपालनार्थम् अभिषेकत्यागलक्षणाध्यवसायः प्रवृत्त इति भावः । मनश्च सुसमाहितम् यस्य शिक्षोपदेशाभ्यां मनसः सौगुण्यं जातमित्यर्थः । तं तथाविधं पितरं संक्लेष्टुं सत्यपाशेन संक्लेशयितुं नार्हामि माचिरं शीघ्रं प्रव्रजिष्यामि ॥ २।२२।१४ ॥
एवं प्रवासं निश्चित्य तत्र कैकेय्या निमित्तत्वशङ्क्या क्रुद्धस्य लक्ष्मणस्य क्रोधनिवृत्तये आह कृतान्त इति । कृतान्तः दैवमेव मत्प्रवासने द्रष्टव्यः, कारणत्वनेति शेषः । वितीर्णस्य प्राप्तस्य राज्यस्य ॥ २।२२।१५ ॥
कृतान्तस्त्वेवेत्यवधारणांशमाहकैकेय्या इति । कृतान्तविहितः कृतः अन्तो येनेति व्युत्पत्त्या कृतान्तशब्देन कालः । तेन विहितः भावः अभिप्रायः न भवेद्यदि मम पीडने कैकेय्याः प्रवृत्तिः अध्यवसायः कथं स्यादिति योजना ॥ २।२२।१६ ॥
दैवकारणकमेव कैकेय्या भाववैपरीत्यमित्यत्र तस्याः सहजभावं स्मारयतिजानासीति । हे सौम्य मातृषु मम अन्तरं वैषम्यं यथा न भूतपूर्वम् तस्याः कैकेय्याः सुते भरते मयि च विशेषः वैषम्यं
यथा न भूतपूर्वं तथा जानासि किम् ? अतो दैवकृतं वैषम्यमिति निश्चय इति भावः ॥ २।२२।१७ ॥
अयमेव मम निश्चय इत्याह स इति । सो ऽहमभिषेकनिवृत्तिप्रयोजनैर्वाक्यैश्च तस्या एवं प्रवर्ते दैवादन्यन्न किञ्चिदपि समर्थये कारणतया निश्चिनोमि ॥ २।२२।१८ ॥
दैवमेतस्या भावभेदहेतुरित्याहकथमिति । प्रकृतिसम्पन्ना न तु स्वभावदारुणा, तथागुणा एतत्क्षणात्प्रगनुभूततादृक्परमकल्याणगुणा च भर्तृसन्निधौ च कथं कुर्यात् ? यदि न दैवविहता इति शेषः ॥ २।२२।१९ ॥
इह विषये न केवलं तस्या एव दैववशत्वम्, ममापत्याहयदिति । हि यस्मात् यत्कार्यम् अचिन्त्यम् ईदृग्विधमिति चिन्तयितुमशक्यम् भूतेषु न हन्यते भृतैर्जनैः अन्यथा न क्रियते तद्दैवं तु दैवकृतमेव, अतः व्यक्तं स्पष्टं मयि तस्यां च विपर्ययः पतितः प्राप्तः मयि विपर्ययो पस्तगतराज्यभ्रंशरूपः तस्यां पूर्वस्थितवात्सल्यापगमरूपः ॥ २।२२।२० ॥
ननु कथं दैवस्य प्राबल्यम्, तत्सत्त्वे वा किम्मानम् ? इत्यत्राहकश्चिदिति । यस्य दैवस्य, ग्रहणं ज्ञानसाधनम् कर्मणः कार्यभूतात् फलात् अन्यत्र न दृश्यते तेन दैवेन को वा योद्धुमुत्सहते तद्दैवं को वा निवारयितुं शक्त इत्यर्थः । अयमर्थःकर्मणो ऽन्यत्र न दृश्यत इत्यनेन दैवस्य नित्यानुमेयतया योद्धुमशक्यत्वात्प्राबल्यम् । अत एव तत्सत्त्वे अनुमानं प्रमाणमित्युक्तमिति ॥ २।२२।२१ ॥
अतो दैवमेव प्रबलम्, पौरुषं काकतालीयमित्याशयेनाहसुखदुःखे इति । भवाभावौ बन्धमोक्षौ यच्च किञ्चित् तथाभूतम् अचिन्त्यकारणकं कार्यमस्ति तत्सर्वं दैवस्य नतु कर्म कार्यम् ॥ २।२२।२२ ॥
दैवप्राबल्यमेव द्रढयतिऋषय इति । ऋषयः विश्वामित्रादयः, नियमान् इष्टान् दृढनियमान् । भ्रश्यन्ते अभिभूयन्ते । काममन्युभिरितिबहुवचनं व्यक्तिबाहुल्यात् ॥ २।२२।२३ ॥
इदानीं प्रारब्धस्य लक्षणमाहअसङ्कल्पितमिति । इह अस्मिन् लोके । आरब्धम् आरम्भम्, उपक्रान्तं कार्यं निवर्त्य असङ्कल्पितमेव यत्कार्यम् अकस्माद्दुष्टहेतुं विना प्रवर्तते तद्दैवस्य कर्म कार्यं नन्विति योजना ॥ २।२२।२४ ॥
उपदिष्टं बुद्धियोगमुपसंहरतिएतयेति । तत्त्वया यथार्थया । आत्मानमन्तःकरणम् । आत्मना संस्तभ्य स्वेनैव नियम्य । यदि तिष्ठासे तदा मे अभिषेके व्याहतेपि परितोषो न विद्यते न भवति ॥ २।२२।२५ ॥
उक्तानुवादपूर्वकं तत्कालकर्तव्यं नियुङ्क्तेतस्मादिति । तस्मादुपदिष्टबुद्धियोगबलादपरितापस्सन् त्वमपि मामनुविधाय अनुसृत्य । आभिषेचनिकीं क्रियां तत्प्रयोजनिकीं क्रियाम् । अलङ्कारादिकर्म क्षिप्रं प्रतिसंहारय ॥ २।२२।२६ ॥
एभिरिति । तापस्ये तापसयोग्ये कर्मणि । अभिषेचनसम्भृतैः घटादिस्थजलैः । व्रतसङ्कल्पापेक्षितं स्नानं भविष्यति ॥ २।२२।२७ ॥
तापस्यव्रतस्नाने क्रियमाणेपि राज्यलिप्सया स्नानं कृतवानिति कैकेय्याः शङ्का माभूदिति स्नानं निषेधतिअथवेति । राज्यद्रव्यमयेन राज्याभिषेकसाधनमङ्गलद्रव्यप्रचुरेणेत्यर्थः । व्रतादेशं व्रताधिकारं करिष्यति ॥ २।२२।२८ ॥
मा चेति । राज्यं वा वनवासो वेति राज्यं यथावत्पालनेन धर्मसाधनमस्तु वनवासो वा तपस्साधनमस्तु, तथापि तयोर्मध्ये विशेषोस्तीत्याह वनवासो महोदयः, प्रजानां कृत्याकृत्यचिन्ताद्याक्षेपराहित्येन सततं तपःप्रवृत्तिसाधनत्वात् विशिष्य
पितृवाक्यपरिपालनप्रयोजनवत्त्वाच्च महोदयः महाभ्युदयसाधनम् ॥ २।२२।२९ ॥
उपदिष्टं परमप्रयोजनं निगमयतिन लक्ष्मणेति । दैवाभिपन्नाः प्रारब्धग्रस्ताः त्वं च दैवं यथाप्रभावं जानासि, अतो नातिशङ्कनीया ॥ २।२२।३० ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां द्वाविंशः सर्गः ॥ २।२२ ॥