०२१ लक्ष्मणस्य वीर्योक्तिः

तथा त्विति । तत्कालसदृशं रामवियोगहेतुकौसल्यादुःखप्रतीकारोचितम् ॥ २।२१।१ ॥

न रोचत इति । गच्छेदिति यत् तन्ममापि न रोचते ॥ २।२१।२ ॥

विपरीत इति । विपरीतः विपरीतचेतस्कः । समन्मथः मनोभुवा धर्षितः । आकृष्टः चोद्यमानः, स्त्रियेति शेषः । किमिव न ब्रूयात् अयुक्तशतमपि ब्रूयादेव, अतो न श्रद्धेयमिति भावः ॥ २।२१।३ ॥

ननु विवासनस्य कथं राजदोषप्रयुक्तता रामदोषप्रयुक्ततैव कस्मान्न स्यादित्यत्राहनेति । अस्य रामस्य येन हेतुना राघवो निर्वास्यते तथाविधं निर्वासनयोग्यम् । अपराधं राजद्रोहम् दोषं । महापातकम् न पश्यामि ॥ २।२१।४ ॥

अस्तु, रामस्याप्यपराध इत्यत्राहनेति । स्वमित्रोपि सुतरां शत्रुरपि, निरस्तोपि अपकृतोपि । यः नरः परोक्षमपि असन्निधानेपि । अस्य रामस्य दोषं वदेत् तं न पश्यामि ॥ २।२१।५ ॥

देवकल्पमिति । देवकल्पं देवसमानम्, ऋजुम् करणत्रयार्जवयुक्तम् । दान्तं दमितम्, गुरुभिः शिक्षितमित्यर्थः । मातृ़णां कैकेय्यादीनामपि विषये वत्सलं स्निग्धम् । धर्मं धर्मविग्रहम् ॥ २।२१।६ ॥

तदिति । बाल्यं बालभावम्, कामपारवश्यमित्यर्थः । राजवृत्तं प्राचीनराजधर्मम् । अनुस्मरन् आलोचयन् ॥ २।२१।७ ॥

रामं प्रत्याह यावदिति । इममर्थम् अस्मत्प्रवासनरूपमर्थम् । कश्चिदपि यावदेव न जानाति तावत् ततः पूर्वमेव । शासनं शास्यत इति शासनम् राज्यम् । आत्मस्थम् आत्माधीनं कुरु ॥ २।२१।८ ॥

कथमेवं शक्यमित्यत्राहमयेति । अधिकं कर्तुं तवाज्ञामतिलङ्घ्याभ्याधिकं कर्तुमित्यर्थः ॥ २।२१।९ ॥

निर्मानुष्यमिति । विप्रिये प्रातिकूल्ये ॥ २।२१।१० ॥

भरतस्येति । पक्षे भवः पक्ष्यः । मित्रम् अन्यो वा यो ऽस्य हितमिच्छति ॥ २।२१।११ ॥

प्रोत्साहित इति । प्रोत्साहितः इतः अस्माद्विवासनार्थम् । निस्सङ्गं निर्विचारम् ॥ २।२१।१२ ॥

स्वोक्तार्थे धर्मशास्त्रं प्रमाणयतिगुरोरिति । अवलिप्तस्य कामाद्यभिभूतस्य । उत्पथम् अपथम् । शासनं दण्डनम् ॥ २।२१।१३ ॥

बलमिति । तव स्थितं धर्मतः प्राप्तम् इदं राज्यम् अस्मदभिभवसमर्थम्, किं बलम् त्वदीयराज्यहरणे कं वा हेतुमाश्रित्य कैकेय्यै दातुमिच्छति तदुभयमपि नास्तीत्यर्थः ॥ २।२१।१४,१५ ॥

ज्ञातित्वाविशेषात् त्वं वा कथं विश्वासनीय इत्यत्राहअनुरक्त इति । भावम् अन्तराभिप्रायम् ॥ २।२१।१६१९ ॥

भ्रातुरिति । अत्रावसरे अनन्तरं कर्तव्यं तत्त्वं कार्यं तत् यदि रोचते तत्कुरुष्व ॥ २।२१।२० ॥

गुरुवचनं कथं वा न कार्यमित्याशङ्क्य, नैतद्गुरुवचनम् किन्तु सपन्त्या चोक्तमित्याहन चेति । अधर्म्यं सपत्न्या कैकेय्या । भाषितम् उक्तं वचः श्रुत्वा मां विहाय गन्तुं नार्हसि । २१।२१ ॥

“एभ्यो माता गरीयसी” इति वचनं हृदि निधायाहधर्मज्ञेति । अतिशयेन धर्मवान् धर्मिष्ठः, धर्मं पितृवाक्यकरणरूपं धर्मम् चरितुमिच्छसि ॥ २।२१।२२ ॥

शुश्रूषुः शुश्रूषणं कुर्वन्, त्रिदिवं गत इत्यनेन इह लोके पूर्वं मातृशुश्रूषाबलेन प्राजापत्यपदं प्राप्तवानित्यवगन्तव्यम् ॥ २।२१।२३ ॥

यथेति । नानुजानामि अनुज्ञां न करोमि ॥ २।२१।२४ ॥

त्वद्वियोगादिति । त्वद्वियोगात् परं मे जीवितादिना न किञ्चित्कार्यम् यदेवमतस्त्वयेति ॥ २।२१।२५ ॥

यदीति । प्रायं प्रायोपवेशनम्, अनशनदीक्षामिति यावत् ॥ २।२१।२६ ॥

तत इति । निरयं दुःखम् । समुद्रः अधर्मात् पिप्पलादमुनिविषयकृतापराधात् । ब्राह्महत्यामिवब्राह्मणनिमित्तका हिंसा ब्रह्महत्येति व्युत्पत्त्या पिप्पलादोत्पादितकृत्त्यया समुद्रप्राप्तं दुःखं ब्रह्महत्येत्युच्यते । पिप्पलादेन कृत्योत्पादनं च" पिप्पलादसमुत्यपन्ने कृत्ये लोकभयङ्करि " इति वचनात् समुद्रकर्तृकब्रह्महत्याया अश्रवणादेवं व्याख्यातम् ॥ २।२१।२७,२८ ॥

पितृवाक्यमतिक्रमितुं शक्तिर्नास्ति, त्वद्वचसः कर्तव्यत्वेपि पितृवचनस्य प्रथमतः प्राप्तत्वेन प्राबल्याद्युगपदनुष्ठानासम्भवाच्च पितृवचनं प्रथमं कर्तव्यम् ॥ २।२१।२९ ॥

अपि च पितृवाक्यगौरवेण गोवधमातृवधादिकपि पूर्वैर्महात्मभिः कृतम् । अत्र तु पितृवाक्यकरणतो दुःखमात्रं मातुरिति कुतः पितृवचनाकरणमित्याशयेनाह ऋषिणेत्यादि ॥ २।२१।३० ॥

अवाप्तः सुमहान् वधः इत्यनेन प्राणानपि परित्यज्य पितृवाक्यं परिपालनीयम्, किमुत कियत्कालवनवासमात्रेणेत्याशयः ॥ २।२१।३१ ॥

परशुना स्वयं कृत्तेति स्वहस्तेनैव छिन्नेत्यर्थः ॥ २।२१।३२ ॥

एतैरिति । अक्लीबं कातर्यरहितम् ॥ २।२१।३३,३४ ॥

नेति । अपूर्वं पूर्वैरनाचरितम्, प्रतिकूलं पूर्वाचारविरुद्धम्, उक्तार्थस्यैवान्वयमुखेन प्रतिपादनं पूर्वैरिति । अभिप्रेतः अङ्गीकृतः ॥ २।२१।३५ ॥

तदेतदिति । तत्तस्मात्कारणात् । कार्यं कर्तव्यत्वेन प्राप्तमेव, एतत् पितृवाक्यकरणं क्रियते नान्यथा अकृत्यं न क्रियत इत्यर्थः । न कश्चिन्नाम हीयत इति मात्रादेः किञ्चिद्दुःखोत्पादनादिति शेषः ॥ २।२१।३६ ॥

तामिति । लक्ष्मणं पुनरब्रवीदिति पुनःशब्द आनन्तर्यवाची ॥ २।२१।३७,३८ ॥

मम मातुरिति । त्वद्दुःखं मम मातुर्दुःखमपि जानाम्येव, अथापि मया तु सत्यस्य शमस्य च अभिप्रायं रहस्यम् ज्ञात्वा युष्मद्दुःखहेतुत्वेपि सत्ये प्रवर्त्त्यते । युष्माभिः सत्यादेः रहस्यमविज्ञाय खिद्यत इत्यर्थः । अथवा मयि स्नेहात्सत्यस्य शमस्य च अभिप्रायं तत्त्वम् अभिज्ञाय त्वद्दुःखं त्वयोक्तं दुःखव्यञ्जकवाक्यम् मम मातुः महद्दुःखं दुस्तरदुःखनिमित्तं भवति, अतस्त्वया एवं न वक्तव्यमितिवार्थः ॥ २।२१।३९ ॥

धर्मोहि । धर्मः परमः सर्वपुरुषार्थेषु उत्तमः । धर्मे सत्यं प्रतिष्ठितं प्रशस्तं कारणम् । एतदुत्तमं प्रधानम् । अहं पितुर्वचनं धर्मसंस्थितं यथा तथा करिष्ये प्रतिजाने च ॥ २।२१।४० ॥

पितृवाक्यकरणस्य मया प्रतिश्रुतत्वान्न लङ्घमीयमित्याहसंश्रुत्येति ॥ २।२१।४१,४२ ॥

तदिति । अनार्याम् अशुभाम् । पितरमपि हत्त्वा राज्यं करिष्यमीतिलक्षणां बुद्धिं पितृवाक्याकरणैकपराम्, मद्बुद्धिः पितृवाक्यकरणैकपरा, अनुगम्यतामनुवर्त्त्यताम् ॥ २।२१।४३,४४ ॥

शापितासि शपथं प्रापितासि, गमननिरोधं माकुर्विति शेषः ॥ २।२१।४५ ॥

तीर्णोति । पुरा हित्वा पुनर्दिवं स्वर्गात् भूमौ पतितः, पुनर्भूमिं हित्वा दिवं गतो यथा ॥ २।२१।४६,४७ ॥

त्वयेति । पितुः राज्ञो दशरथस्य ॥ २।२१।४८ ॥

अम्बेति । सम्भारान् आभिषेकसम्भारान्, संहृत्य विसृज्य, निगृह्य निवार्य, वनवासकृता

वनवासाय निश्चिता ॥ २।२१।४९ ॥

एतदिति । धर्म्यम् अव्यग्रम् धैर्ययुक्तम् । अविक्लबम् । अकातरम् । मृतेव मूर्च्छितेव ॥ २।२१।५० ॥

यथोति । स्वधर्मेण पोषणादिना, सुहृत्तया शरीरसम्बन्धेन च ॥ २।२१।५१ ॥

किमिति । त्वया विना इह लोके किं जीवितेन प्राणधारणेन, लोकेन इतरबन्धुजनेन च ? स्वधया पितृलोकप्राप्तिसिद्धया । सुधयेति पाठेदेवभोग्येन वस्तुना च । अमृतेन अपुनर्भवेन च किं प्रयोजनम् ? कृत्स्नाज्जीवलोकादपि सर्वलोकस्थितजीवलोकसान्निध्यादपि मुहूर्तमपि तव सन्निधानं श्रेय इत्यर्थः ॥ २।२१।५२ ॥

नरैरिति । रात्रौ उल्काभिः अलातैः अपोह्यमानः उत्सार्यमाणः गजः ध्वान्तम् अभिप्रविष्टो भृत्वा भीत्या यथा बृंहितैः प्रजज्वाल तप्तो ऽभूत् । एवं स्वजनन्याः विलापं निशम्य अभ्यधिकं प्रजज्वाल ॥ २।२१।५३ ॥

स इति । तत्र धर्मसङ्कटे । रामः यथोवाच तथा वक्तुं स एवार्हाति, त्रिष्वपि लोकेषु न कोपीति ऋषिः स्तौति ॥ २।२१।५४ ॥

अहमिति । अभिप्रायं धर्मैकनिष्ठारूपम् । अभ्यर्दसि खिन्नोसि व्यथयसीति वा ॥ २।२१।५५ ॥

धर्मस्य सर्वपुरुषार्थमूलत्वादेकस्यैव धर्मस्यानुष्ठाने धर्मार्थकामानां फलप्राप्तिर्भविष्यतीत्यभिसन्धायाहधर्मेति । धर्मफलोदयेषु धर्मफलभूतानां सौख्यानामुदयेषु प्राप्तिषु ये धर्मार्थकामाः समीक्षिताः खलु कारणत्वेन सम्याग् दृष्टाः खलु । मन्वादिभिरिति शेषः । ते सर्वे धर्मार्थकामाः तत्र तस्मिन्नेव धर्मे असंशयं स्युः त्रयोप्यनुष्ठिता भवेयुरिति मे मतमिति । अत्र दृष्टान्तः भार्येति । एकैव भार्या पूर्वकृतपुण्येन लब्धा भर्तुर्वश्या अनुकूला धर्मं जनयति, अभिमता प्रिया कामं जनयति, सुपुत्रा सती अर्थं सम्पादयति ॥ २।२१।५६ ॥

यस्मिन्निति । यस्मिन् कर्मणि सर्वे धर्मार्थकामाः असन्निविष्टाः स्युः अविद्यमाना भवेयुः तत्कर्म नोपक्रमेत । यतः यस्मात् कर्मणः धर्मः स्यात् तदुपक्रमेत “अर्थशास्त्रात्तु बलवद्धर्मशास्त्रमिति स्थितिः " इति स्मरणात् । कुत इत्यत आह द्वेष्य इति । अर्थपरः केवलार्थपरः । कामात्मता केवलकामपरता ॥ २।२१।५७ ॥

गुरुरिति । गुरुत्वं धनुर्वेदाद्युपदेशात् ॥ २।२१।५८ ॥

स इति । इमां सकलां सम्पूर्णाम् अकर्तुं न शक्नोमि नियोगे प्रभुरिति शेषः । मातुः स्वेन सह गमननिषेधायाह देव्याश्चेति । भर्तृत्वात्स एवास्या गतिः, न तु पुत्रः सगतिः सधर्म इति पाठेतेन सगतिः समानगतिरेषा । सहि तच्छब्दस्य बुद्धिस्थपरामर्शकत्वात्तेन सहवास एवास्या धर्मः, न तु मया सह वास इत्यर्थः ॥ २।२१।५९,६० ॥

सेति । समाप्ते चतुर्दशवर्षाचरणीयव्रते समाप्त इत्यर्थः ॥ २।२१।६१ ॥

यश इति । केवलराज्यकारणात् धर्मविरहितराज्यहेतोः । महोदयं महाफलम् । यशः प्राप्तराज्यं त्यक्त्वा पितृवाक्यपरिपालनं कृतवानित्येवंरूपं यशः । पृष्ठतः कर्तुं तिरस्कर्तुम्, नालं न शक्नोमि । जीविते अदीर्घकाले सति अवरां तुच्छां महीम् अर्थतो न वृण इति सम्बन्धः ॥ २।२१।६२ ॥

प्रसादयन्निति । पराक्रमात् “राम तस्मादितश्शीघ्रं घनं गन्तुं त्वमर्हसि” इत्युक्तकैकेयीप्रेरणात् । अनुजं दर्शनं स्वमतं, धर्मरहस्यामित्यर्थः । अनुशास्य उपदिश्य, तां जननीं प्रदक्षिँणं कृत्वा हृदि गन्तुं मनश्चकारेत्यर्थः ॥ २।२१।६३ ॥

इति श्रीमहे० श्रीरामायणतत्त्व० अयोध्याकाण्डव्याख्यायां एकविंशः सर्गः ॥ २।२१ ॥