०२० कौसल्याविलापः

कृत्येष्विति । यः पित्रा अचोदित एव सर्वस्य जनस्य अन्तःपुरस्य च कृत्येषु प्रवर्तते, यो गतिः प्राप्यस्य प्राप्तिमार्गः । शरणं प्राप्यं चापि यश्चेत्यर्थः ॥ २।२०।२ ॥

युक्तः सेवात्परः ॥ २।२०।३ ॥

न क्रुध्यीति । यः अभिशप्तोपि श्रुतपारुष्यो ऽपि न क्रुध्यति । क्रोधनीयानि अन्यक्रोधोत्पादकानि च कर्माणि अनुकम्पया वर्जयन् न क्रुध्यति । क्रोधनीयानि वर्जयन्नित्यनेन स्वस्य क्रोधक्रियाकर्तृत्वकर्मत्वप्रतिषेधः ॥ २।२०।४ ॥

अबुद्धिरिति । यो राजा सर्वभूतानां गतीं राघवं परित्यजति स राजा अबुद्धिः दुर्मतिः, जीवलोकं चरति भक्षयति नाशयतीति ॥ २।२०।५ ॥

इतीति । महिष्यः पतिमाचुक्रशुः निनिन्दुः । सस्वरं चापि चुक्रुशुः रुरुदुः ॥ २।२०।६ ॥

स हीति । आसन एव व्यलीयत दुःखभरेण विलीनो ऽभवत् ॥ २।२०।७ ॥

राम इति । आयस्तः स्वजनदुःखप्राप्तखेदः ॥ २।२०।८ ॥

स इति । पुरुषं द्वाराध्यक्षम् ॥ २।२०।९ ॥

दृष्ट्वेति । जयेति विजयी भवेतिशब्देनेत्यर्थः ॥ २।२०।१०१२ ॥

वर्द्धयित्वा, जयाशिषेति शेषः ॥ २।२०।१३ ॥

कौसल्येति । रात्रिं सर्वस्यां रात्र्याम् ॥ २।२०।१४ ॥

सेति । अग्निं जुहोतीति, ब्रह्मणेनेति वेदितव्यम् । तदेवाह हावयन्तीमिति । देवकार्येति । हविषः हवींषि । कृसरं तिलोदनम् ॥ २।२०।१५१८ ॥

तामिति । देवतां तर्पयन्तीम् ॥ २।२०।१९ ॥

सेति । अभिचक्राम अभिमुखं जगाम ॥ २।२०।२० ॥

स इति । अभिक्रान्तम् आभिमुख्येनागताम् । उपसङ्गृह्य अभिवाद्य, स्थित इति शेषः ॥ २।२०।२१२३ ॥

सत्यप्रतिज्ञामिति । राजानं पश्य, गत्वेति शेषः । कौसल्यायाः रामस्य राजनिवेशगमनादिव्यापारानभिज्ञत्वात् राजदर्शननियोगादि ॥ २।२०।२४ ॥

दत्तमासनमित्यादिश्लोकद्वयमेकं वाक्यम् । राघवः भोजनेन निमन्त्रितः सन् दत्तमासनम् आलभ्य स्पृष्ट्वा, स्वभावविनीतः गौरवात् मातृत्वप्रयुक्तगौरवाच्च नतः सन्

दण्डकारण्यं प्रस्थितः गन्तुमुपक्रान्तो ऽहम् । आप्रष्टुं गमनमामन्त्रयितुम् । उपचक्रमे उद्योगमकार्षम्, इति मातरमब्रवीदिति सम्बन्धः ॥ २।२०।२५२७ ॥

गमिष्य इति । विष्टरासनं नामअविच्छिन्नाग्रपञ्चविंशतिदर्भनिर्मितासनमित्यर्थः ॥ २।२०।२८ ॥

चतुर्दशेति । आमिषशब्देन सूदैः संस्कृतं मांसभक्ष्यभोज्यादिकं लक्ष्यते, “इदं मेध्यमिदं स्वादु निष्टप्तमिदमग्रिना” इति उत्तरत्र केवलमांसस्वीकारस्य वक्ष्यमाणत्वात् ॥ २।२०।२९।३० ॥

स इति । आसेवमानः आचरन् वन्यानि वानप्रस्थयोग्यानि कर्माणि । वर्तयन् जीवनं कुर्वन् ॥ २।२०।३१ ॥

सेति । यष्टिः शोखेव पपात ॥ २।२०।३२,३३ ॥

उपावृत्त्येति । वाहितां पूर्वंभारं प्रापिताम् । उपावृत्त्य श्रमनिवृत्त्यर्थं भूवि वेष्टनं कृत्त्वा । उत्थितां बडवामिव स्थिताम् ॥ २।२०।३४ ॥

सेति । उपासीनं सेवमानम् ॥ २।२०।३५,३६ ॥

यदीति । यदि मम शोकाय न जायेथाः अतस्तर्हि अप्रजा अप्यहम् । भूयः बहुतरम् । एवंविधं दुःखं न पश्येयमिति सम्बन्धः ॥ २।२०।३६,३७ ॥

न दृष्टपूर्वमिति । पत्युः पौरुष्यम् अनुरागतो रञ्जनविशेषः, तस्मिन् सति यत् प्राप्यं कल्याणं प्रशस्तवस्त्राभरणादिजन्यसौभग्याधिक्यं तथा सुखं वा पतिसंभोगजन्यम् तत् मया न दृष्टपूर्वम् । अथापि पुत्रे ऽपि चोत्पन्ने पुत्रनिबन्धनं तदुभयं पतिकर्तृकं पश्येयमिति मया आस्थितमित्यर्थः ॥ २।२०।३८ ॥

सेति । साहं वरा ज्येष्ठा, अवराणां कनिष्ठानाम् ॥ २।२०।३९ ॥

अत इति । अतः सपत्नीवाक्यश्रवणात् यादृशः इयत्तया वक्तुमशक्यः । अनन्तकः अपारः ॥ २।२०।४०,४१ ॥

अत्यन्तेति । परिवारेण दासीजनेन समा वा, अथवा अवरा ततो ऽपि निकृष्टा वा स्याम् ॥ २।२०।४२ ॥

अपि च त्वयि प्रोषिते भरते च राजनि कैकेय्याः पुत्रमन्वीक्ष्य यो हीदानीं सेवते कश्चित् अथवाप्यनुवर्तते, मदिष्टस्सर्वोपि जनो नाभिभाषते जनो नाभिभाषते ॥ २।२०।४३ ॥

अपि च मद्विषये तस्याः नित्यक्रोधतया खरवादिनं परुषवचनशीलम् । लिङ्गव्यत्यय आर्षः ।(खरवादिनमिति पाठः) दुर्गता दुर्दशापन्ना ॥ २।२०।४४ ॥

तव जातस्य त्वयि जाते सति दश सप्त च वर्षणि दुःखपरिक्षयं प्रकांक्षन्त्या मया सुखमासितानि आस्थितानि । ननु “ऊनषोडशवर्षो मे रामो राजीवलोचनः” इति विश्वामित्रमुद्दिश्य दशरथेनोक्तत्वात् विवाहानन्तरम् “उषित्वा द्वादश समा इक्ष्वाकूणां निवेशने” इत्युपरि सीतया अनसूयां प्रति वक्ष्यमाणत्वाच्च रामस्य अष्टाविंशथिवर्षाणि वर्तन्ते, तत्कथं सप्तदशवर्षाणीत्युच्यत इति चेत् ? न अत्र जातस्येत्युक्तिः “गर्भैकादशेषु राजन्यम्” इत्युक्तोपनयनप्राप्तद्वितीयजन्मविवक्षया, न तु प्रथमजन्मतः । उपनयनकर्मणा द्विजानां द्वितीयजन्मत्वं याज्ञवल्क्येनोक्तम् “मातुर्यदग्रे जायन्ते द्वितीयं मौञ्जिबन्धनात् । अत्रास्य माता सावित्री पिता त्वाचार्य उच्यते ॥ ब्राह्मणक्षत्रियविशस्तस्मादेते द्विजातयः ॥ " इति । यद्वा तव जातस्य त्वयि जाते उपनयनान्तरं दश सप्त वर्षाणि दुःखपरिक्षयं प्रकाङ्क्षन्त्या मया आसितानि, उपनयनप्रभृति सुताः परिणमन्त इति मातृ़णां मनसो निर्वृतिर्भवति । उपनयनं तु ऽगर्भैकादशे राजन्यम्ऽ इति सूत्रव्याख्याने गर्भैकादशेष्विति बहुवचनेन गर्भनवमगर्भदशमगर्भैकादशानि गृहीतानि । राजवर्यस्य रघुनाथस्य तु गर्भनवमे शुद्धाष्टमे वर्षे उपनयनं कृतम्, अतः उपनयनानन्तरं सप्तदशवर्षाणि जातनि । अत्र विवाहात्पूर्वं द्वादश, विवाहानन्तरं द्वादश, पञ्चविंशे वनप्रवेश इति विवेकः । कुत एवं संख्यानिर्णय इति चेत्, रामस्य वनप्रवेशसमये पञ्चविंशतिवर्षत्वात् । तथाहिविश्वामित्रं प्रति दशरथेन ऽऊनषोडशवर्षो मे रामो राजीवलोचनःऽ इतुयक्तस्य ऊनषोडशवर्षत्वस्य द्वादशवर्षे पर्यवसानात् । कुतः? “बालो द्वादशवर्षोयमकृताखश्च राघवः” इति तदनुरूपेण रावणं प्रति मारीचेनोक्तत्वात् । पाणिग्रहणसमये रामो द्वादशवार्षिकः, सीतयापि रावणसंन्यासिनं प्रति “उषित्वा द्वादशसमा इक्ष्वाकूणां निवेशने” इत्युक्तत्वात् " तत्र त्रयोदशे वर्षे राजामन्त्रयत प्रभुः " इति तथैवोक्तत्वाच्च वनवासारम्भमभिप्रेत्य " मम भर्ता महातेजा वयसा पञ्चविंशकः” इत्युक्तत्वाच्च रामस्य वनप्रवेशः पञ्चविंशः इति सिद्धम् ॥

२।२०।४५ ॥

तदक्षयमिति । एवं जीर्णापि सापत्न्यकथायोग्यवयोबलक्षयं प्राप्तापि । अक्षयं निरवधिकम् । दुःखं सपत्नीनां विप्रकारं निराकरणं च सहितुं सोढुम् चिरं नोत्सहे ॥ २।२०।४६ ॥

अपश्यन्तीति । कृपणजीविकां कृपणजीवनम् ॥ २।२०।४७ ॥

उपवासैरिति । दुःखं यथा तथा मोघं व्यर्थं संवर्द्धतोसि, यदि विप्रवत्स्यसीति शेषः । दुर्गतया भाग्यशून्यया ॥ २।२०।४८ ॥

स्थिरं त्विति । यद्यस्मात् न दीर्यते त्वद्विप्रयोगश्रवणेपीति शेषः ॥ २।२०।४९,५० ॥

स्थिरं हीति । यस्मात्कारणात् मम हृदयं देहं च अनेन दुःखेन अर्पितं व्याप्तमपि न भिद्यते न द्विधा भवति नावदीर्यते न शकलीभवति तस्मात् आयसम् अयसा निर्मितम् । अतः अकाले ईश्वरनिर्मिताद्व्यतिरिक्तकाले । न विद्यते न लभ्यते ॥ २।२०।५१ ॥

इदं त्विति । व्रतादीनि अनर्थकानि जातानीति यत् तदिदं महद्दुःखम् । अनर्थत्वे दृष्टान्तःऊषरे उप्तम् अत एव सुनिष्फलं बीजमिव ॥ २।२०।५२ ॥

यदि हीति । कश्चिदपि गुरुदुःखकर्शितः अकाले स्वेच्छया मरणं यदि लभेत तर्ह्यहं त्वया विना परेतसंसदं यमसभाम् अद्यैव गता स्याम्, तत्तु न लभ्यत इति शेषः ॥ २।२०।५३ ॥

अथापीति । अथापि मरणासम्भवेपि त्वया विना मे किञ्जीवितं कुत्सितजीवितम् वृथा अभिकाङ्क्षया वात्सल्येन वत्समनु गौरिव त्वया सह वनं व्रजिष्यामि ॥ २।२०।५४ ॥

भृशमिति । असुखं दुःखम् । अमिर्षिता असहमाना । राघवं समीक्ष्य विललाप, अपि च भावि महव्द्यसनं च रामवियोगमूलं सपत्न्यादिसम्पाद्यम् उपनिशाम्य पर्यालोच्य च सत्यपाशबद्धं सुतं राममवेक्ष्य यथोक्तनिमित्तवती किन्नरीव विललापेत्यर्थः ॥ २।२०।५५ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायाम् अयोध्याकाण्डव्याख्यायां विंशस्सर्गः ॥ २।२० ॥