तदप्रियमिति । मरणोपमं लोकदृष्टया ॥ २।१९।१ ॥
एवमस्त्विति । एवमस्तु भरताभिषेको ऽस्तु, अहं गमिष्यामि ॥ २।१९।२।३ ॥
मन्युरिति । ब्रूमि ब्रवीमि ॥ २।१९।४ ॥
हितेनेति । कृतज्ञेन स्वकृतवपरप्रदानाभिज्ञेन । विस्रब्धः निर्विशङ्कः ॥ २।१९।५ ॥
अलीकमिति । राजा मां स्वयमेव भरतस्याभिषेचनं नाहेति यत् इदमेकम् अलीकं दुःखम् मानसं मनसि वर्तमानं सत् ने हृदयं दहतीवेति सम्बन्धः ॥ २।१९।६ ॥
कथं सङ्कोचेन विनायमर्थो राज्ञा वक्तुं शक्यत इत्यत्राहअहं हीति । अप्रचोदिति इति भरत स्नेहेन त्वत्स्रेहेन वा प्रतिज्ञामनुपालयन्निति । हेतौ शतृप्रत्ययः । प्रतिज्ञापालनाद्धेतोश्च ॥ २।१९।७।८ ॥
तदिति । मद्विषयकनियोगसङ्कोचेन जगतीपतिः भन्दमश्रूणि मुञ्चतीति यत् इदं किन्नु किं कारणम् ? निर्हेतुकमित्यर्थः । तत् तस्मात् इदं दशरथमाश्वासयेति योजना ॥ २।१९।९।१० ॥
अनर्वृत्ते स्वकार्ये कथमाश्वास यामीत्यत आहदण्डकेति । पितुर्वाक्यमविचार्य युक्तायुक्तविचारमकृत्वैवेत्यर्थः ॥ २।१९।१११३ ॥
तवेति । उत्सुकस्य गमनोत्सुकस्य । विलम्बनं तव गमनविलम्बम् । क्षमं युक्तम् न मन्ये ॥ २।१९।१४ ॥
कुत इत्यत आहव्रीडान्वित इति । यतो ऽयं स्वसत्यस्य पारप्राप्त्यदर्शनव्रीडान्वितः । यच्च किञ्चिदपि त्वां प्रति नाभिभाषते एतत् अनभिभाषाणनुद्दिश्य नान्यत्किञ्चित्कारणं त्वया चिन्त्यम् यत एवमतो हे नरश्रेष्ठ मन्युः दैन्यम्, त्वदविलम्बगमनेनापनीयतामित्यर्थः ॥ २।१९।१९ ॥
इतश्च विलम्बो न युक्त इत्याहयावदिति ॥ २।१९।१६ ॥
शोकपरिप्लुतः शोकेन व्याप्तः ॥ २।१९।१७ ॥
राम इति । कृतत्वरः, बभूवेति शेषः ॥ २।१९।१८ ॥
तदिति दारुणोदयम् दारुणोत्तरम् ॥ २।१९।१९ ॥
नाहमिति । अहम् अर्थपरः धनपरः धनपरः न किन्तु लोकमावस्तुं जनं संग्रहीतुम् नोत्सह इति वा, किन्तु केवलं धर्ममेवास्थितं विद्दि ॥ २।१९।२० ॥
यदत्रेति । अत्रभवतः पूज्यस्य पितुः अन्यदपि यत्किञ्चित् मया प्राणानपि परत्यज्य कर्तुं शक्यमस्ति, तत् कृतमेवेति विद्धीत्यर्थः ॥ २।१९।२१ ॥
निश्चयहेतुमाहनहीति । शुश्रूषा पादसंवाहनादिलक्षणा । वचनक्रिया वचनकरणम् ॥ २।१९।२२ ॥
अनुक्त इति । अत्रभवता पूज्येन पित्रा साक्षादनुक्तोपि ऽअप्रतिषिद्धमनुमतम्ऽइति न्यायेन भवत्या वचनादेव केवलमहं वने वत्स्यामि ॥ २।१९।२३ ॥
न नूनमिति । यत् ममेश्वरतरा सती त्वद्वचनकारिणं मां भरतो ऽभिषेक्तव्य इति नियुज्य राजानम् अवोचः अयाचिष्ठाः, अतो मयि गुणम् आर्जवलक्षण् किञ्चिदपि नाशंससे, न विचारयसीत्यर्थः ॥ २।१९।२४ ॥
यावदिति । यावन्मातरमापृच्छे सीतां चानुनयामि तावदमुज्ञां कुर्विति शेषः । तावत्पर्यन्तं विलम्ब इति वा । ततो ऽनन्तरम् अद्यैव दिने दण्डकानां वनं दण्डका नाम जनपदाः शुक्रशापेन वनमभूत् ॥ २।१९।२५।२६ ॥
स इति । बाष्पमशकुवन् निरोद्धुमिति शेषः ॥ २।१९।२७ ॥
वन्दित्वेति । निष्पपात निश्चक्राम ॥ २।१९।२८३० ॥
आभिषेचनिकमिति । अभिषेचनप्रयोजनम् । भाण्डम् उपकरणम् । आभिषेचनिकभाण्डप्रदक्षिणं “प्रशस्तमाङ्गल्यदेवतायतनचतुष्पथादीन् प्रदक्षिणमावर्तयेत् " इत्यादिधर्मशास्त्रोल्लङ्घनभयात् न तु तदासक्त्या । सापेक्षः अपगता ईक्षा अपेक्षा, अपेक्षया सहितः सापेक्षः, निरपेक्ष इत्यर्थः । अत एव तत्र आभिषेचनिकभाण्डे दृष्टिमविचालयन् अप्रवर्तयन् जगामेति सम्बन्धः । यद्वा सापेक्षः अपेक्षा अधोवीक्षणं तद्युक्तः सापेक्षः । यद्वा सापेक्षः वनं प्रतीति शेषः । स्पष्टमन्यत् ॥ २।१९।३१ ॥
न चेति । लक्ष्मीं मुखप्रसादम् । कान्तत्वात् अविनाशिकान्तियुक्तत्वात् ॥ २।१९।३२ ॥
न वनमिति । सर्वलोकातिगस्येव तुल्यप्रियाप्रियस्य योगिन इव ॥ २।१९।३३ ॥
प्रतिषिद्धयेति । व्यजने वालव्यजने ॥ २।१९।३४ ॥
धारयन् मनसा दुःखमिति । स्वजनशोकस्मरणजनितमित्यर्थः । न तु तस्य स्वकीयं किञ्चिद्दुःखमस्ति । तदेवाह आत्मवानिति । साक्षात्कृतनित्यनिरतिशयानन्दात्मा । अप्रियशंसिवान् अप्रियमभिधातुकामः ॥ २।१९।३५ ॥
सर्वो हीति । अभिजनः अभितो वर्तमानजनः । आकारं विकारम् । नालश्रयत नापश्यत् ॥ २।१९।३६ ॥
उचितमिति । उचितं स्वाभाविकम् ॥ २।१९।३७३९ ॥
प्रविश्येति । अर्थविपत्तिम्अभिषेकविघातम् । आत्मविपत्तिशङ्कया प्राणनाशशङ्कयापि ॥ २।१९।४० ॥
इति श्रीमबेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां एकोनविंशः सर्गः ॥ २।१९ ॥