०१८ रामेण दशरथसान्त्वनम्

स इति । आसने पर्यङ्के, मुखेनोपलक्षितम् ॥ २।१८।१ ॥

स इति । विनीतवत् विनीतः सन् ॥ २।१८।२ ॥

रामेति । न शशाक । रामेत्यक्षरद्वयोच्चारणाभ्यधिकमिति शेषः ॥ २।१८।३ ॥

तदिति । अपूर्वम् अदृष्टपूर्वम् । रामोपीत्यपिशब्देन दुःखसहस्रसम्भवेपि अक्षुभितो रामो दशरथविषादस्य स्वहेतुकत्वमाशङ्कय भयमापन्न इत्यवगम्यते ॥ २।१८।४ ॥

इन्द्रियैरिति । इन्द्रियैरित्यादिश्लोकद्वये द़ष्ट्वा भयमापन्न इत्येतदनुकृष्य सम्बध्यते । अप्रहृष्टैः खित्रैः, व्यथितं खिन्नम्, आकुलं सम्भ्रान्तं चेतो यस्य तम् । स्वतेजोविशेषात् अक्षोभ्यमपि क्षुभ्यन्तम् । उपप्लुतं केतुग्रस्तम् ॥ २।१८।५।६ ॥

अचिन्त्येति । पितुः तं शोकम् अचिन्त्य कल्पम् अत्यन्तासंभाव्यम् अवधारयन् चिन्तयन् आत्मीयत्वेन स्वीकुर्वन्निति वा । संरब्धतरः संक्षुभितः बभूव ॥ २।१८।७ ॥

किं स्विदिति । किंस्वित् किमेतत् । अद्यैवेत्येवकारेण व्यवच्छेद्यमुच्यते ॥ २।१८।८ ॥

अन्यदेति । अन्यदा पूर्वकाले, परोक्षे मां प्रति कुपितोपि दृष्ट्वा प्रसीदति, तस्य किमायासः प्रवर्तते किमेतदिति सः रामः शोकार्तस्स्न् वचनमब्रवीदिति सम्बन्धः ॥ २।१८।९।१० ॥

कच्चिदिति । नापराद्धम् अपराधो न कृतः । अज्ञानात् प्रमादात् ॥ २।१८।११।१२ ॥

शरीर इति । शरीरस्सन्तापो व्याधिः, मानसो ऽभिताप आधिः एवं न बाधते कच्चित् कुतः प्राणिनां सुखम्, सदा दुर्लभं हीत्यर्थः ॥ २।१८।१३ ॥

कच्चिदिति । मातृणां वा विषय इति शेषः । अशुभं न कच्चित् ॥ २।१८।१४ ॥

अतोषयन्निति । नृपे कुपिते सति किमु वक्तव्यमित्यर्थः ॥ २।१८।१५ ॥

यत इति । यो नरः । इहात्मनः प्रादुर्भावं शरीरस्य परिग्रहम् । यतोमूलं यन्मूलं यत्कारणकं पश्येत् जानीयात् । अलुगार्षः । सो ऽसौ विवेकी, उक्तहेतोरेव प्रत्यक्षे दैवते सिद्धे सति,तस्मिन् पितरि पित्रानुकूल्ये, न कथं वर्तते वर्तेतैवेत्यर्थः ॥ २।१८।१६ ॥

कच्चिदिति । ते तव कोपेन अभिमानात् गर्वेण वा मम पिता परुषम् उक्तः कच्चित्, यत्र येन मनो लुलितं कलुषितम् ॥ २।१८।१७।१८ ॥

एवमिति । सुनिर्लज्जा पत्युरेवं क्लेशकरणं कथं वक्ष्यमीति लज्जारहिता । धृष्टम् प्रत्यक्षतो वनं गच्छेत्येवंवचनकधाष्टर्योपितं यथा तथा । आत्महितम् स्वपुत्राभिषेक विषयं मनोगतं वचः उवाच ॥ २।१८।१९।२० ॥

प्रियमिति । आश्रुतं प्रतिश्रुतम् ॥ २।१८।२१ ॥

किं तत्राहएष इति ॥ २।१८।२२ ॥

अतिसृज्येति । प्रतिश्रुत्य, जले गते सेतुं बन्धितुमिच्छति । दानस्य पूर्वमेव वृत्तत्वात् तत्प्रयुक्तव्यवहारचिन्ता व्यर्थेत्यर्थः ॥ २।१८।२३ ॥

धर्ममूलमिति । इदं सत्यम् । धर्मस्य मूलमिति सतामपि विदितम्, अतः तत्सत्यं सत्यवचनम् । त्वत्कृते त्वन्निमित्तम् । त्वत्प्रयोजनान्तरायवशात् मयि कुपितो राजा कोपदोषेण यथा न त्यजेत् तथा कुर्वित शेषः ॥ २।१८।२४ ॥

दशरथ मिव राममपि प्रतिज्ञावाक्यं वाचयितुमुपक्रमतेयदीत्यादिना । राजा यद्वक्ष्यते तत्करिष्यसि यदि, ततः तर्हि राज्ञो विवक्षितमहमेवाख्यास्यामीत्यर्थः ॥ २।१८।२५ ॥

यदीति । राज्ञा राजातुमत्या, मया यदभिहितं तत् त्वयि न विपत्स्यते न व्यर्थं भविष्यति यदि ततो ऽहमेवाभिधास्यामि । वदतु राजैवेत्यय आह नहीति । त्वदप्रियत्वात्, त्वन्मुखमवलोक्येति शेषः ॥

२।१८।२६ ॥

एतदिति । व्यथितः गुरुवचनोल्लङ्घनमनया मयि शङ्कितमित सन्तप्त ॥ २।१८।२७ ॥

अहो इति । ईदृशम् यदि करिष्यसीत्यकरणशङ्कावचनमित्यर्थः ॥ २।१८।२८ ॥

नियुक्त इति । गुरुणा इहामुत्र हितोपदेष्ट्रा ॥ २।१८।२९ ॥

तद्ब्रूहीति । प्रतिजाने च प्रतिज्ञां करोमि । तदेव स्थिरीक्रियते रामो द्विर्नाभिभाषत इति । प्रथमं यद्वाक्यं वदति तत्परिहारवचनं न कथयतीत्यर्थः ॥ २।१८।३०।३१ ॥

पुरेति । सशल्येन पश्चाच्छल्यापाकरणपूर्वकं मया रक्षितेन ॥ २।१८।३२ ॥

तत्रेति । तत्रद्वयोर्वरयोर्मध्ये, एकेन भरतस्याभिषेचनम् अन्येन तव दण्डकारण्यगमनम् ॥ २।१८।३३ ॥

यदीति । आत्मानं चेति त्वया मदुक्त कृतेः सशापथं प्रतिज्ञातत्वादित्याशयः ॥ २।१८।३४ ॥

सन्निदेशे नियोगसम्पादने ॥ २।१८।३५ ॥

अभिषेचनम् अभिषेकोपकरणम् ॥ २।१८।३६३८ ॥

एतेनेति । एतेन वरद्वयप्रादाननिमित्तेन ॥ २।१८।३९।४० ॥

इतीति । शोकं मुखवैवर्ण्यादिबाह्याविकारम् । न प्रवव्यथे च मानसव्यथा च न प्राप्तवान्, राजा तु पुत्रव्यसनं भाविवियोगव्यसनम् ॥ २।१८।४१ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां अष्टदशः सर्गः ॥ २।१८ ॥