०१७ रामागमनम्

स राम इति । पताकाध्वजसम्पन्नम् पताकाभिः नामाङ्किताभिः, ध्वजैः गरुडादिचिह्नितैः ॥ २।१७।१ ॥

स गृहैरिति । मध्येन उभयश्रेणीमध्यदेशेन ॥ २।१७।२ ॥

कीदृशं राजमार्गमत आहचन्दनानामिति । क्षौमकौशाम्बरस्य च क्षौमं दुकूलम्, कौशाम्बरं कौशेयम् ॥ २।१७।३ ॥

अविद्धाभिः प्रथमोक्तराजपथमित्यस्य ददर्शेत्यनेन सम्बन्धः । द्वितीयोक्तराजपथमित्यस्य उत्तरोक्तेन ययावित्यनेन सम्बन्धः । शोभमानमिति । असम्बाधैः विविच्य स्थापितैः ॥ २।१७।४ ॥

पण्यैः क्रयद्रव्यैः ॥ २।१७।५ ॥

दधीति । अर्चितचत्वरं पूजिताङ्गणम् । यथार्हं वा यथार्हमेव रक्षणोक्तिभ्रूविक्षेपणवचनाञ्जलिभिर्यथोचितमित्यर्थः ॥ २।१७।६,७ ॥

पितामहैरिति । आचरितम् अनुष्ठितम्, अभिषिक्तोनुपालयेति वृद्धानां वचनम् ॥ २।१७।८ ॥

यथेति । रामे राजनि सति ततोपि सुखतरं वत्स्यामः ॥ २।१७।९ ॥

अलमिति । रामं राज्ये प्रतिष्ठितम् अभिषिक्तम् । राजमार्गे निर्यान्तम् अद्य पश्याम यथा साक्षात्कुर्मो यदि एतत्सुखलाभो यदि तदा भुक्तेन ऐहिकविषयेण तज्जन्यसुखेन च तथा परमार्थैः परमैः श्रेष्ठैः अर्थैः स्वर्गादिभिः तज्जन्यसुखैश्च नः अस्माकम् अलं मास्तु ॥ २।१७।१० ॥

कथमेवमित्यत आहतत इति । अमिततेजसः रामस्य, राज्यप्राप्तिहेतुना । अभिषेको यथा अभिषेक इति यत् ततः अभिषेकजन्यभूमानन्दब्रह्मसाक्षात्कारजन्यसुखात् । प्रियतरं प्रेमातिशयास्पदम् अन्यत् किञ्चित् न भविष्यति ॥ २।१७।११ ॥

एता इति । उदासीनः अनुत्सुकः । आत्मसंपूजनीः मनोहर्षजननीः ॥ २।१७।१२ ॥

न हीति । राघवे अतिक्रान्तेपि दृष्टिपथमतीतेपि सकलजनमनोनयनसंमोहनाकारानुभवजनितेन वासनाबलेन पुरतः परिदृश्यमान इव स्थितात् तस्मान्नरोत्तमात् मनश्चक्षुषी वा अपाक्रष्टुं निवर्तयितुम् कश्चिदपि नरः पुमान्न शक्नोति, नरा अप्येवं नार्यः किमुतेति भावः ॥ २।१७।१३ ॥

यश्चेति । स्वात्माप्येनं विगर्हतेरामेण सकृदप्यदृष्टं तस्य सान्निध्यासान्निध्यायाः चक्षुर्मनोभ्यामपश्यन्तं च लोका एव न केवलं विगर्हन्ते अपितु स्वात्मापि, स्वयमपि दुर्भाग्यं मां धिगिति विगर्हत इत्यर्थः । अथवा यश्च रामं स्वदेशस्थं न पश्येत् यं च स्वदेशस्थम् अत एव रामोपि न पश्यति, सोसावपरोक्षरामब्रह्मानुभवादृष्टहीन इहामुत्र च लोके सर्वैर्निन्दितो वसेत्, अप्रयासतो भगवदपरोक्षकृतिमात्रेण मुक्तिसम्पादनादृष्टाभावान्नास्य कदापि संसरोत्तार इत्यर्थः । अत एवास्यात्मा अन्तर्यामी भगवानपि एनं विगर्हते, विगर्हते, पापिष्ठो ऽयं मुक्तिमपि साक्षात्कृत्य न जन्मोद्धृतवानिति वार्थः ॥ २।१७।१४ ॥

सर्वेषामिति । हि यस्मात् स रामः चतुर्णां वर्णानां सर्वेषां जनानां च । वयःस्थानामिति द्वितीयान्तमेतत् । वयः स्थानं प्रमाणं यस्यास्ताम् वयो ऽनुरूपां दयां कुरुते । अथवा वयःस्थानां बाल्यादिवयस्स्थानाम् अज्ञानामपि दयां मुक्तिपर्यन्तामनुग्रहं कुरुत इति वार्थः । तेन कारणेन सर्वे तं हि तमेव अनुव्रताः अनुसृताः ॥ २।१७।१५ ॥

चतुष्पथानिति । चैत्यानि चैत्यवृक्षस्थानानि । आयतनानि सभादीनि च । प्रदक्षिणं यथा तथा परिहरन् अतिक्रामन् ॥ २।१७।१६ ॥

स इति । राजकुलं राजगृहम् प्रासादशृङ्गैः प्रासादस्थशिखरैः आवारयद्भिः आक्रमद्भिः, वर्द्धमानगृहैः अत्युन्नतनिर्माणायारब्धगृहैः । रत्नजालपरिष्कृतैः नवरत्नसमूहालङ्कृतैः, एतैः परिवृत्तं

पितुर्वेश्म राजपुत्रः श्रीरामः प्रविवेश ॥ २।१७।१७१९ ॥

स इति । वाजिभिः रथयुक्तवाजिभिरित्यर्थः ॥ २।१७।२०२२ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायाम् अयोध्याकाण्डव्याख्यायां सप्तदशः सर्गः ॥ २।१७ ॥