स इति । प्रविविक्ताम् असम्बाधाम् ॥ २।१६।१ ॥
प्रासकार्मुकबिभ्रद्भिरिति । प्रासकार्मुकेत्यत्र ऽसुपां सुलुक्ऽ इति द्वितीयाया लुक् । यद्वा प्रासकार्मुकं बिभ्रतीति प्रास कार्मुकबिभ्रतः तैः । द्विर्वचनर्माषम् ॥ २।१६।२ ॥
तत्रेति । काषायिणः काषायवस्त्रधारिणः ॥ २।१६।३।४ ॥
तानिति । प्रदक्षिणः सेवानिपुणः । क्षिप्रमिति द्वारि तिष्ठतीत्याख्यातवदतेत्यन्वयः ॥ २।१६।५,६ ॥
प्रतीति । प्रतिवेदितं द्वास्स्थैर्विज्ञापितं सूतं पितुरभ्यन्तरमाप्तम् आज्ञाय ज्ञात्वा । तत्रैव सीतया सहावस्थानस्थल एव ॥ २।१६।७,८ ॥
वराहेति । परार्ध्येन श्रेष्ठेन । भूय इत्यस्य विराजमानमिति शेषः । ददर्शेति पूर्वेण सम्बन्धः । स्थितयेत्यत्र भूयःशब्दप्रयोक्तुरयमभिप्रायः यः केवल एव सकललोकहृदयानि हरति सः सीतया सहितः किंपुनरिति ॥ २।१६।९,१० ॥
तमिति । विनीतवत् विनीतः सन् ॥ २।१६।११ ॥
प्राञ्जलिरिति । विहारशयनासन इत्येकवद्भावः । राज्ञ एकान्तविहारशयनासनेषु राजसत्कृतः सुमन्त्रः राज्ञ एकान्तविहारादिष्वपि समीपवर्तीत्यर्थः ॥ २।१६।१२ ॥
कौसल्येति । कौसल्या सुप्रजाः सुपुत्रेण त्वयेति शेषः ॥ २।१६।१३,१४ ॥
देवीति । हे देवि देवश्च देवी च मातापितरौ । मदन्तरे मदर्थे । अभिषेचनसंहितम् अभषेकोपयुक्तम् । किञ्चित् किञ्चिद्विचारोपेतम् । ध्रुवं मन्त्रयेते विचारं कुर्वाते ॥ २।१६।१५ ॥
अत्र महिष्या सहेत्युक्तया उन्नेयार्थमुन्नयतिलक्षयित्वेत्यादिश्लोकद्धयमेकं वाक्यम् । केकयाधिपतेः सुता स्वस्य हिताय राजसौमुख्यादिप्रयोजनाय । कामम् अत्यन्तं राजानमनुवर्तत इति हितकामानुवर्तिनी जननी मे अर्थकामा मदर्थवृद्धुयपेक्षिणी सा कैकेयी वृद्धेन मया अविलम्बेन रामाभिषेकः कार्य इति राज्ञो ऽभिप्रायम् । लक्षयित्वा आलोच्य सुदक्षिणा समर्था अत एव राज्ञः प्रियकामा हृष्टा सती मदर्थं मदभिषेकं प्रति रञ्जयतीति राजा तं महाराजं चोदयतीति मन्य इत्यन्वयः ॥ २।१६।१६,१७ ॥
कुत एवमित्यत आहदिष्ट्येति । मम अर्थकामं करोतीति तथा सुमन्त्रं प्राहिणोत् ॥ २।१६।१८ ॥
यादृशीति । तत्र अन्तःपुरे । यादृशी मदर्थैकप्रयोजना परिषत्, तादृशः मदर्थैकप्रोजनः ॥ २।१६।१९ ॥
हन्तेति । हन्तेति हर्षे । परिवारेण सखीसङ्घेन सह सुखम् अन्वतिष्ठ रमस्व ॥ २।१६।२० ॥
पतीति । अभिदध्युषी अभिध्यायन्ती ॥ २।१६।२१ ॥
राज्यमिति । इदानीं राज्यं राज्यसिद्धिं प्रति द्विजादिभिर्जुष्टं प्रयुक्तम् अभिषेचनं यौवराज्याभिषेचनं कर्तुम् अर्हति कालान्तरे राजसूयार्हमहाराजाभिषेचनमपि करोतु, लोककृत् ब्रह्मा । ततो राजसूययागे दीक्षितत्वादधर्मकं त्वां भजामि भजिष्ये ॥ २।१६।२२२४ ॥
अथेति । कृतकौतुकमङ्गलः अनुष्ठिताभिषेकार्थमङ्गलः ॥ २।१६।२५,२६ ॥
अर्थिनः अभिषेकार्थिनः ॥ २।१६।२७ ॥
तत इति । वैयाघ्रं व्याघ्रचर्मयुक्तम् ॥ २।१६।२८ ॥
मेघनादमिति । असम्बाधं विपुलम् ॥ २।१६।२९ ॥
करेणुशिशुकल्पैः कलभनिभैः ॥ २।१६।३० ॥
स पर्जन्य इति । आकाशे स्वनवान् नादवान् पर्जन्य इव नादयन्, रथस्वनेन विशो नादयन्नित्यर्थः ॥ २।१६।३१,३२ ॥
तत इति । हलहलेत्यनुकरणम् । तस्येति सप्तम्यर्थे षष्टी । तस्मिन्निष्क्रमणकाले ॥ २।१६।३३,३४ ॥
अग्रत इति । आशंसवः भद्रमिति शेषः ॥ २।१६।३५,३६ ॥
हर्म्येति । वातायनं गवाक्षः ॥ २।१६।३७ ॥
राममिति । रामपिप्रीषया रामप्रीणनेच्छया । ववन्दिरे अस्तुवन् ॥ २।१६।३८ ॥
स्तुतिप्रकारमेवाहनूनमिति । नन्दतीत्यत्रेतिकरणं द्रष्टव्यम् । उपस्थितं प्राप्तवन्तम् । सिद्धयात्रं सफलगमनम् ॥ २।१६।३९ ॥
सर्वेति । हि यस्मात् ता नार्यः सीतां सर्वसीमन्तिनीभ्यो वराममन्यन्त, तस्मात्प्रमदाभिरुदाहृता तया सुचरितमित्यादिवाचः सुश्रावेति सम्बन्धः ॥ २।१६।४०४२ ॥
स इति । आत्माधिकाराः आत्मानमाधिकृत्य प्रवृत्ताः ॥ २।१६।४३ ॥
एष इति । राघवः विपुलां श्रियं गमिष्यन् गच्छतीति योजना । सर्वसमूद्धकामः समृद्धसर्वकामः ॥ २।१६।४३ ॥
लाभ इति । एष सर्वं राष्ट्रं प्रपत्स्यत इति यत् अयमेव लाभः, अस्मिन् रामे मनुजाधिपे । कश्चन यः कश्चिदपि, किञ्चिन स्वल्पमपि अप्रियं प्रियाभावम्, दुःखमनिष्टप्राप्तिं च जातु कदाचिदपि । न पश्येत् न प्राप्तुयात् ॥ २।१६।४४,४५ ॥
स घोषवद्भिरिति । स्वस्तिकाः जयजयेतिवादिनो वन्दिन इत्यर्थः । सूताः क्षत्रियाज्जाताः, क्षत्रियायां वैश्याज्जाताः मागधाः । एते राज्ञः प्रतिबोधनकर्मणि युक्ताः ॥ २।१६।४६,४७ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायाम् अयोध्याकाण्डव्याख्यायां षोडशः सर्गः ॥ २।१६ ॥