०१५ सुमन्त्रस्य रामगृहगमनम्

राजाज्ञया राजद्वारे मिलितानां राज्ञां परस्परसम्भाषणमाहते त्वित्यारभ्य अपश्यन्तो ऽब्रुवन् को नु राज्ञो नः प्रतिबोध येदित्यन्तेन ग्रन्थसन्दर्भेण । तां रजनीं रामाभिषेकोद्युक्तरजनीम् । उष्य उषित्वा । द्वारे पौराः सङ्गताः ॥ २।१५।१,२ ॥

उदित इति । अहनि पुष्ये पुष्यनक्षत्रे अभ्यागते सति रामस्य जन्मप्राप्ते स्थिते कर्कटके लग्ने च अहन्यभ्यागते सति रामस्याभिषेकाय द्विजेन्द्रैः उपकल्पितम्, उपकरणजातमिति शेषः ॥ २।१५।३,४ ॥

याश्चेति ताभ्यः जलमाहृतमिति सम्बन्धः ॥ २।१५।५ ॥

प्राग्वाहा इति । पर्वतघट्टादिना ऊर्ध्ववाहाः तिर्यग्वाहाः ॥ २।१५।६ ॥

सलाजा इति । क्षीरिभिः क्षीरयुक्तैः, पल्लवैरिति शेषः ॥ २।१५।७,८ ॥

चन्द्रेति । चन्द्रशुविकचप्रख्यं चन्द्रांशुवद्विकचा प्रख्या यस्य तथोक्तम् । सज्जमुद्युक्तम्, गन्धपुष्पादिभिरलङ्कृतमित्यर्थः ॥ २।१५।९ ॥

चन्द्रमण्डलेति । अभिषेकपुरस्कृतं प्रक्षालितम् ॥ २।१५।१० ॥

पाण्डर इति । प्रसृतः प्रकर्षेण स्रवन्मदः, औपवाह्यः राजवाह्यः ॥ “राजवाह्यस्त्वौपवाह्यः " इत्यमरः ॥ २।१५।११ ॥

अष्टौ चेति । वादित्राणि वीणादि चतुर्विधवाद्यानि ॥ २।१५।१२ ॥

इक्ष्वाकूणामिति । इक्ष्वाकूणां राज्ये अभिषेचनमुद्दिश्य यथा संभ्रियेत, वस्तुजातमिति शेषः । तथा जातीयं तादृशमनर्घरत्नादिवस्तुजातम् आदाय ते महीपतयः, राजवचनाद्राजपुत्राभिषेचनमुद्दिश्य, तत्र राजद्वारि समवेताः महीपतिमपश्यन्तः नः राज्ञः को नु प्रतिवेदयेदिति सम्बन्धः ॥ २।१५।१३,१४ ॥

नेति । सज्जः सम्पन्नसाधनः ॥ २।१५।१५,१६ ॥

राममिति । रामं प्रस्थितः, आनेतुमिति शेषः । राज्ञो नियोगेन राममानेतुं यद्यपि प्रस्थितः तथापि भवन्तोपि राज्ञो रामस्य च पूज्या इति कृत्वा भूयो राज्ञः समीपं गत्वा आयुष्मतां युष्माकं वचनात् संप्रतिबुद्धस्यापि राज्ञः आगमनस्यापि कारणं सुखं पृच्छामि ॥ २।१५।१७,१८ ॥

इतीति । पुराणवित् चिरकालकथाभिज्ञः । सदासक्तं सततमनिवारितम् । अथवा असक्तम् अनिरोधम् ॥ २।१५।१९ ॥

तुष्टावेति । शयनीयं शयनगृहम् । आसाद्य व्यतिष्ठत ॥ २।१५।२० ॥

स इति । अत्यासाद्य अतिशयेन समीपं प्राप्य । तिरस्करणीमन्तरा यनिकामात्रं व्यवधानं कृत्वा । राघवं दशरथं तुष्टाव ॥ २।१५।२१,२२ ॥

कृतकृत्यमिदं तवेति । अनुष्ठेयमनुष्ठितं रामाभिषेकसम्भरणं सम्पन्नमित्यर्थः ॥ २।१५।२३ ॥

निगमो वाणिज्यं तत्सम्बन्धिनो नैगमाः ॥ २।१५।२४ ॥

स्तुवन्तमिति । प्रतिबुद्ध्य ज्ञात्वा । इदमब्रवीत् ॥ २।१५।२५ ॥

तदेवाहराममिति । हे सूत राममानयेति अनयाभिहितो ऽसि यत् ऽअप्रतिषिद्धमनुमतम्ऽ इति न्यायेन तस्यैव मदाज्ञात्वात् सेयं ममाज्ञा प्रति हन्यते नानुष्ठीयत इतीदं किंकारणं किंकारणकमित्यर्थः ॥ २।१५।२६ ॥

न च निद्रापरवशस्य राज्ञ इदमनुमतं वा नवेति संशयितव्यं त्वयेत्याहन चैवेति । तत्र कैकेयीनिमित्तकार्ये । अन्वशात् अनुशास्ति स्म ॥ २।१५।२७,२८ ॥

प्रपन्न इति । हृष्टो रोमाञ्चितगात्रः । मुदितः सञ्जातमानसानन्दः, राजमार्गं विलोकयन्निति

सम्बन्धः ॥ २।१५।२९ ॥

स इति । रामाधिकरणाः राममधिकृत्य प्रवृत्ताः, अभिषेचनसंयुक्ताः अभिषेचनप्रसङ्गयुक्ताः, हृष्टवत् हृष्टो ऽभूत् ॥ २।१५।३०,३१ ॥

महाकवाटेति । महाकवाटविहितं महाकवाटयुक्तम् । वितर्दिशतशोभितं वेदिकाशतशोभितम् । काञ्चनप्रतिमैकाग्रम् । काञ्चन्यः प्रतिमा यस्मिन् तत् काञ्चनप्रतिमम्, एकं मुख्यं अग्रं यस्य तत्तथोक्तम् । मणिविद्रुमतोरणं मणिविद्रुमप्रचुरबहिर्द्वारयुक्तम् । शारदाभ्रघनप्रख्यं शारदाभ्राणामिव घनाः सान्द्राः प्रख्याः प्रभाः यस्मिन् तत्तथोक्तम् । मणिभिर्वरमाल्यानामिति । वरमाल्यानां स्वर्णपुष्पमाल्यानाम् अलङ्कारवर्तिभिः महद्भिः महादिप्तिमद्भिर्मणिभिरलङ्कृतम् । दर्दुरः मलयसन्निकृष्टचन्दनगिरिः । सुकृतेहामृगाकीर्णं सुष्ठुकृतैः ईहामृगैः आकीर्णम् । भक्तिभिः वर्द्धकीनां सूक्ष्मचित्रशिल्पैः सूत्कीर्णं सुष्ठु उत् निबिडं कीर्णं व्याप्तम् । तिग्मतेजसा अतिशयितशोभया आददत् आकर्षत् । उपस्थितैः समीपवर्तिभिः । अञ्जलिकारिभिः नमस्कुर्वद्भिः । उपायनानि गृहीत्वा समाक्रान्तैः समागतैः समाकीर्णम् । उन्मुखैः उत्सुकैः उदग्रं प्रशस्तम् । कुब्जकैरातकावृतं कुब्जैः किरातानां स्वल्पशरीराणां समूहैश्चावृतम् । यद्वा कुब्जैः कैरातकैः किरातसमूहैश्चावृतम् ॥ २।१५।३२४० ॥

स वाजियुक्तेनेति । वाजियुक्तेन रथेनेत्यत्र रञ्जयन् समासददित्यध्याहार्यम् । ततस्समासाद्येत्युत्तरश्लोके अनुवादात् । वरूथिना “रथगुप्तिर्वरूथो ना” इत्यमरः ॥ २।१५।४१ ॥

तत इति । समाकुलोल्बणम् अतिशयेन समाकुलम् । वरार्हस्य रामस्येति शेषः ॥ २।१५।४२ ॥

स इति । व्यपोह्य अतिक्रम्य शुद्धान्तम् अन्तःपुरम् । उपस्थितः प्राप्तः ॥ २।१५।४३ ॥

स तत्रेति । प्रहृष्टः अतिहृष्टः, रामाभिषेकार्थकृताः रामाभिषकार्थं प्रयुक्ताः जनानां गिरः शुश्राव । अथवा रामाभिषेकप्रयोजनं कर्म कुर्वन्तीति रामाभिषेकार्थकृताः तेषां गिरः शुश्रावेति योजना । अभिमङ्गलार्थाः अभितो मङ्गलप्रतिपादकः अर्थो यासां गिरां तास्तथा ॥ २।१५।४४,४५ ॥

उपस्थितैरिति । कोट्या कोटिसङ्ख्यया । परार्धैश्च परार्द्धसङ्ख्यैश्च ॥ २।१५।४६ ॥

तत इति । प्रभिन्नं मत्तम्, अत्यङ्कुशम् अतिक्रान्ताङ्लुशम् । शत्रुञ्जयं शत्रुञ्जयाख्यं नागम् । उदग्नकायम् उन्नताग्नशरीरम् ॥ २।१५।४७,४८ ॥

तदद्रीति । अद्रिकूटेन गिरिशिखरेण निश्चलमेघेन च तुल्यम् । महाविमानेभ्यः देवयानेभ्यः उत्तमानां वेश्मनां सङ्घस्तद्वत् ॥ २।१५।४९ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां पञ्चदशस्सर्गः ॥ २।१५ ॥