०१४ रामानयनाय सुमन्त्रप्रेषणम्

अथ कैकेयी मन्निमित्तं राजा वा म्रियतां तन्निमित्तमहं वा म्रिय इति सर्वथा निश्चित्याहपुत्रेति । सा पापा कैकेयी ॥ २।१४।१ ॥

पापमिति । मम संश्रवं वरदानप्रतिज्ञां संश्रुत्य अङ्गीकृत्य, तदकरणरूपं पापं कृत्वैव सन्नः विषण्णः सन् शेषे किमिदं न किमपि प्रयोजनम्, अतः स्थित्यां सत्यपरिपालनमर्यादायां स्थातुं त्वमर्हसि ॥ २।१४।२ ॥

आहुरिति । सत्यं सत्यरूपं धर्मम् आश्रित्य उद्दिश्य मया प्रचोदितः प्रबोधितः ॥ २।१४।३ ॥

ननु सत्यपरिपालने प्राणसंशयो जायत इत्याशङ्क्य प्राणादपि सत्यमेव रक्षणीयमिति सदृष्टान्तमाहसंश्रुत्येत्यादि श्लोकद्वयेन ॥ २।१४।४,५ ॥

सरितामिति । सरितां पतिः सत्यमन्वितः सत्यं प्राप्तः सन् सत्यानुरोधात् स्वकृतसत्योल्लङ्घनभयात् । स्वल्पां सुलङ्घ्यां मर्यादां स्वावधिभूताम् । स्वां वेलाम् । समये वृद्धिकालेपि नातिवर्तते ॥ २।१४।६ ॥

सत्यमिति । सत्यम् एकपदम् एकपदरुपं ब्रह्म, प्रणव इति यावत् । परं परब्रह्म ॥ २।१४।७,८ ॥

धर्मस्य लोकविद्धिप्रयोजकस्य अभिकामार्थं पालनार्थं त्रियमाणात् ममाभिचोदनात् प्रेरणात् पुत्रं रामं प्रव्राजय एवं त्वामहं खलु त्रिः त्रिवारं ब्रवीमि ॥ २।१४।९ ॥

समयमिति । समयं रामविवासनम् । परित्यक्ता निराकृता ॥ २।१४।१० ॥

एवमिति । पाशं सत्यपाशम् । उन्मोक्तुं प्रमोचयितुं । बलिः इन्द्रकृतम् उपेन्द्रवामनकृतं पदत्रयप्रतिश्रवरूपम् ॥ २।१४।११ ॥

उद्भ्रान्तहृदय इति । सः दशरथः युगचक्रान्तरं परिस्पन्दन् युगचक्रयोरन्तरं प्रविशन् धुर्यः बलीवर्द इव उद्भ्रान्तहृदयः विवर्णवदनश्चाभवत् ॥ २।१४।१२ ॥

विह्वलाभ्यामिति । संस्तभ्य विह्वलं चित्तमिति शेषः ॥ २।१४।१३ ॥

अथानिष्टाया अनिष्टपुत्रस्य च त्याग एव धर्म इति मत्वाहयस्त इति । मन्त्रकृतः ऽगृभ्णामिऽ इति मन्त्रेण संस्कृतः, पाणिः पाणिग्रहः, अग्नौ अग्निसन्निधौ यो मया धृतः तं त्यजामि तत्प्रयुक्तं व्यवहारं त्यजामि । किञ्च स्वजं स्वस्माज्जातमपि तव पुत्रं त्वया सह त्यजामि ॥ २।१४।१४ ॥

महता प्रयत्नेन प्रवर्तितमिदं कार्यं मया अशक्यनिवारणमित्याशयेनाहप्रयातेति । पादत्रयाधिकश्लोक एकान्वयः । उदयनं प्रति उदयं प्रतिलभ्य तदर्थमुपकल्पितैः अभिषेकार्थं संवृत्तैः रामाभिषेकसम्भारैः अभिषेकं रामाभिषेकं प्रति मां गुरुजनः त्वरयिष्यति ध्रुवम् अतो रामः कृताभिषेकः कारयितव्यः गुरुजनानुरोधो मया कर्तव्यः, तस्यापि न्यायप्राप्तत्वादित्यर्थः ॥ २।१४।१५,१६ ॥

त्वयेति । त्वया रामाभिषेके विघ्निते मम मरणस्यावश्यकत्वात्तदानीं सलिलक्रिया त्वया न कर्तव्येत्याहमे मृतस्येत्यादि । सलिलक्रियां रामः करोत्विति शेषः । व्याहन्तासि व्याहनिष्यसि यदि तदा त्वया सलिलक्रिया न कर्तव्येति योजना ॥ २।१४।१७ ॥

न चेति । त्वद्वचनमनुतिष्ठन् अहं पूर्वं रामाभिषेकवेलायां तथासुखं दादृशसुखयुक्तं जनं दृष्ट्वा इदानीं हतहर्षम् अत एव निरानन्दं पुनः द्रष्टुं न शक्तोमीति सम्बन्धः ॥ २।१४।१८ ॥

तामिति । तथा ब्रुवतः अशक्यानुष्ठानतया ब्रुवत इत्यर्थः । शर्वरी पुण्या निरन्तररामचिन्तासमेतत्वात् ॥ २।१४।१९,२० ॥

किमिदमिति । अङ्गरुजोपमं देहजनितव्याधिसदृशम् ॥ २।१४।२१,२२ ॥

स इति । नुन्नः व्याधितः, प्रतोदेन तोत्रेण ॥ २।१४।२३ ॥

धर्मबन्धेनेति । चेतना धीः ॥ २।१४।२४ ॥

तत इति । प्रभातायां रजन्यां प्रविवेश । पुरोत्तममित्यनेन वसिष्ठः सरय्वां स्नानं कृत्वा प्रविष्टवानित्यवगम्यते ॥ २।१४।२५,२६ ॥

सिक्तेत्यादि । समृद्धविपणापणां समृद्धाः क्रयविक्रयपदार्था येषु ते समृद्धविपणा तादृशा आपणा यस्यां ताम् ॥ २।१४।२७३३ ॥

इमे गङ्गोदकघटा इति । काञ्चनाः जलपूर्णकाञ्चनघटाः । क्षौद्रम् मधु । अत्र गायत्र्याश्चतुर्थाक्षरम् । चतुरश्व इत्यस्य श्लोकस्य द्वितीयाक्षरेण तु इत्यनने संगृह्णाति"चतुरश्वो रथः श्रीमान् निस्त्रिंशो धनुरुत्तमम् । वाहनं नरसंयुक्तं छत्रं च शशिसन्निमम् । " इति । निस्त्रिंशः ख़ड्गः । भृङ्गारः कनकालुका । धत्तूरकुसुमसदृशहिरण्मयपात्रम् । नरसंयुक्तं वाहनं शिबिकादि । केसरी प्रशस्तकेशरः । चतुर्दंष्ट्रः सञ्जातचतुर्दन्तः । हरिश्रेष्ठः अश्वोत्तमः । व्याघ्रतनुः व्याघ्रचर्म । हेमदामपिनद्धः हेमदामबद्धः । नैगमाः श्रेणीमुख्याः, अध्यापका वा । गणैः स्ववीथिस्थजनैः ॥ २।१४।३४४१ ॥

त्वरयस्व महाराजमिति । समुदिते श्रेयस्करे अहनि यथा रामो राज्यमवाप्रुयात् तथा दशरथं त्वरयस्वेति सम्बन्धः ॥ २।१४।४२,४३ ॥

तमिति । पूर्वोदितम् अयं सदा न निवारणीय इति राज्ञा पूर्वमेवोक्तम् ॥ २।१४।४४ ॥

स इति । तामवस्थां येथोक्तरूपाम् अतिघोराम् । अजज्ञिवान् अज्ञातवान् । परमतुष्टाभिः परमतोषहेतुभिः ॥ २।१४।४५ ॥

तत इति । यथाकालं प्रभूतकालार्हम् ॥ २।१४।४६ ॥

यथेति । भास्करोदये भासः करोतीति व्यत्पत्त्या भास्करः पूर्णचन्द्रः । तस्योदये प्रितेन प्रतिफलितचन्द्रतेजसा प्रीतेन मनसा प्रीतः सागरो यथा नन्दति तथा आनन्दघनः आनन्दपूर्णः सन् स्वतो नन्द तथा आनन्दघन इत्यत्र नन्द आनन्दघन इति तन्त्रेण पदच्छेदः ॥ २।१४।४७ ॥

इन्द्रमिति । अस्यां वेलायाम् उदयवेलायाम् ॥ २।१४।४८,४९ ॥

आदित्य इति । बोधयत्यद्य पृथिवीमिति, उदयास्तमयाभ्यामिति शेषः ॥ २।१४।५० ॥

कृतकौतुकमङ्गलकृतानि कौतुके अभिषेकोत्सवे मङ्गलानि येन स तथोक्तः, सर्वानन्दोत्पादनाय कृतदेहालङ्कार इत्यर्थः ॥ २।१४।५१,५२ ॥

गतेति । तव यत्कृत्यं कर्तव्यं रामाभिषेकाय अस्मदादिभिः तदिदं सर्वं कृतम् ॥ २।१४।५३ ॥

उदतिष्ठतेति । अभिषेचनम् अभिषेकोपकरणम् समग्रमुदतिष्ठत उपस्थितमित्यर्थः । नैगमैः वणिग्जनैः ॥ २।१४।५४५६ ॥

भविता । लुट् (भविता इति पाठः ) यत्र राष्ट्रे । राजा भवान् न दृश्यते अतः सन्निधेहीति भावः ॥ २।१४।५७ ॥

इतीति । सान्त्वपूर्वम् अर्थवदिव अर्थवदेव सार्थकमेव ॥ २।१४।५८ ॥

तत इति । शोकरक्तेक्षणः रोदनेन रक्ताक्षः । भूयो निकृन्तसीति । कैकेयीक्रूरवचःकृत्तमर्माणं पुनरप्यधिकं स्तुतिवाक्यैर्निकृन्तसीति ॥ २।१४।५९ ॥

सुमन्त्र इति । अपाक्रमत्, भीत इति शेषः ॥ २।१४।६० ॥

यदेति । दैन्यं सत्यपाशबन्धनजं कैकेयीविषयकम् । मन्त्रज्ञा स्वकार्यवक्तव्यविचारज्ञा ॥ २।१४।६१ ॥

अत एव मिथ्याप्याहसुमन्त्रेति । रामहर्षसमुत्सुकः रामाभिषेकसमुत्सुकः ॥ २।१४।६२,६३ ॥

स इति । स मन्यमानः कल्याणमिति नात्र कार्या विचारणा इति च मायाविन्या तयोक्तविश्वासात् राजशासनात् राज्ञः सम्मतमिति बुद्ध्या ॥ २।१४।६४६८ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायाम् अयोध्यकाण्डव्याख्यायां चतुर्दशः सर्गः ॥ २।१४ ॥