०१३ दशरथस्य वैक्लव्यम्

अथ सत्यपाशबद्धत्वेन न ते करिष्यामि वच इति दृढं वक्तुमशक्नुवन् तां पुनरपि प्रसादयतिअतदर्हमिति । अतदर्हं स्त्रीप्रणामानर्हम् । अतथोचितं पूर्वमनुभूततादृग्व्यसनम्, शयानं भूमौ पतितम् ॥ २।१३।१ ॥

अनर्थरूपेति । अनर्थरूपा पापरूपा, असिद्धार्था अनिष्पन्नप्रयोजना, अभीता जनापवादादभीता, अभयदर्शिनीदशरथस्य प्राप्तं भयमगणयन्ती । भयदर्शिनीति छेदे रामात् भरतस्य भयदर्शिनी । तमेव वरं पूर्वदत्तवरमेवोद्दिश्य महाराजमाकारयामास सम्बोधयामास ॥ २।१३।२ ॥

तदेवाहत्वमिति । सत्यवादी दृढव्रत इति कत्थसे स्वात्मानं श्लाघसे । विधारयितुं विशेषेण धारयितुम् ऋणत्वेन धारयितुम् ॥ २।१३।३५ ॥

रामप्रवासनदुःखेन मृत्वा स्वर्गं गतस्यापि मे सुखं नास्तीत्याहस्वर्ग इति । स्वर्गेपि दैवतैरभिहितं रामस्य कुशलं प्रत्यादेशात् प्रतिषेधात् । ल्यब्लोपे पञ्चमी । कथं बत धारयिष्ये सहिष्ये, इह रामस्य कुशलं प्रतिषिध्य तत्र दैवतैः पृष्टं कथं सहिष्य इत्यर्थः । अथवा स्वर्गे ऽपि रामस्य कुशलं प्रति दैवतैः प्रत्यादेशात् प्रत्यादेशं धिक्कारं कृत्वाभिहितं वाक्यम्, कथं बत धारयिष्ये सहिष्ये । बतेति । खेदे ॥ २।१३।६ ॥

ननु सत्यपाशात् प्रत्यादिष्टवानस्मीत्युत्तरं ब्रूहीत्यत्राहकैकेय्या इति । कैकेय्याः प्रतिश्रुतार्थप्रदानेन मया रामः प्रव्राजितः तत्सत्यं यदि ब्रवीमि तर्हि तद्राममभिषेक्ष्यामीति वचनम् असत्यं भविष्यतीत्यर्थः ॥ २।१३।७१० ॥

सुखानामिति । दुःखैरनुचितस्येति षष्ठ्यर्थे तृतीया ॥ २।१३।११ ॥

सर्वथा रामस्य दुःखाकरणमेव स्वहितमित्याहयदीति । अदुःखार्हस्य रामस्य दुःखमकृत्वा इह सुखितस्य मम कालान्तरे संक्रमणं लोकान्तरगमनं यदि भवेत् ततः तर्हि स्वर्गेपि सुखमवाप्रुयामित्यन्वयः ॥ २।१३।१२ ॥

नृशंस इति । किमर्थं विप्रियेण अनभिमतदण्डकारण्यगमनेन ॥ २।१३।१३,१४ ॥

तथेति । या राज्ञः स्वनवेशप्रवेशकालत्पूर्वं सूर्यो ऽस्तमगमत् रजनी चाभ्यवर्तत । सा त्रियामा रजनी विलपतस्तस्य राज्ञः न व्यभासत न प्रकाशत, विलापेनैव रात्रिकालो व्यतीत इत्यर्थः । अथ सा शर्वरी व्यभासत विभाता चेत्यावर्त्त्य योजना ॥ २।१३।१५ ॥

तथेति । आर्तवत् महारोगादिना पीढित इव दुःखं शृण्वतां यथा दुःखं भवति तथा विललापेत्यर्थः ॥ २।१३।१६,१७ ॥

अथ दुःखवशाद्रात्र्या अव्युष्टिं प्रार्थयतेन प्रभातमिति । भावे निष्ठा । त्वया न प्रभातमिति । त्वत्कर्तृकमप्रभातमिति यावत् । मे मह्यम् प्रभाते सति रामविवासनं भविष्यतीतिभयादिति भावः ॥ २।१३।१८ ॥

अथवा गम्यतां शीघ्रमिति । रात्र्येति शेषः । स्त्रीदर्शनं रात्र्यामेव भवति तदत्यये प्रजा आयान्ति राज्ञः सकाशम् अतो ऽस्या दर्शनपरिहारो भविष्यतीत्याशयः ॥ २।१३।१९,२० ॥

साध्विति । त्वद्गतस्य सत्यवशगत्वात्त्वदधीनस्य । गतायुषः अल्पावशेषमतीतायुषः ॥ २।१३।२१ ॥

शून्य इति । शून्ये निर्जनप्रदेशे इदं रामाभिषेचनं न समुदाहृतं खलु, किन्तु राजसभायामुदाहृतम् । अथवा शून्येन प्रणष्टसर्वाहम्भावेन मया इदसुदाहृतमिति वार्थः ॥ २।१३।२२ ॥

तदेव दर्शयन्नाहप्रसीदेति । त्वद्दत्तं लभतां त्वया वरबलात् गृहीतमेव राज्यम्, रामप्रीत्यर्थं

रामाय देहीत्यर्थः ॥ २।१३।२३।२४ ॥

विशुद्धेति । अश्रुकलस्य अश्रुपूर्णस्य ॥ २।१३।२५ ॥

तत इति । तद्रात्रेः प्राक् नित्यं प्रियाम् अदुष्टां पतिव्रतां तत्काले दैवात् प्रतिकूलभाषिणीं तां समीक्ष्य पुत्रस्य विवासनं प्रति व्रियमाणं तद्वरं च समीक्ष्य पर्यालोच्य चिरपरिचितप्रेमत्वात्तां धिक्कर्तुं प्रयासलब्धं पुत्रं च त्यक्तुम् अशक्नुवन् कर्तव्यमूढो मूर्च्छितः, क्षितौ विसंज्ञः पपातेत्यर्थः ॥ २।१३।२६ ॥

इतीति । प्रतिबोधनं बोधनसाधकमङ्गलगीतादिकम् ॥ २।१३।२७ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां त्रयोदशः सर्गः ॥ २।१३ ॥