०१२ कैकेय्युपलम्भः

तत इति । दारुणम् अशनिपातकल्पं वचः श्रुत्वा नष्टसंज्ञः सन् चिन्तामभिसमापेदे ॥ २।१२।१ ॥

तामेव चिन्तां दर्शयतिकिंनु मे इति । सामान्यविचारः, चित्तमोहः चित्तभ्रान्तिर्वा, अनुभूतोपसर्गः अनुभूतानां पदार्थानामुपसर्गः नाशः, सुषुप्तिरित्यर्थः । मनस उपद्रवः रोगविशेषो वा एतेषां मध्ये का वा ऽवस्था मम वर्तत इत्यर्थः ॥ २।१२।२ ॥

प्रतिलभ्येत्वादिश्लोकत्रयमेकं वाक्यम् । विक्लवः विह्वलः । असंवृतायामिति । जगत्यां भुवि, मण्डले यन्त्रमण्डले, धिगिति वाचमुक्त्वा भूयः पुनरपि मोहं मूर्च्छाम् आपेदिवान् प्राप्तवान् ॥ २।१२।३६ ॥

नृशंस इति । नृशंसे क्रूरे दुष्टचारित्रे दुष्टव्यापारे ॥ २।१२।७ ॥

यदेति । जननीतुल्यां स्वजननीतुल्यां वृत्तिं शुश्रूषां वहति करोति, किन्निमित्तं केन निमित्तेन उद्यता ॥ २।१२।८ ॥

अयं स्वकृतानर्थ इत्याहत्वमिति । अविज्ञानात् अविचारात् । नृपसुतेत्यत्रेतिकरणं द्रष्टव्यम् ॥ २।१२।९ ॥

जीवलोक इति । सर्वोपि जीवलोकः, यदा सर्वदापि योग्यताबलात् रामस्य गुणस्तवमाह, तस्मादिति शेषः । उद्दिश्य व्याजीकृत्य न त्वेव त्यजेयमित्यनुकर्षः ॥ २।१२।१०,११ ॥

परा उत्कृष्टा । चेतना जीवितम् ॥ २।१२।१२ ॥

तिष्ठेदिति । लोकः सूर्यं विना तिष्ठेत्, किञ्चित्कालं तिष्ठेदित्यर्थः । रामं विना जीवनं क्षणमात्रमपि न तिष्ठेत्, स्थातुं न शक्नुयादित्यर्थः ॥ २।१२।१३ ॥

तदिति सार्धश्लोकमेकं वाक्यम् । एष निश्चयः रामविवासनरूपनिश्चयः ॥ २।१२।१४,१५ ॥

अथेत्यादि श्लोकत्रयमेकं वाक्यम् । भरतस्य प्रियाप्रिये स्नेहास्नेहयोर्विषये माम् अथ जिज्ञाससे ज्ञातुमिच्छसि किम् ? अस्तुजिज्ञासैव भवतु, भरतस्नेहजिज्ञासा कृतेत्येतावता रामगुणातिशयपक्षपातो न मन्दीभवतीत्याशयः । त्वया राघवं प्रति स मे ज्येष्ठसुतः श्रीमान् धर्मज्येष्ठ इति पूर्वं यद्व्याहृतं तत् प्रियवादिन्या त्वया सेवार्थं रामकृतशुश्रूषार्थं कथितं भवेत् । यद्वा मम सेवार्थं मम विच्छेदेन त्वयि वर्तनाय कथितं भवेत् । कुतः ? तच्छ्रुत्वेति । तत् प्रस्तुतं रामाभिषेचनं श्रुत्वा शोकसन्तप्ता सती त्वं मां भृशं सन्तापयति । तत्र कारणमुत्प्रेक्षते आविष्टेति । परवशं गता सा त्वम् शून्यम् अगोचरं ग्रहं भूतपिशाचादिकम् आविष्टा प्राप्तासि । शून्ये इति पाठेविवेकशून्ये इति कैकेय्याः संबोधनम् ॥ २।१२।१६१८ ॥

इक्ष्वाकूणामिति श्लोकद्वयमेकं वाक्यम् । यत्र यस्मिन् नयसम्पन्ने रामे ते यतो विकृता मतिरुत्पन्ना यतश्च तन्मूलो महानयमनयः श्रेष्ठगुणकज्येष्ठपुत्राभिषेकनिवृत्तिरूपानर्थस्सम्पद्यते । यतः पुरा पूर्वं मम विप्रियं प्रतिकूलम् अयुक्तं लोकविरुद्धं कार्यं वा नाकरोः तेन कारणेन इदं त्वयोक्तं विप्रियं न श्रद्दधामि सत्यमिति विश्वासं न करोमि, किन्तु भरते मम स्नेहो ऽस्ति वा नवेति मनसः परीक्षार्थमेवेदं कृतमिति मन्य इति भावः ॥ २।१२।१९,२० ॥

न श्रद्दधामीत्यत्र हेतुमाहनन्विति । आमन्त्रणे ननुशब्दः । मे महात्मना तेन भरतेन राघवस्तुल्यः, भरत इव प्रेमास्पदीभूत इति मम, सन्निधाविति शेषः । बहुशः कथाः कथयसे अतः त्वया अप्रियमुक्तमिति न विश्वासं करोमीति भावः ॥ २।१२।२१ ॥

तस्य तथा प्रियस्येत्यर्थः ॥ २।१२।२२२५ ॥

शुक्षूषामिति । शुश्रूषां सेवाम् । गौरवं बहुमानम् । प्रमाणं प्रतिपत्तिः । वचनक्रिया उक्तकरणम्

। ते तव । मनुजर्षभात् रामादन्यत्र रामं विना कः भूयस्तरम् अत्यन्तं कुर्यात्, अतस्तदीयवनवासं कथं रोचयसीति भावः ॥ २।१२।२६ ॥

बहूनामिति । बहूनां स्त्रीसहस्राणां मध्ये एकयापि कृतः परिवादः अकार्यकरणनिमित्तं समूलमयशः, उपजीविनां मध्ये एकेनापि कथितो ऽपवादः असूयाकल्पितं निर्मूलमयशः राघवे नोपपद्यते न विद्यत इत्यर्थः ॥ २।१२।२७ ॥

कुत इत्याहसान्त्वयन्निति । सर्वभूतानि सर्वप्राणिनः । शुद्धेन चेतसा सान्त्वयन् रामाविषयवासिनः स्वदेशस्थान् जनान् प्रियैः इष्टार्थदानैः गृह्णाति स्ववशीकरोतीति योजना ॥ २।१२।२८ ॥

सत्येनोति । सत्येन लोकान् जयति वशीकरोति । दीनान् दानेन जयति समृद्धान् करोति । गुरून् शुश्रूषया जयति वशीकरोति आनन्दयति ॥ २।१२।२९ ॥

सत्यमिति । सत्यं सत्यवचनम्, दानं सत्पात्रदानम्, त्यागः प्रत्यक्षः एहिकप्रयोजनः, देवतोद्देशेन द्रव्यत्यागौ वा, मित्रता सत्सु मैत्री, शौचं बाह्याभ्यन्तरशुद्धिः, आर्जवं कपटराहित्यम् । एतानि सर्वाणि राघवे धुवाणि ॥ २।१२।३० ॥

तस्मिन्निति । आर्जवसम्पन्ने कपटरूपदोषवर्जिते महर्षिवच्छमादिगुणसम्पन्ने । कथं पापं वनवासात्मकम् । आशंससे प्रार्थयसे ॥ २।१२।३१ ॥

न स्मरामीति । लोकस्य प्रियवादिनो रामस्य । अप्रियम् विवासनविषयकं वाक्यम् । न स्मरामि स्मर्तुमपि न शक्नोमि, सो ऽहं प्रियं तं रामं त्वत्कृते अप्रियं वनं गच्छेति वाक्यरूपं कथं वक्ष्यामीति योजना । यद्वा अप्रियं वाक्यमिति रामवक्तृकं रामविषयकं वा न स्मरामि । कुतः ? प्रियवादिन इति, त्वत्कृतेत्वद्वचनक्रियासम्पादनार्थम् अप्रियं कथं वक्ष्यामीति योजना ॥ २।१२।३२ ॥

क्षमेति । क्षमा अन्तरिन्द्रियनिग्रहः, दमः बहिरिन्द्रियनिग्रहः, धर्मः नित्यकर्मानुष्ठानम् प्राणिनामहिंसा च यस्मिन् रामे वसतीति प्रत्येकमभिसम्बध्यते, तमृते मम का गतिः ? ॥ २।१२।३३ ॥

ममेति । गतान्तस्य गतायुषः तपस्विनो दीनस्य दीनं लालप्यमानस्य प्रलपतः मम कारुण्यं दयां कर्तुमर्हसि ॥ २।१२।३४ ॥

पृथिव्यामिति । भूमौ द्रव्यजातयस्तत्सर्वं तव दास्यामि त्वं मन्युं मा विश ॥ २।१२।३५ ॥

अञ्जलिमिति । कुर्मि करोमि । रामस्य शरणं रक्षित्री भव, अधर्मः सत्यव्यतिक्रमरूपः । इह रामाभिषेकरूपकार्यविषये । मां मास्पृशेत् मास्पृशतु यथा अधर्मप्राप्तिर्न भवति तथा त्वया कर्तव्यमित्यर्थः ॥ २।१२।३६ ॥

इतीति । अचेतनं मूर्च्छागतम्,घूर्णमानं घूर्णमानशरीरम् ॥ २।१२।३७ ॥

पारमिति । शोकार्णवस्य, आशु शीघ्रं, पारं निस्तारम्, प्रलपन्तं प्रार्थयन्तम्, रौद्रतरम् अतिदारुणं वचः प्रत्युवाचेति द्वयोरन्वयः ॥ २।१२।३८ ॥

यदीति श्लोकद्वयमेकं वाक्यम् । पृथिव्यां यदा राजर्षयः त्वया सह समेता भवन्ति तत्समाजे त्वं त्वदीयं धार्मिकत्वं कथयिष्यसि ते च मद्विषयवरदानादिप्रसङ्गं यदा कथयिष्यन्ति तदा तान् प्रति किं प्रतिवक्ष्यसि किमुत्तरं दास्यसि ? धर्मज्ञेति व्यङ्ग्योक्तिः ॥ २।१२।३९,४० ॥

न किमपि प्रतिवचनं शक्यमित्याहयस्या इति । यस्याः कैकेय्याः, युद्धे मूर्च्छितदशायां रणादन्यत्र रथापनयनादिप्रयत्ने सति जीवामि, या मामभ्यपालयत् शीतोपचारादिना ररक्ष । तस्याः कैकेय्याः प्रतिज्ञातं वचनमिति शेषः । मिथ्या असत्यं कृतमिति वक्ष्यसीति सोपहासं वाक्यम् ॥

२।१२।४१ ॥

किल्बिषत्वमिति । नरेन्द्राणां किल्बिषत्वम् अपयशोरूपं मालिन्यं करिष्यसि, यस्त्वमद्यैव

वरं दत्त्वा पुनरन्यानि भाषसे मिथ्यावादेन त्वया राजकुलं सर्वमयशोग्रस्तं जातमित्याशयः ॥ २।१२।४२ ॥

दुष्करस्यापि प्रतिश्रुतस्य परिपालनं दर्शयतिशौब्य इत्यादि । त्वद्वंश्यः शौब्यः । सत्यपरिपालनाय दत्ताभयकपोतरक्षणाय, तन्मांसार्थिने श्येनाय स्वमांसमेव प्रतिनिधित्वेन ददौ, न तु कपोतमिति श्येनकपोतीये आख्याने श्रूयते । तथाहिइन्द्रग्नी श्येनकपोतरूपौ भूत्वा शैब्यौदार्यजिज्ञासया भक्षकभक्ष्यभावमापन्नौ शैब्यसमीपं गतौ, ततः कपोतः शैब्याङ्कं विवेश, तस्मै च सो ऽभयं ददौ । ततः श्येनेन मद्भक्षणं कपोतं त्यजेत्युक्तेनाहं त्यजेयम् अपितु तत्प्रनिधिमांसमेव ददामीत्युक्ते, तर्हि त्वन्मांसमेव प्रयच्छेति प्रतिपादिते स्वमांसमेव सर्वं दत्तवानिति कथा । यद्वा आहारकाङ्क्षिणः श्येनस्य शरणार्थिनः कपोतस्य विरोधे, अन्यत समानम् । अलर्कश्च राजर्षिः । ब्राह्मणाय याचमानाय वरं प्रतिश्रुत्य तेनऽ राजन् तव चश्रुषा मम चक्षुः प्रतिसन्धातव्यम्ऽ इति पृष्टे स्वचक्षुर्दत्तवान् । सागरः देवैः प्रार्थितो वेलानतिलङ्घनसमयं तेभ्यः प्रतिश्रुत्य न वेलामतिवर्तते । यद्येवमतः किमत आहसमयमिति । पूर्ववृत्तं शैब्यादीनां वृत्तमनुस्मरन् त्वं च समयं वरौ दास्यामीति सङ्केतमनृतं माकार्षीः ॥ २।१२।४३४५ ॥

सिद्धान्तमाहभवत्विति । मदुक्तरामविवासपूर्वकभरताभिषेकः धर्मो वा समीचिनं वा अधर्मो वा असमीचीनं वा भवतु, त्वया यन्मह्यं संश्रुतं शपथपूर्वकं दास्यामीति, तस्य व्यतिक्रमः अन्यथाभावो नास्तीति योजना ॥ २।१२।४६ ॥

विपक्षे बाधकमाहअहं हीति ॥ २।१२।४७ ॥

अञ्जलिं प्रतिगृह्णन्तीमिति । राममातृत्वेन, सर्वलोकानामिति शेषः ॥ २।१२।४८ ॥

भरतेनेति । हे मनुजाधिप रामविवासनादृते अन्येन रत्नादिना यथाहं न तुष्येयं तथा आत्मना प्राणभूतेन ते तव समीप इति शेषः । शपे शपथं करोमि ॥ २।१२।४९,५० ॥

श्रुत्वेति । परमशोभनमित्यत्र अशोभनमिति छेदः । कैकेयीं प्रैक्षत, कोपादिति शेषः ॥ २।१२।५१५३ ॥

स इति । घोरं व्यवसायं कृतं शपथम् । स्वेनेति शेषः । निश्वस्येति अशक्यप्रतिक्रियत्वात् ॥ २।१२।५४ ॥

नष्टचित्त इति । विपरीतः सन्निपातादिना विपरीतः । आतुरः व्याधिग्रस्तः । हृततेजाः मन्त्रहृतवीर्यः तथा बभूव ॥ २।१२।५५,५६ ॥

अनर्थमिति । उपदर्शिता बोधिता, भूतोपहतचित्तेव पिशचाक्रान्तहृदयेव मां प्रति ब्रुवन्ती सती न लज्जसे ॥ २।१२।५७ ॥

शीलव्यसनमिति । एतत् इदानीमुत्पन्नं शीलव्यसनं सद्वृत्तिभ्रंशनम् पुरा नाभिजानामि बालायाः ते तव तत् शीलं विपरीतवत् विपरीतं लक्षये जानामि ॥ २।१२।५८ ॥

कुतो वेति । कुतो निमित्तात्ते भयं जातं येन भयेनैवंविधं वरं वृणीषे ॥ २।१२।५९ ॥

वरमेवाहराष्ट्र इति । भरतं राष्ट्रे राज्ये आसीनं सन्तम् वने राघवम् आसीनं सन्तं वृणीषे । विरमेति । भर्तुर्दशरथस्य मम लोकस्य जनस्य भरतस्य च यदि प्रियं कार्यं तर्हि एतेन भरताभिषकरूपेण भावेन अभिप्रायेण, अनृतेन पापजनकेन एतेन भावेन रामाभिषेकविधातविषयकेणाभिप्रायेण च विरमं मा प्रवर्तस्व । वाशब्दस्समुच्चये । भरताभिषेकविषयां

रामाभिषेकविधातविषयां च बुद्धिं निवर्तयेति भावः ॥ २।१२।६० ॥

नृशंस इति । दुःखं दुःखसाधनम् । अलीकम् अपराधम् ॥ २।१२।६१ ॥

व्यर्थञ्चेदं मत्क्लेशनमित्याहन कथञ्चिदिति । रामादृते रामं विना भरतः कथञ्चिदपि राज्यं नावसेत् नाक्रामेत्, अनेन यथाभागशः चतुर्णामेव राज्यमनुमन्यस्वेत्युक्तम् । यद्वा भरतस्याभिषेकं रामस्य केवलवृद्धस्य मम समीपे ऽवस्थानं वा ऽनुमन्यस्व, नान्यथा त्वत्प्रयोजनमित्युपदेशः । नावसेदित्यत्र हेतुमाह रामादिति । हि यस्मात् भरतं रामादपि धर्मेण बलवत्तरम् अतिशयितधर्मवन्तं मन्य इति योजना ॥ २।१२।६२ ॥

कथमिति । भाषिते उक्ते सति, मयेति शेषः । उपप्लुतं राहुग्रस्तम् । इन्दुं यथा चन्द्रमिव विपरीतवर्णं कथं द्रक्ष्यामीति ॥ २।१२।६३ ॥

तामिति । सुकृतां सम्यक्प्रवर्तिताम्, अत्र हेतुःसुहृद्भिस्सह निश्चितां बुद्धिं रामाभिषेकविषयिणीं बुद्धिमपावृत्तां कथं द्रक्ष्यामि ॥ २।१२।६४ ॥

किमिति । बालो बतायमिति । बालो मूढः अयमैक्ष्वाकः दशरथः चिरकालं कथं राज्यमकारयत् अकरोदिति नानादिग्भ्यः समागता राजानः मां वक्ष्यन्तीति योजना । बतेति खेदे ॥ २।१२।६५ ॥

यदेति । वृद्धाः काकुत्स्थं परिप्रक्ष्यन्ति, परस्परमिति शेषः । रामो दशरथेन किमर्थं निर्वासित इति राममुद्दिश्य यदि वक्ष्यन्ति तदाहं किमुत्तरं दद्याम् ?, उत्तरास्फूर्तेर्मौनमेव भजिष्यामीति परमार्थः ॥ २।१२।६६ ॥

ननु कैकेय्या क्लिश्यमानेन मया रामः प्रस्थापित इत्युत्तरं दीयतामत आहकैकेय्येति । कैकेय्या क्लिश्यमानेन पूर्वं सामान्येन दत्तौ वरौ इदानीं भरताभिषेकरामविवासनरूपेण दातव्यावित्युक्तवत्या कैकेय्या पीडयमानेन मया रामः प्रस्थापित इत्येतत् सत्यं यदि ब्रवीमि तत्पूर्वोक्तं पूर्वेद्युर्वसिष्ठवामदेवादिसहितराजसभायामुक्तं रामाभिषेकविषयप्रतिज्ञावाक्यम् असत्यं भविष्यति ॥ २।१२।६७,६८ ॥

यदा यदेति तत्तदुचितकाल इत्यर्थः । कौसल्या सेवायां दासीव, परमरहस्यकथने सखीव, धर्माचरणे भार्येव, हिताशंसने भगिनीव, मृष्टान्नदाने मातृवच्चोपतिष्ठते सेवत इत्यर्थः ॥ २।१२।६९,७० ॥

इदानीमिति । इदानीं रामविवासे सति यन्मया त्वयि सुकृतं शोभनं कर्म शुश्रूषालक्षणं कृतं तत् अपध्यव्यञ्जनोपेतं सत् भुक्तमन्नं यथा आतुरं रोगिणं तपति तापयति ॥ २।१२।७१ ॥

विप्रकारमिति । वनस्य सम्प्रयाणं प्रयाणात्मकं रामस्य विप्रकारं मया कृतमपकारं प्रेक्ष्य भीति सुमित्रा मे मह्यं कथं विश्वसिष्यति सकललोकानन्दकरमपि रामं त्यक्तुकामस्य दशरथस्य न किञ्चिदकार्यमस्तीति सुमित्रा मयि विश्वासं न करिष्यतीति भावः ॥ २।१२।७२ ॥

कृपणमिति । पञ्चत्वमापन्नं मां, रामं वनमाश्रितं चेत्यप्रियद्वयं वैदेही कृपणं दैन्ययुक्तं यथा तथा श्रोष्यति, बतेति खेदे ॥ २।१२।७३ ॥

तदेव सीताकार्पण्यं प्रदर्श्यतेवैदेहीत्यादि । मे मम । रामविवासनादिव्यापारेणेति शेषः । शोचन्ती प्राणान् क्षपयिष्यति । यद्वा मदर्थम् उपलक्षणमेतत् । रामार्थं शोचन्ती प्राणान् क्षपयिष्यतीति वार्थः । बतेति खेदे ॥ २।१२।७४ ॥

सीताया इव ममापि प्राणक्षपणं प्राप्तमित्याहन हीति ॥ २।१२।७५ ॥

सेति । नूनं ध्रुवम् ॥ २।१२।७६ ॥

सतीमिति । सतीम् आपातरमणीयसद्वृत्तवतीम्, शुश्रूषादिना सतीत्वेन प्रतीताम् असतीं सतीं पतिमारकत्वेन सर्वथा असतीं भवन्तीं व्यवस्यामि निश्चिनोमि । रूपिणीं चारुरूपतया मदिरां पीत्वा विकारेण विषसंयुक्तेति यथा जानाति तथेत्यर्थः ॥ २।१२।७७ ॥

अनृतैरिति । सान्त्वैः इष्टवचनैः । गीतशब्देन गीतध्वानिना ॥ २।१२।७८ ॥

अनार्यः पापीति मां पुत्रविक्रायिकं कैकेयीरूपमूल्येन पुत्रं विक्रीतवन्तम्, ग्राम्यसुखार्थं पुत्रं त्यक्तवन्तमित्यर्थः । धिक्करिष्यन्ति विगर्हिष्यन्तीति यावत् ॥ २।१२।७९ ॥

अहो दुःखमिति । कृच्छ्रं कष्टम्, यत्र यस्मिन् वरदानविषये “चीराजिनजटाधारी रामो भवतु तापसः " इत्येतादृशीस्तव वाचः यतः क्षमे, अतः पुरा कृतमशुभमेव अशुभफलमेव एवंविधम् अपरिपार्यत्वेन अवश्यानुभाव्यं दुःखं प्राप्तमिति सम्बन्धः ॥ २।१२।८० ॥

सौख्यार्थं कृतं त्वद्रक्षणं स्वविनाशाय परिणतमिति खिद्यतेचिरं खल्वित्यादिना । उपसम्पन्ना कण्टलग्नेत्यर्थः ॥ २।१२।८१ ॥

बाल इति । बालो हस्तेन कृष्णसर्पं यथा स्पृशति तथा त्वामपि अज्ञानात् हस्तेन अस्पृशम् अज्ञानात्तावकपाणिग्रहणं कृतवानस्मीति भावः ॥ २।१२।८२ ॥

तं त्वित्यादि । महात्मा पुत्रो मया जीवतापि अपितृकः पितृरहितः कृतः, ततः लोको माम् अक्रोष्टुं निन्दितुम् अर्हति ॥ २।१२।८३ ॥

आक्रोशप्रकारमेवाहबालिश इति ॥ २।१२।८४ ॥

व्रतैरिति । उपकर्शितः प्राप्तिकार्श्यः ॥ २।१२।८५ ॥

नालमिति । द्वितीयं वचनं परिहाररूपं प्रतभाषितुं नोत्सहते स बाढमित्येव वक्ष्यति ॥ २।१२।८६ ॥

यदीति । वनं गच्छेति मया भाषिते प्रतिकूलं यदि कुर्यात्तर्हि मे प्रियं स्यात् । वत्सः श्रीरामस्तु प्रतिकूलं न करिष्यति ॥ २।१२।८७ ॥

शुद्धभाव इति । शुद्धभावः राघव मे भावं वनं गच्छेत्येवंरूपम् ॥ २।१२।८८ ॥

राघव इति । सर्वलोकस्य धिक्कृतं धिक्कारम् । अक्षमणीयं सोढमशक्तम् ॥ २।१२।८९ ॥

मृत इति । इष्टे मन्मतानुसारिणि जने किं पापं कीदृशं दुःखम्, मनोवागगोचरमिति यावत् । प्रतिपत्स्यसे करिष्यसि ॥ २।१२।९० ॥

कौसल्यामित्यादि । पुत्रौ चेति लक्ष्मणशत्रुघ्नौ, देवी सुमित्रा, कौसल्यां मां च रामं च यदि हस्यति तदा दुःखान्यसहती मामेवानुमरिष्यति, रामवियोगेन कौसल्यामरणस्य सम्भावितत्वाल्लक्ष्मणस्य रामनियतसहगमनाच्छत्रुघ्नस्य दैवादद्य भरतेन सहगमनाच्च ताभ्यां मया च रहिता सा मामेवानुमरिष्यतीत्यर्थः ॥ २।१२।९१ ॥

कौसल्यामिति । नरके दुःखे ॥ २।१२।९२ ॥

मयेति । आकुलं क्षुभितं यथा तथा पालयिष्यसि ॥ २।१२।९३,९४ ॥

हन्तेत्यर्धं भिन्नं वाक्यम् ॥ २।१२।९५।९६ ॥

त्वमित्यर्धत्रयमेकं वाक्यम् । राजपुत्रीवादेन राजपुत्रीति व्यपदेशमात्रेण लोके अप्रत्यक्षेप्यकीर्तिः, परिभवः महाजनसमक्षं धिक्कारः, अवज्ञा अवमतिः, यतो न्यवसः अत एतत्सर्वं मे भविष्यतीति भावः ॥ २।१२।९७,९८ ॥

यस्येति सूदाः पाचकाः, अहंपूर्वाः अहङ्कारपूर्वाः । प्रशस्तं पानभोजनं सात्विकाहारः ॥ २।१२।९९ ॥

स कथन्न्विति । कटुकानि चेत्यत्र कन्दमूलानीति विशेष्यमध्याहार्यम् । वर्तयिष्यति जीविष्यति ॥ २।१२।१००,१०१ ॥

कस्येति । रामस्यारण्यगमनं भरतस्याभिषेककर्मणः फलम् । यद्वा एतद् कस्य क्रूरस्य वाक्यमुपदेशः ॥ २।१२।१०२ ॥

कैकेय्याः दौर्जन्यं दृष्ट्वा दशरथः स्त्रीमात्रं निन्दतिधिगस्त्विति । योषितो धिगस्तु नाम, स्त्रियो निन्द्या इत्यर्थः । ननु स्त्रीमात्रनिन्दा कथं क्रियते ? साध्वीनां विद्यमानत्वादित्यत आह नेति । सर्वाः स्त्रियो धिगस्त्विति न ब्रवीमि, किन्तु भरतस्यैव मातरं धिगस्त्विति ब्रवीमीमि योजना ॥ २।१२।१०३ ॥

अनर्थभावेअनर्थः स्वपरानर्थसाधनभूतः भावः अभिप्रायो यस्याः सा तथा, निविष्टो निवेशितो भावो दुष्टभावो यस्याः सा तथा, अर्थपरे स्वार्थसाधनपरे मन्निमित्तं मद्धेतुकम् । कुमप्रियम् अपकारं पश्यसि कृत्स्नजगद्धितानुकारिणि रामे वा ॥ २।१२।१०४ ॥

परित्यजेयुरिति । कृतानुरागत्वं पुत्रपतिभार्याणां त्यागानौचित्यहेतुः, यथोचितं लिङ्गविपरिणामः पुत्रादिषु योज्यः । अपिशब्दात्पतयश्च कृतानुरागा भार्यास्त्यजेयुरिति योज्यम् । किञ्च रामप्रवाजनसाधनं त्वद्व्यापारं दृष्ट्वा रामं च त्वद्वशाद्व्यसने निमग्नं दृष्ट्वा सर्वं जगत् त्वां प्रत्येव कुपितं स्यात् ॥ २।१२।१०५ ॥

अन्ततः स्वस्य रामं विना जीवनव्यतिरेकं दर्शयिष्यन् तदन्वये स्वजीवनानन्वयं दर्शयतिअहमित्यादिना । आव्रजन्तम् आगच्छन्तं पश्यन्नहं दर्शनेन तस्य दूरदर्शनेनापि नन्दामि । आगतमन्तिके दृष्ट्वा चिरवृद्धोप्यहं पुनर्युवेव युववद्भवामि हृष्टपुष्टान्तर्बहिः परिकरो भवमीत्यर्थः ॥ २।१२।१०६ ॥

विनेति । हिशब्दो यद्यप्यर्थे, सूर्येण विना यद्यपि प्रवृत्तिः सञ्चाररूपा भवेत् । तथा वज्रधरेण अवर्षतापि, प्रवृत्तिर्जीवनरूपा यद्यपि स्यात्, तथापि राममितो गच्छन्तं समीक्ष्य कश्चिदपि अननुभूतरामस्वभावोपि लोको न जीवेदिति मे चेतना धीः, मम जीवनं तु कैमुतिकसिद्धमिति भावः ॥ २।१२।१०७ ॥

विनाशेति । सर्पी सर्पलक्षणामोहादङ्केन धृतासि, तेन अङ्कधारणेन हेतुना ॥ २।१२।१०८ ॥

मयेति । अहितानामभिहर्षिणी ममामित्रेषु स्नेहयुक्ता भवेत्यर्थः ॥ २।१२।१०९ ॥

नृशंसेति । व्यसमप्रहारिणि आपद्युपद्रवकारिणि । इह देशे अद्य काले प्रसह्य पतिपत्नीभावं तिरस्कृत्य क्रूरं वाक्यं भाषसे यत् अतः ते दशनाः केन नाम हेतुना मुखाद्विशीर्णमाना न पतन्ति । न जान इति शेषः ॥ २।१२।११० ॥

न किञ्चिदिति । गुणनित्यसंमते गुणानां नित्यसम्मते ॥ २।१२।१११ ॥

प्रताम्येति । सहस्रशो वा स्फुटिता महीं व्रज तथापि न ते वचः करिष्यामीति सम्बन्धः ॥ २।१२।११२ ॥

क्षुरोपमामिति । असत्पियंवदां मिथ्या प्रियवादिनीम्, अमनोरमामिति छेदः । सबन्धनं हृदयं “प्राणबन्धनं हि सौम्यमनः” इति श्रुतेः । त्वां जीवितुं नोत्सह इति सम्बन्धः ॥ २।१२।११३,११४ ॥

स भूमिपाल इति । अतिमात्रया अतिक्रान्तमर्यादया स्त्रिया हृदये मर्मणि गृहितः प्रसारितौ प्रणामपरिहारबुद्ध्या अन्यत्र प्रसारितौ देव्याश्चरणौ असंस्पृश्य आतुरो यथा आतुर इव तथा पपात, दारुणं पपातेत्यर्थः । अनेन चित्तवैवश्यं द्योतितम् ॥ २।१२।११५ ॥

इति श्रीमपेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां द्वादशः सर्गः ॥ २।१२ ॥