नास्मीति । विप्रकृता अभिभूता, मे कश्चिदभिप्रायो ऽभिप्रार्थनीयो ऽस्ति, त्वदेकसम्पाद्यः तं त्वया कृतं सम्पादितमिच्छामीति सम्बन्धः ॥ २।११।२ ॥
प्रतिज्ञामिति । कर्तुमिच्छसि यदि तदा प्रतिज्ञामवश्यकर्तव्यताविषयिणीं प्रति जानीष्व । अथ अनन्तरम् । यन्मया प्रार्थितं तव्द्याहरिष्यामि ॥ २।११।३ ॥
तामिति । ईषदुत्स्मितः भवदाज्ञाकारिणि मयि शपथाकाङ्क्षा वृथेति उद्गतस्मितः ॥ २।११।४ ॥
अवलिप्त इति । अवलिप्ते मूढे स्त्रीणां मध्ये त्वत्तः प्रियतमा मम न विद्यते नास्ति, पुरुषाणां मध्ये मनुजव्याघ्रात्पुरुषश्रेष्ठाद्रामादन्यो मनुजः प्रियतमो न विद्यत इति न जानासि ? ॥ २।११।५ ॥
तेनेति । अजय्येन शत्रूणां जेतुमशक्येन, मुख्येन श्रेष्ठेण, जीवनार्हेण मम जीवनहेतुना ते शपे त्वन्निमित्तं प्रतिजाने, मनसा यदिच्छसि तद्ब्रूहीत्यन्वयः ॥ २।११।६ ॥
जीवनार्हेणेति प्रियतमत्वं प्रकाशितम्, तदेव प्रियतमत्वं दर्शयतियमिति । मुहूर्तम् अल्पकालम् । ते तव । वचनक्रियां वचनकरणम् । रामेण शप इत्यन्वयः ॥ २।११।७ ॥
आत्मनेति । आत्मना मया वा आत्मजैः पुत्रैः अन्यैः प्राणिभिः आत्मानमितरानात्मजांश्च विहायापि यो वरणीयस्तेन रामेणेत्यन्वयः ॥ २।११।८ ॥
भद्र इति । हे भद्रे यदेतन्मे हृदयमभिप्रायः सर्वथा त्वद्वचनक्रियाविषयकः । यद्वा हृदयमपि एतत् एतादृशम् । वागनुसारीत्यनुमृश्य विचार्य, त्वदभीष्टकथनेन मामुद्धरस्व अस्माद्दुःखादुद्धर । एतदपि एतन्मदुद्धरणमपि कर्तव्यं नवेति च समीक्ष्य विचार्य अतः परं यत्साधु तव हितं मन्यसे तद्ब्रूहि । अथवा एतत् वाङ्मनसयोरैक्यं निरीक्ष्य यत्साधु मन्यस इति वार्थः ॥ २।११।९ ॥
नात्र सिद्धयसिद्धिशङ्का कर्तव्येत्याहबलमिति । आत्मनि त्वयि । बलं मत्प्रेमरूपं बलम् । पश्यन्ती जानन्ती सती मां शाङ्कितुं नार्हसि मत्पतिः मदीयं कार्यं करिष्यति वा न वेति सन्देहं माकार्षीरित्यर्थः ॥ २।११।१० ॥
सेति । तदर्थमनाः तस्मिन् सङ्कल्पिते ऽर्थे मनो यस्याः सा । तमभिप्रायमागतम् आनुकूल्यं प्राप्तं दशरथं निर्माध्यस्थ्यात् स्वपुत्रपक्षपातात् हर्षाच्च पतिरपि सर्वं स्वकार्य करिष्यतीत्यानन्दाच्चेत्यर्थः । दुर्वचं शत्रूणामपि वक्तुमशक्यं वचः बभाषे भाषितुमालोचनं कृतवती ॥ २।११।११ ॥
तेनेति । तेन वाक्येन रामशपथपूर्वकस्य वचनक्रियावाक्येन संहृष्टा । तमभिप्रायं पुत्रराज्यरामप्रव्राजनरूपाभिप्रायम् । अभ्यागतम् अकस्मादागतम् अन्तकमिव महाघोरं राज्ञः प्राणहरम् व्याजहार व्याहर्तुं निश्चितवती ॥ २।११।१२ ॥
राजप्रतिज्ञाया दुष्करघोरार्थविषयकत्वाद्विफलत्वशङ्कया तत्प्रतिज्ञामशेषसाक्षीकरणेन स्थिरीकरोतियथा क्रमेणेत्यादि । यथाक्रमेण अतिप्रियपुत्रसुकृतादिपरिग्रहक्रमेण, शपसि शपथं करोषि तत्पुर्वकं वरं मम ददासि च अभीष्टं दातुं निश्टितवानसि नात्र सन्देहः किल, तदेव त्वन्निश्चयं देवादयः शृण्वन्तु ॥ २।११।१३ ॥
जगत् परोक्षस्वर्गादिभुवनम्, पृथिवी प्रत्यक्षभुवनदेवता इति उक्तप्रकारेण देवी महेष्वासं राजानं परिगृह्य स्वमते स्थाप्य ॥ २।११।१४,१५ ॥
सत्यसन्ध इत्यादिना स्ववचनकृतिस्थैर्यायैवाभिशस्य तमुवाच ॥ २।११।१६,१७ ॥
किमुवाचेत्यत आहस्मरेति । तत्र रात्रियुद्धे, शत्रुः शम्बरः, तव जीवितमन्तरा प्राणं विना त्वामच्यावयत् प्रच्युतवीर्यमकरोत् । अथवा तत्र रणे । अन्तरा मध्ये । शत्रुः तव जीवितमच्यावयत्
अचालयत्, अमेहयदिति वार्थः ॥ २।११।१८ ॥
तत्रेति । तत्र रणे, हे देव यद्यस्मात् त्वं मया समभिरक्षितः ततः तस्मात् यतमानायाः तव रक्षणे यत्नं कुर्वन्त्याः जाग्रत्या जागरूकायाः मे मम वरौ प्रददाः दत्तवानसि ॥ २।११।१९ ॥
तौ तु दत्ताविति । हे पृथिवीपाल तव सकाशे विक्षेपरूपेण स्थापितौ तौ वरौ मृगयामि याच इत्यन्वयः ॥ २।११।२० ॥
प्रकृतमुपसंहरतितदिति । तत्तस्मात् धर्मेण मह्यं वरद्वयं दास्यामीति प्रतिश्रुत्य प्रतिज्ञां कृत्वा दास्यसि न चेत् तवैव सकाशे अद्यैव जीवितं प्रहास्यामीति ॥ २।११।२१ ॥
वाङ्मात्रेणेति । वाङ्मात्रेण पूर्वदत्तवरस्मारकवचनमात्रेण पाशं वरप्रदानाभ्युपगमसंज्ञम्, प्रचस्कन्द प्रविवेश, विशेषतो वरस्वरूपे अनुक्ते सत्येव तौ वरौ मे धारयसीत्येतावन्मात्र एवाभिहिते अननुकूलवरप्रदानाभ्युपगमसंज्ञं पाशमात्मनो विनाशाय प्राप्तवान् । क इव ? वाङ्मात्रेण गीतेन मृगशब्दानुकरणेन वा वशीकृतः पाशं वागुरां मृग इव ॥ २।११।२२ ॥
वरौ यौ म इति । तौ तावदद्यैव वक्ष्यामि मम दातव्यवराविमाविति विभज्य वक्ष्यामि तन्मे वचः शृणु ॥ २।११।२३,२४ ॥
अभिषेकेत्यादि । यः कल्पितः । अनेनेति योजना ॥ २।११।२५२७ ॥
एष इति । दत्तमेव वरं वृणे इति न त्वन्यायेन त्वां निर्बध्नामीदानीम्, न ह्युत्तमर्णेनाधमर्णाद्दणग्रहणं तस्य तत्कालपीडेत्येतावता दोष इत्याशयः ॥ २।११।२,।२९ ॥
इममेवार्थं स्पष्टमुपदिशतिस राजराज इति । राजराजः प्रसिद्धः । त्वं सत्यसङ्गरो भव, तेनैव हेतुना कुलादिकं रक्ष । सत्यसङ्गरत्वमेव स्वजन्मादिरक्षणसाधनमिति कुत इत्यत्राह परत्रेत्यादि । परत्रवासे परलोकविषये हितं वदन्ति ॥ २।११।३० ॥
इति श्रीमहेश्वरतीर्थाविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायामयोध्याकाण्डव्यख्यायाम् एकादशः सर्गः ॥ २।११ ॥