विदर्शितेति । विपरीतमर्थ ग्राहिता यदाभवत् तदा दिग्धविद्धा दिग्धेन विषाक्तेन बाणेन विद्धा प्रतिहता किन्नरीव ॥ २।१०।१ ॥
निश्चित्येति । सा स्वयं मनसा कृत्यं मन्थरोपदिष्टं कार्यं निश्चित्य युक्तमेवैतदिति निर्धार्य आवाभ्यामालोचितं सर्वं सम्यगेवेति मन्थरायै शनैराचचक्ष इत्यन्वयः ॥ २।१०।२ ॥
सा दीनेत्यादि सार्धश्लोक एकान्वयः । दीना स्वोद्योगो भविष्यति वा नवेति । निश्चयाभावात् निश्चयं कृत्वा स्वोद्योगः फलिष्यतीति निश्चयं कृत्वा आत्मसुखावहं मार्गं तं निश्चितोपायं मुहूर्तं चिन्तयामास ॥ २।१०।३ ॥
सेति । मन्थरा सुहृत् परमार्थभूता । अर्थकामा कैकेयीकार्यपरा । निश्चयं कैकेयी तं कार्यनिश्चयं निशम्य ज्ञात्वा सिद्धिं प्राप्येव परमप्रीता बभूव । संविवेशाबला भूमाविति पुनः संवेशनोक्तिर्भुकुटीकरणविशेषकथनार्थम् ॥ २।१०।४।५ ॥
तत इति । अपविद्धानि त्यक्तानि ॥ २।१०।६।७ ॥
क्रोधागार इति । गतसत्त्वेव गतासुरिव ॥ २।१०।८ ॥
आज्ञाप्येति । अभिषेचनम् अभिषेकसाधनम् । प्रतिज्ञाप्य नियम्य सुमन्त्रादीनिति शेषः । उपस्थानं सदः । अनुज्ञाप्य अनुज्ञां कारयित्वा, सभ्यैरनुज्ञात इत्यर्थः ॥ २।१०।९ ॥
अद्येति । रामाभिषेकः, अद्यैव इदानीमेव प्रसिद्ध इति जज्ञिवान्, इतःपूर्वं कैकेय्या ज्ञातुमवकाशो नास्तीति ज्ञातवानित्यर्थः । अतः स्वयमेव प्रियार्हां कैकेयीं प्रति प्रियमाख्यातुं अन्तःपुरं विवेश । पञ्चमसर्गे “विवेशान्तःपुरं राजा सिंहो गिरिगुहामिव” इत्युक्तस्यैवान्तःपुरप्रवेशस्य पुनः कथनं कथासङ्गत्यर्थम् ॥ २।१०।१० ॥
स इति । अत्र गृहस्य कैकेयीयुक्ततया पाण्डराभ्रराहुयुक्ताकाशसादृश्यं द्रष्टव्यम् ॥ २।१०।११ ॥
शुकेति । रुतायुतं रुतयुक्तम् । कुब्जावामनिकायुतम् कुब्जाः गडुलाः । वामनिकाः ह्रस्वाः । दान्ताः हस्तिदन्तैः कृताः ॥ २।१०।१२१६ ॥
स इति कामबलं मन्मथोद्रेकः, तत्संयुक्तः । अत एव रत्यर्थे भार्यामपश्यन् पप्रच्छ । प्रतीहारीमितिशेषः । विषसाद च ॥ २।१०।१७ ॥
विषादहेतुमेवाहनहीति । हि यस्मात् पुरा पूर्वं देवी कैकेयी, तस्य दशरथस्य तां वेलाम् आगमनसमयं नात्यवर्त नातिक्रान्तवती । पूर्वं भर्तुरागमने दिव्यालङ्कारयुक्ता सस्मिता कैकेयी भर्तुरानन्दं जनयन्ती सती तं समयं नातिक्रामति, इदानीं चातिक्रान्तेति विषादः । न चेति । शून्यं कैकेयीरहितं गृहम् ॥ २।१०।१८ ॥
तत इति । स्वार्थलिप्सुं स्वार्थं भरताभिषेकरूपं लब्धुकामाम्, अपण्डिताम् आगामिकार्यानभिज्ञाम् । यथापुरं यथापुर्वं । अविज्ञाय अदृष्ट्वा । पुर्वं यथा अदर्शनकाले पृच्छति तथा पर्यपृच्छत, प्रतीहारीमितिशेषः ॥ २।१०।१९ ॥
प्रतिहारीति । प्रतिहारी दौवारिकी, हे देव देवी क्रुद्धा क्रोधागारमभिदुतेत्युवाच ॥ २।१०।२० ॥
प्रतिहार्या इति । पुनः भूयोधिकं विषसादेत अदर्शनमात्रेण प्रथमं प्राप्तविषादस्य क्रोधागारप्रवेशश्रवणाद्विषादाधिक्यम् । लुलितव्याकुलेन्द्रियः । लुलुतानि क्षुभितानि व्याकुलानि चञ्चलानि इन्द्रियाणि यस्य स तथोक्तः ॥ २।१०।२१ ॥
तत्रेति । तत्र क्रोधागारे, अतथोचिताम् अधश्शायनाद्यनुचिताम् ॥ २।१०।२२ ॥
स इति । पापसङ्कल्पाम्पापः रामाभिषेकविघातानुकूलः सङ्कल्पो मनीरथो यस्यास्ताम् ॥ २।१०।२३ ॥
लतामिति । विनिष्कृतां छिन्नाम् । पतितां पुण्यक्षयात्स्वर्गात्परिभ्रष्टाम्, देवतामिव स्थिताम्, च्युतां स्वर्गच्युताम्, मायामिव परिभ्रष्टां परमोहनार्थं प्रयुक्तां मायामिव स्थिताम्, संयतां वागुरादिना बद्धाम्, हरिणीमिव स्थिताम् वने मृगयुना व्याधेन कर्त्रा, दिग्धेन विषलिप्तबाणेन विद्धां प्रहृताम् करेणुं करिणीमिव स्थिताम् भार्यां ददर्शेति पूर्वेणान्वयः ॥ २।१०।२४,२५ ॥
महागज इति । अरण्ये महागजः पूर्वोक्तविशेषणयुक्तां करेणुमिवेत्यनुषज्यते । स्नेहात् तां कैकेयीं परिमृश्य परिस्पृश्य, अभिसन्त्रस्तचेतनः किं करिष्यति किं वदिष्यतीत्याभिसन्त्रस्ता चेतना धीर्यस्य स तथा । कामी दशरथः । वनितामिदमुवाचेत्यन्वयः ॥ २।१०।२७ ॥
न ते ऽहमिति । हे देवि । आत्मनि मयि संश्रितं ते तव क्रोधं क्रोधकारणम्, अहं नाभिजानामि केनाभियुक्ता निन्दिता विमानिता निराकृता तत्सर्त्वं कथयेति भावः ॥ २।१०।२८ ॥
यदिदमिति । हे कल्याणि त्वं पांसुषु शेषे लुठसीति यत् इदं परिवर्तनं मम दुःखाय भवति । कल्याणचेतसि किञ्च अनपकारिणीति यावत् । मयि जीवति सति शेषः । त्वं किमर्थं शेषे शयितासि, भूतोपहतचित्तेवप्रहाविष्टचित्तेव ॥ २।१०।२९,३० ॥
सन्तीति । कुशलाःसर्वव्याधिनिवारणकुशलाः, अभितुष्टाः, मदीयसत्कारैरिति शेषः । सर्वशःसर्वप्रकारेण, व्याधिमाचक्ष्वेति व्याधिप्रयुक्तं चेच्छयनामिति शेषः ॥ २।१०।३१ ॥
कस्य वेत्यादि । त्वया कस्य वा प्रियं कार्यं केन वा विप्रियं कृतम्, पक्षद्वयनिमित्तोपि क्रोधो मात्स्वित्याहकः प्रियमित्यादि । को वा मत्तः प्रियं लभतां को वा अप्रियं लभताम् ॥ २।१०।३२ ॥
परिशोषणम्कायक्लेशः ॥ २।१०।३३,३४ ॥
न ते किञ्चिदित्यादि । ते तव अभिप्रायम् । अभिप्रेतं मनोरथम् किञ्चित् किञ्चिन्मात्रमपि व्याहन्तुम् अहं नोत्सहे, अतः आत्मनो जीवितेनापि यदिच्छसि तद् ब्रूहि । यद्वा आत्मनो जीवितेनापि निजजीवितेनापि हेतुना त्वत्प्रियं व्याहन्तुं नोत्सह इति वार्थः । बलमिति । आत्मनि त्वयि, बलं मामकप्रेमाख्यं बलं जानन्ती सती मां शङ्कितुं नार्हसि, त्वयि मत्प्रेम्णो गरीयस्त्वाच्छङ्का न कार्येत्यर्थः । सुकृतेनापि शपे, किमुतान्यैरिति भावः । यद्वा आत्मनि मयि बलं दुष्करस्यापि सम्पादनसामर्थ्यं जानन्ती सती मनोरथः सिद्ध्यति वा नवेति शङ्कां कर्तुं नार्हसीति वार्थः ॥ २।१०।३५३७ ॥
यावादित्यादि । चक्रं भूचक्रम् आज्ञाचक्रं वा सूर्यमण्डलं वा यावदावर्तते, तावती तावद्विस्तीर्णा वसुन्धरा भूमिः, मे मम, आधीनेति शेषः । प्राचीना इत्यादि । ये जनपदाः सन्ति, तत्र तेषु, जातं यद्धनधान्यादिकमस्ति ततः तेषु द्रव्येषु, यत्त्वं मनसेच्छसि तद्वृणीष्वेति योजना ॥ २।१०।३८४१ ॥
तदिति । रश्मिवान् सूर्यः ॥ २।१०।४२ ॥
तथोक्तेति । समाश्वस्ता विश्वासं प्रापिता, भूयः परिपीडयितुमिति निजभूशयनादिपीडित एव पूर्वं तं भर्तारम् अप्रियवचनेन पुनः परिपीडयितुमुपक्रान्तवतीत्यर्थः ॥ २।१०।४३ ॥
इति क्षीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायामयोध्याकाण्डव्याख्यायां दशमः सर्गः ॥ २।१० ॥