एवमुक्तेति । एवमुक्तेति । मन्थरया पूर्वरीत्या बोधिता ॥ २।९।१ ॥
अद्येति । इतः नगरात् ॥ २।९।२,३ ॥
एवमुक्तेति । रामार्थं रामाभिषेकप्रयोजनम् । उपहिंसन्ती विघातयन्ती ॥ २।९।४ ॥
हन्तेति हर्षे । कैकेयी स्वमतानुवर्तिनी जातेति हर्षः । ते पुत्रो भरतः केवलं भरत एव यथा येनोपायेन राज्यं प्राप्स्यति तमुपायं मे मत्तः श्रूयताम्, तवोपायज्ञानाभावे मत्सकाशाच्छ्रूयतामित्यर्थः ॥ २।९।५ ॥
किं न स्मरसीति । हे कैकेयि यत् यस्मात् मया उच्यमानं आत्मार्थं आत्मप्रयोजनोपायम् । मत्तः मत्सकाशादेव । श्रोतुमिच्छसि अतस्तमुपायं न स्मरसि किम् ? स्मरन्ती वा निगूहसे आच्छादयसि किम् ? ॥ २।९।६ ॥
मयेति । हे विलासिनि मयोच्यमानं त्वत्प्रयोजनमिति शेषः । ते छन्दः इच्छा यदि ॥ २।९।७,८ ॥
महोपायम् अमोधोपायम् (महोपायमिति पाठः) वरं स्मारयितुं पूर्वकथामाहतवेति । श्लोकद्वयमेकं वाक्यम् । हे देवि । तव पतिः देवासुरे युद्धे देवराजस्य साह्यकृत् सहायभूतस्सन् त्वामुपादाय दक्षिणां दिशमास्थाय आश्रित्य स्थितान् दण्डकान् प्रति अगच्छत् वैजयन्तं पुरं चागच्छत् । तिमिध्वजः शम्बरः ॥ २।९।९१२ ॥
स इति । सुरैरनिर्जितः देवसङ्घैः सहितस्य शक्रस्य सङ्ग्रामं ददौ ॥ २।९।१३ ॥
तस्मिन्निति । क्षतविक्षतान्क्षताः शूलादिभिः सञ्जातव्रणाः, विक्षताः खड्गपरशुपट्टसादिभिः विविधं प्रहृताः तान्, प्रसुप्तान् । घ्नन्ति स्मेत्यनेन पुरुषाणां क्षतविक्षतत्वं दिवायुद्धकृतमित्यवगम्यते ॥ २।९।१४ ॥
तत्रेति । तत्र सुप्तप्रदेशे । तदा प्रहारकाले ॥ २।९।१५ ॥
अपवाह्येति । नष्टचेतनः मूर्च्छितः । त्वया सारथ्यं कुर्वाणया । अपवाह्या अन्यत्र नीत्वा रक्षितः, तत्रापि तस्मिन् स्थले । शस्त्रैर्विक्षतः पुनर्युद्धे विशेषेण त्वया रक्षित इत्यन्वयः । तत्रापि रक्षित इत्यनेन ततोप्यन्यत्र नीत्वा रक्षित इति ॥ २।९।१६२० ॥
चतुर्दशेति । प्रजाभावगतस्नेहःप्रजानां भावगतः हृदयगतः स्नेहः स्वविषयकस्नेहः यस्मिन् स तथोक्तः । स्थिरः अप्रकम्प्यः भविष्यति ॥ २।९।२१ ॥
क्रोधागारं कुद्धाः स्त्रियो यत्र शेरते तत्क्रोधागारम् । मलिनवासिनी मलिनवस्त्रधरा सती अनन्तर्हितायाम् अनावृतायां भूमौ शेष्व शयिता भव ॥ २।९।२२ ॥
मा स्मैनमिति । एनं दशरथं मा प्रतुदीक्षेथाः, न पश्येदित्यर्थः । माभिभाषेथाः सम्भाषणं न कुरु । जगत्यां भूमौ शोकलालसा तं भर्तारं द्दष्ट्वा रुदन्ती भवेति शेषः ॥ २।९।२३ ॥
यद्येवं क्रियते तर्हि मम भर्तृपरित्यागरूपो ऽनर्थ एव स्यादित्यत आहदयितेति । सदा सर्वावस्थास्वपि । अत्र अस्मिन्नर्थे ॥ २।९।२४२७ ॥
यौ ताविति । अददादिति छेदः । सो ऽर्थ इति छेदः । सोर्थो मा त्वामतिक्रमेत् अस्मच्चिन्तितार्थः । रामविवासनभरताभिषेकरूपो ऽर्थः त्वां मातिक्रमेत् मातिक्रमतु, दशरथेन मणिरत्नादिना लोभिता सती प्रक्रान्तं कार्यं (मध्ये) न परित्यक्तुमर्हसीति भावः ॥ २।९।२८ ॥
यदा त्विति । राघवः दशरथः उत्थाप्य त्वामिति शेषः । ते तुभ्यं वरं दद्याद्यदि तदा महाराजं दशरथं व्यवस्थाप्य सत्ये स्थापयित्वा ॥ २।९।२९ ॥
वरमभिनीय दर्शयतिराममिति । अत्र श्लोक इतिकरणं द्रष्टव्यम् । तथा च इति वरं वृणुया
इति पूर्वोणान्वयः ॥ २।९।३० ॥
चतुर्दशेति । रूढः लब्धप्रतिष्ठः । कृतमूलः वशीकृतमूलबलः । शेषं चतुर्दशवर्षव्यतिरिक्तपुरुषायुषकालम् । अतः पुनरागमनेपि न रामस्य राज्याशेति तात्पर्यम् ॥ २।९।३१,३२ ॥
एवमिति । रामो ऽरामो भविष्यतीति स्वयमेक एव भविष्यति । रमयत्यानन्दयतीति रामः । मुनिनामिति शेषः ॥ २।९।३३ ॥
येनेति सार्धश्लोकमेकं वाक्यम् । तेन कालेन चतुर्दशसंवत्सरात्मकेन कालेन । ते तव पुत्रः सङ्गृहीमनुष्यस्स्न् सुहृद्भिस्सार्द्ध कृतमूलो भविष्यतीत्यन्वयः ॥ २।९।३४ ॥
प्राप्तकालमिति । वीतसाध्वसा त्यक्तभया सती त्वं राजानं निगृह्य निर्बन्धेन स्वाधीनं कृत्वा रामाभिषेकसम्भारान्निवर्तय, एतन्निवर्तनं प्राप्तकालं मन्य इत्यर्थः । अभिषेकसम्भारनिवर्तनस्यायमेव काल इत्यर्थः ॥ २।९।३५ ॥
अनर्थमित्यादि श्लोकद्वयमेकान्वयम् । अनर्थं रामविवासनरूपम्, वस्तुतः स्वस्यैव प्रतिकूलमित्यर्थः । अर्थरूपेण अनुकूलार्थरूपेण । ग्राहिता प्रतिबोधिता । प्रतीता तथैव गृहीतार्था, अत एव हृष्टा ॥ २।९।३६ ॥
सेति । उत्पथं गता अमार्गं गता किशोरी बहवा, परमदर्शना सुन्दरी । यद्वा परम् अत्यन्तम् अदर्शना विरुद्धदर्शना परं विस्मयं प्राप्ता कैकेयी मन्थरामब्रवीदिति सम्बन्धः ॥ २।९।३७ ॥
कुब्ज इति । श्रेष्ठाभिधायिनीं श्रेष्ठवचनमभिदधाति वक्तीति तथा, हितोपदेशं कुर्वन्तीमित्यर्थः । श्रेष्ठां त्वां नाभिजानामि । श्रेष्ठत्वमेवाह पृथिव्यामिति । बुद्धिनिश्चये उत्तमासि ॥ २।९।३८ ॥
मम हिताचरणेनापि तवोत्तमत्वमित्याह त्वमेवेति । हितैषिणी, भवसीति शेषः । राज्ञः चिकीर्षितं कर्तुमिष्टं रामाभिषेकम् ॥ २।९।३९ ॥
सन्तीति । दुस्संस्थिताः दुष्टावयवसंस्थानविशेषयुक्ताः त्वं प्रियदर्शना सुन्दरी, त्वं पझमिव वातेन सन्नता नम्रासि, यथा सहजसुन्दरं पझं वातेन नम्रमपि न निन्द्यते तथा वातोद्रेकात् वक्रतामापन्नापि त्वं न निन्द्यासीति भावः ॥ २।९।४० ॥
उर इति । उरः वक्षः । अभिनिविष्टम् अभितः पार्श्वयोर्निविष्टम् । समसन्निवेशम् यावत्संस्थानम्, मध्य इति यावत् । विभक्त्यर्थे ऽव्ययीभावः । यावत्स्कन्धात्समुन्नतमिति पाठेयावत्स्कन्धात् स्कन्धपर्यन्तम् । समुन्नतम् उच्छ्रितम् । अधस्तात् वक्षसोधःप्रदेशे स्थितमिति शेषः । सुनाभं शोभननाभि, उदरं च लज्जितमिव शातम्, उरस उन्नतिं द्दृष्ट्वा व्रीडितमिव कृशामित्यर्थः । अधस्ताच्चैव संशातमिति पाठे सुनाभशब्देनोदरमुच्यते ॥ २।९।४१,४२ ॥
जघनमिति । रशनादामशोभितं सत् निर्घुष्टं शब्दायमानम्, उपन्यस्ते समीचीनावयवसंस्थानयुक्ते ॥ २।९।४३ ॥
त्वमिति । आयताभ्यां सक्थिभ्यामूरुभ्याम् ॥ २।९।४४,४५ ॥
तवेति । स्थगु विस्तृतोन्नतावयवसंनिवेशम्, वक्ष इत्यर्थः । रथघोणं चक्ररन्ध्रसमीपोन्नतप्रदेशः, तद्वदायतम् । पार्श्वयोः समसंनिवेशः मध्ये उन्नतो लोकविलक्षणो वक्षोविशेषः स्थगुशब्दार्थः । ततः किमत आह मतय इति । मतयः “स्मृतिर्व्यतीतविषया मतिराहाभिगोचरा । बुद्धिस्तात्कालिकी ज्ञेया प्रज्ञा त्रैकालिकी मता ॥ " इत्युक्तविषयविभागेन मतेर्बाहुल्यम् । क्षत्रविद्या राजनीतयः, मायाः विचित्रकुत्सितशक्तयः । अत्र स्थगुनि । वसन्ति तिष्ठन्ति ॥
२।९।४६ ॥
अत्रेति । अत्र ते तव स्थगुनि मालां प्रतिमोक्ष्यामि स्थापयामि ॥ २।९।४७ ॥
किञ्च जात्येनेति । लब्धार्था प्राप्तमनोरथा प्रतीता संतुष्टा जात्येन शुद्धेन सुवर्णेनालङ्कृतं ते स्थगु चन्दनादिना लेपयिष्यामीत्यर्थः । जात्येन जातौ भवं जात्यम् । तेन सुवर्णेन लेपयिष्यामि, उत्तमसुवर्णकृतेन कञ्चुकेनालङ्करिष्यामीति वार्थः । चन्दनसंवृष्टसुवर्णेन लेपयिष्यामीति वार्थः । जात्यसुनिष्टप्तसुवर्णकृतभूषणेन लेपयिष्यामि गुप्तं करिष्यामीति वार्थः । तथाविधसुवर्णसदृशचन्दनादिना लेपयिष्यामीति वार्थः ॥ २।९।४८५० ॥
चन्द्रमिति । चन्द्रमाह्वयमानेन चन्द्रं सुहुः स्पर्द्धमानेन द्विषज्जने गर्वं कुर्वन्ती मुख्यां गतिं गमिष्यसि ॥ २।९।५१५३ ॥
एवं वृथाजल्पेन कालात्ययो मास्त्विति त्वरयति गतेत्यादि । रामाभिषेकानन्तरं वरग्रहणं व्यर्थमित्यर्थः । राजानमनुदर्शय, राजागमनं प्रतीक्षस्वेत्यर्थः । यद्वा राजानमनुदर्शय क्रोधागारमिति शेषः ॥ २।९।५४,५५ ॥
अनेकशतसाहस्रं बहुमूल्यम् अवमुच्य त्यक्त्वा ॥ २।९।५६ ॥
हेमोपमा सुवर्णाङ्गी ॥ २।९।५७ ॥
इहेति । हे कुब्जे राघवे वनं प्राप्ते सति भरतः क्षितिं प्राप्स्यतीति नृपाय केकयराजाय आवेदयिष्यसि नो चेदिति शेषः । मामिहि क्रोधागारे मृतां सतीं वा केकयराजायावेदयिष्यसि । यद्वा मदुपेक्षकाय दशरथायावेदयिष्यसि । यदि मे सांत्वना तदा राघवे वनं प्राप्ते भरतः क्षितिं प्राप्स्यति नतु पक्षान्तरमित्यर्थः ॥ २।९।५८,५९ ॥
अथो इति । अत्यर्थमहापराक्रमैः महाक्रूरैर्वचोभिरुपलक्षिता ॥ २।९।६०,६१ ॥
तथेति । कुपिता, राजानं प्रतीति शेषः । अतिविद्धा संतप्ता मुहुर्मुहुः समाहता पीडिता शशंस उवाचेत्यर्थः ॥ २।९।६२ ॥
यमस्येति । अत्र श्लोक इतिपदं केकयराजायेति पदं वा दशरथायेति पदं वा अध्याहार्यम् ॥ २।९।६३ ॥
अहमिति । नाञ्जनपानभोजनमित्यत्रैकवद्भावः । आस्तरणानि चित्रकम्बलादीनि ॥ २।९।६४ ॥
अथेति । अथ मन्थरासमीपे प्रतिज्ञानन्तरम् सर्वाभरणानि निधाय निक्षिप्य, भूमाविति शेषः । पुण्यक्षयात् भूमौ पतिता किन्नरीव मेदिनीं मेदिन्याम् अधिशिश्ये । सप्तम्यर्थे द्वितीया । असंवृतां मृदुतल्पादिना अनाच्छादिताम् ॥ २।९।६५ ॥
उदीर्णेति । तदा शयनकाले, उदीर्णः उद्रिक्तसंरम्भः क्रोध एव तमः तेन वृतमाननं यस्यास्सा तथोक्ता, विमनाः दुर्मनाः मग्नतारका अस्तमिततारका द्यौः आकाशमिव स्थिता ॥ २।९।६६ ॥
इति श्रीमहेश्वरतीर्थविरचितायां क्षीरामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां नवमः सर्गः ॥ २।९ ॥