मन्थरेति । अभ्यसूय असूयां कृत्वा ॥ २।८।१ ॥
हर्षमिति । बालिशे मीर्खे अस्थाने अप्रहर्षविषये हर्षं कृतवत्यसि, इदं किं चित्रमित्यर्थः । आत्मानं त्वा ॥ २।८।२ ॥
मनसेति । यद्यस्मान्महदिदं व्यसनं रामराज्यप्राप्तिरूपां विपदं प्राप्य शोचितव्ये हृष्टासि तस्मात् दुःखार्दिता परमदुःखेन पीडिता अहं त्वां मनसा प्रहसामि ॥ २।८।३ ॥
शोचामीति । वे तव । दुर्मतित्वं दुष्टबुद्धित्वम् । मतेर्दुष्टत्वमनर्थविषयप्रीतिजनकत्वम् । मृत्योरिव मृत्युतुल्यस्य सपत्नीपुत्रस्य अरेः शत्रोः श्रीरामस्य आगतां प्राप्तां वृद्धिं राज्यश्रियं का हि प्राज्ञा ऊहापोहसमर्था का हि का वा प्रहर्षयेत् प्रहर्षसाधनं कुर्यात् ॥ २।८।४ ॥
भरतादिति । राज्यसाधारणात् राज्यं साधारणं यस्य तस्माद्भरतादेव रामस्य भयं यदस्ति तद्भयं विचिन्त्य विषण्णास्मि । कुतः ? हि यस्माद्भयं भीताद्धि जायते । भीतो रामः स्वभयहेतुभूतं भरतं सर्वप्रकारेणापि निराकुर्यादिति भावः ॥ २।८।५ ॥
लक्ष्मणशत्रुघ्नयोरपि राज्यसाधारण्यं किं न स्यादित्याशङ्क्य तयोस्तत्परतन्त्रत्वान्न साधारण्यमित्याहलक्ष्मणो हीति । सर्वात्मना सर्वप्रकारेण रामं गतः प्राप्तः ॥ २।८।६ ॥
लक्ष्मणशत्रुघ्नयोः राज्यसाधारण्याभावे युक्त्यन्तरमाहप्रत्यासन्नक्रमेणेति । प्रत्यासन्नक्रमेण जन्मप्रत्यासक्तिक्रमेणापि भरतस्यैव राज्यक्रमः सन्निहित इति शेषः । यवीयसोर्लक्ष्मणशत्रुघ्नयोः राज्यक्रमो विप्रकृष्टः, दूरापास्त इत्यर्थः ॥ २।८।७ ॥
विदुष इति । क्षत्रचारित्रे राजनीतिविषये । विदुषः प्राप्तकारिणः अविलम्बेन कालोचितकर्तव्यार्थकारिणः रामस्य भयात् ॥ २।८।८ ॥
कैकेय्या ईर्ष्योत्पादनार्थ कौसल्यासौभाग्यं दर्शयतिसुभगेत्यादिना । यौवराज्येनेति हेतौ तृतीया ॥ २।८।९ ॥
प्राप्तामिति । प्रतीतां विश्रुताम् ॥ २।८।१०,११ ॥
हृष्टा इति । रामस्य परमाः स्त्रिय इत्यनेन बहुवचनेन सीतासख्य उच्यन्ते, स्नुषा इत्यत्राप्येवमेवेति ज्ञेयम् । भरतक्षये भरतगृहे ॥ २।८।१२ ॥
तामिति । परमप्रीतामित्यत्र परम् अप्रीतामिति छेदः ॥ २।८।१३ ॥
मन्थरोक्तं राज्यसाधारण्यं निवर्तयतिधर्मज्ञ इत्यादिना । गुरुभिर्दान्तः गुरुभिस्सुशिक्षित इत्यर्थः ॥ २।८।१४,१५ ॥
भरत इति । वर्षशतात्परं रामराज्यानन्तरमित्यर्थः । अन्यदा दशवर्षसहस्राणीत्युक्तिविरोधात् । अवाप्ता अवाप्स्यति ॥ २।८।१६ ॥
सा त्वमिति । अभ्युदये रामाभिषेकरूपे प्राप्ते समासन्ने सति । कल्याणे भरताभिषेकरूपे नियतकाले न भविष्यति सति किमर्थ परितप्यसे ॥ २।८।१७ ॥
यथेति । तथापि ततोपि भरतादपि भूयः अतिशयेन राघवो मान्यः । कुतः ? कौसल्यात इति ॥ २।८।१८ ॥
न केवलं वर्षशतात्परमिदानीमपि भरतस्य राज्यमस्तीत्याहराज्यं यदि हीति ॥ २।८।१९,२० ॥
अनर्थदर्शिनीति । शोकव्यसनविस्तीर्णेविलापहेतुः शोकः । व्यसनं विपत् ॥ २।८।२१ ॥
श्रीरामानन्तरमपि भरतस्य राज्यं नास्तीत्याहभवितेति । राघवो राजा भविता भविष्यति यदि तर्हि राघवस्य यः सुतः स एव राजा भविष्यतीत्यर्थः । राजवंशात्परिहास्यते निर्वास्यते । भरतस्य
तत्सुतानां च राज्यप्राप्तिशङ्कैव नास्तीति भावः ॥ २।८।२२ ॥
ननु क्षीरामानन्तरं रामसुतानां भरतसुतानां च राज्यप्राप्तिर्भवत्वित्याशङ्क्य सर्वस्वातन्त्र्ये राज्यं शिथिलं भवेदित्याहन हीति । अनयः राज्यशैथिल्यरूपः ॥ २।८।२३ ॥
तस्मादिति । राज्यतन्त्राणि राज्यङ्गानि हस्त्यश्वादीनि ॥ २।८।२४ ॥
असाविति । वत्सले हे पुत्रवत्सले ॥ २।८।२५ ॥
साहमिति । या त्वं सपत्निवृद्धौ सत्यां प्रदेयं पारितोषिकं दातुमिच्छसि, ततो मां नावबुध्यस इति योजना । (अर्हसीति पाठेअर्हेवाचरसि इच्छसीत्यर्थः ) ॥ २।८।२६ ॥
ध्रुवमिति । नयिता नयिष्यति ॥ २।८।२७ ॥
रामकृतं भाव्यनिष्टं प्रदर्श्य कैकेयीकृतमप्यनर्थं प्रदर्शयतिबाल इति । मातुल्यं मातुलगृहम् । नायितः प्रापितः । अनेन का हानिरित्याशङ्क्य हानिमेव दर्शयतिसन्निकर्षादिति । स्थावरेष्वपि तृणगुल्मलतादिष्वपि, सन्निकर्षात् अत्यन्तसान्निधानात् सौहार्दं जायते अन्योन्यसंश्लेषरूपसुहृद्भावो जायते । प्राज्ञेषु रामभरतादिषु सौहार्दं किमु वक्तव्यम् । ताद्दशसन्निकर्षस्त्वया विघटित इति भावः ॥ २।८।२८ ॥
शत्रुघ्ने वा सन्निकृष्टे तदीयस्नेहाद्भरते रामस्य सौहार्दं भवेत्, सोप्यसन्निकृष्ट इत्याहभरतस्येति । लक्ष्मणो हीति । हि यस्मात् ॥ २।८।२९ ॥
स्थावरेष्वपि सन्निकर्षाद्धेतोः सौहार्दमिति यदुक्तं तदेवोपपादयतिश्रूयते हीत्यादिना । वनजीविभिः वनोद्भूततृणकाष्ठजीविभिर्व्याधादिभिः । छेत्तव्यः कश्चिद् द्रमः इषीकाभिः कण्टकप्रचुरवेत्रतृणलतादिभिः । सन्निकर्षाद्धेतोः परमाद्भयात् छेदनरूपभयात् । मोचितः आच्छाद्य रक्षित इति श्रूयते हीति योजना । तस्मात् सन्निकर्षो रक्षणकारणमिति ताद्दशसन्निकर्षस्त्वयैव परिहृत इति प्रघट्टिकार्थः ॥ २।८।३०३२ ॥
तस्मादिति । तस्मात्पापकरणाद्धेतोः राजगृहात् केकयराजगृहादेव । एतद्धीति अर्धत्रयमेकं वाक्यम् । भरतः धर्मात् राजधर्मात् पित्र्यं राज्यं यद्यवाप्स्यति एतद्धि मह्यं रोचते तवापि भृशं हितम् एवं सति ते तव ज्ञातिपक्षस्य बन्धुवर्गस्य श्रेयश्चैव भविष्यतीत्यन्वयः ॥ २।८।३३३५ ॥
अभिदुतमिति । प्रच्छाद्यमानम् आक्रम्यमाणम् ॥ २।८।३६ ॥
दर्पादिति । सौभाग्यवत्तया पतिवाल्लभ्येन कथं वैरं न यातयेत् वैरनिर्यातनं कथं न कुर्यादित्यर्थः ॥ २।८।३७,३८ ॥
यदेति । आत्मजे भरते । राज्यं राज्यप्राप्तिकारणम् । सञ्चिन्तयतु परस्य रामस्य विवासकारणं संचिन्तय ॥ २।८।३९ ॥
इति श्रीमहेश्वरतीर्थविरचित श्रीरामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां अष्टमः सर्गः ॥ २।८ ॥