पूर्वसर्गे ऽगते पुरोहिते रामःऽ इत्यारभ्य ऽपूर्वां सन्ध्यामुपासीनःऽ इत्यन्तेन ग्रन्थसन्दर्भेण सूर्योदयपर्यन्तं रामवृत्तान्तमनुवर्ण्य सम्प्रति कैकेय्याः पूर्वदिवसवृत्तान्तमनुसन्धत्ते ज्ञातिदासीत्यादिना । कैकेय्याः ज्ञातीनां बन्धूनां दासी यतो जाता यत्रकुत्रचिज्जाता, अविज्ञातमातापितृकेत्यर्थः । अतो ऽस्याः कैकेय्या दासीत्वमपि स्वोदरपूरणार्थं स्वीकृतमित्यवगन्तव्यम् । सहोषिता कैकेय्या सह स्थिता । चन्द्रसङ्काशं सुधाधवलितत्वात् । प्रासादं हर्म्यम् ॥ २।७।१ ॥
सिक्तेति । प्रासादात् प्रासादमधिरुह्येत्यर्थः । ल्यब्लोपे पञ्चमी । कृत्स्रामयोध्याम् अन्ववैक्षत । एतच्चाभिषेकदिवसात्पूर्वेद्युर्वृत्तान्तमिति ज्ञेयम् ॥ २।७।२ ॥
पताकाभिरिति । वरार्हाभिः श्रेष्ठाभिः । एताकाभिः सुक्ष्मध्वजैः । ध्वजैः स्थूलध्वजैः । छन्नपर्थैः पूरितनिम्नोन्नतप्रदेशैर्मार्गैः तैः । कृताम् अलङ्कृताम् । छन्दपथैरिति पाठे छन्दपथानाम उत्सवादिषु जनभूयस्त्वेन स्वैरप्रवेशनिर्गमनार्थं प्राकारादिभङ्गेन ये क्रियन्ते ते ज्ञेयाः । शिरस्स्नातजनैः कृतमङ्गलस्नानजनैः वृतां, माल्यमोदकहस्तैश्च श्रीरामोपासनार्थं माल्यमोदकरूपमङ्गलद्रव्याणि हस्तेषु दधानैरित्यर्थः । शुक्लानि सुधाधवलितानि देवगृहाणां द्वाराणि यस्यां ताम् । ब्रह्मधोषाभिनादिताम् ब्रह्म वेदः । प्रहृष्टाः सञ्जातरोमाञ्चादिगात्रविकाराः, मुदिताः मानससन्तोषयुक्ताः तैः । सम्प्रणर्दितगोवृषाम्श्रीरामाभिषेकात्तिरश्चामपि प्रहर्षो जात इत्यर्थः ॥ २।७।३६ ॥
प्रहर्षेति । धात्रीं बालानां स्तन्यप्रदायिनीम् ॥ २।७।७ ॥
उत्तमेनेत्यादि । अर्थपरा धनसङ्ग्रहपरापि कौसल्यायां प्रद्वेषादर्थपरेत्युक्तवती । राममाता जनेभ्यः धनं सम्प्रयच्छति किं तु किं कारणम् ॥ २।७।८ ॥
जनस्य अतिमात्रं प्रहर्षो द्दश्यत इति शेषः । किमत्र कारणम् ॥ २।७।९ ॥
विदीर्यमाणा रोमाञ्चितगात्रा । राघवश्रियं राघवे न्यस्यमानां श्रियं राज्यलक्ष्मीम् ॥ २।७।१० ॥
अनघं भ्रातृषु वैषम्यरूपदोषरहितम् ॥ २।७।१११३ ॥
अघौघेन दुःखपरम्परया उपप्लुतं पीडितमात्मानम् । किं न बुध्यसे किं न जानासि ॥ २।७।१४ ॥
अनिष्ट इति । सुभगाकारे शोभनाकारे । अनिष्टे भर्तुरप्रिये । सौभाग्येन पतिवाल्लभ्येन । विकत्थसे आत्मानं वृथा श्लाघसे । उष्णगे उष्णं गच्छतीत्युष्णगे निदाघकाले ॥ २।७।१५ ॥
सा विषण्णतरेति । राघवं भेदयन्ती रामं प्रति कैकेय्या विरोधं जनयन्तीत्यर्थः ॥ २।७।१९ ॥
अक्षय्यमिति । त्वद्विनाशनं त्वद्विनाशकरम् ॥ २।७।२० ॥
सेति । दुःखशोकसमन्विताशोकः प्रलापादिः, दुःखं मनोव्यथा ताभ्यां समन्विता । त्वद्धितार्थं त्वदीयदुःखं परिहर्तुमित्यर्थः ॥ २।७।२१।२२ ॥
नराधिपेति । उग्रत्वं क्रौर्य्यम् ॥ २।७।२३ ॥
धर्मवादीति । वाङ्मात्रेण धार्मिकः, वस्तुतस्तु शठः गूढविप्रियकारी । श्लक्ष्णवादी त्वां प्रति कण्ठादुपरि प्रियवचनशीलः । दारुणः क्रूरहृदयः । शुद्धभावे इति सम्बोधनम् । शुद्धहृदये । तमेवंविधं न जानीषे, एवं पूर्वोक्तरीत्या तेन दशरथेन अतिसन्धिता अत्यन्तं वञ्चितेत्यर्थः ॥ २।७।२४ ॥
उपस्थितः त्वत्समीपे स्थितः । उपस्थितमिति पाठे सान्त्वविशेषणम् । उपस्थितं तत्कालोचितमिति यावत् । सान्त्वं प्रियवचनम् । अनर्थकं निरर्थकं फलरहितं त्वयि प्रयुञ्जानः अर्थेन राज्यरूपप्रयोजनेन कौसल्यामेव योजयिष्यति ॥ २।७।२५ ॥
अपवाह्येति । भरतं बन्धुष्वपवाह्य बन्धुदर्शनव्याजेनान्यत्र नीत्वा काल्यं आगामि श्वः प्रातःकाले रामं राज्ये स्थापयिष्यति ॥ २।७।२६ ॥
शत्रुरिति । हे बाले पतिप्रवादेन पतिव्यपदेशेन शत्रुः, मात्रेव हितकाम्यया हितकामनायुक्ततया हिताचरणेन मात्रेव मातृतुल्यया त्वया अङ्केनाशीविषः सर्प इव परिधृत इति योजना । परिहृत इति पाठेबाले अपरिहृत इति छेदः । पतिरूपः साक्षाच्छत्रुस्त्वया अपरिहृतः । वस्तुतस्तु त्याज्य एवेति दुर्बुद्धिमुपदिशतीति ज्ञेयम् ॥ २।७।२७।२८ ॥
पापेनेति । सानुबन्धा पुत्रमित्रादिसहिता ॥ २।७।२९ ॥
सा त्वं प्राप्तकालं प्राप्तावसरम् । विस्मयदर्शने अद्भूतदर्शने, तत्कालोचितोपायविचारकुशले इत्यर्थः ॥ २।७।३०३३ ॥
इदमिति । मे एतत्प्रियं भूयः आख्यातुं ते किंवा करोमीति सम्बन्धः । आख्यातमिति पाठे आख्यातमेतत्प्रियमुद्दिश्य ते भूयः किं करोमीति सम्बन्धः ॥ २।७।३४।३५ ॥
न मे परमिति । हे प्रियार्हे मे इतःपरं रामाभिषेकादन्यत् किञ्चित् प्रियमभिमतम् परं वचः श्रेष्ठं वचः त्वया पुनर्न वचं वक्तुमशक्यम् । हि यस्मात्कारणात् त्वं तथा अवोचः तथा सर्वप्रियेभ्योधिकं प्रियं श्रीरामाभिषेकरूपमवोचः उक्तवत्यसि अतः प्रियोत्तरं प्रियाख्यानस्योत्तरं पारितोषिकरूपं परमन्यं वरं वरणीयं वस्तुविशेषं ते तुभ्यं प्रददामि । तं वृणु वृणीष्वेति योजना ॥ २।७।३६ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां सप्तमः सर्गः ॥ २।७ ॥