००६ अभिषेकार्थं जनोल्लासः

गत इति । नारायणमुपागमत् उपासाञ्चक्रे ॥ २।६।१ ॥

प्रगृह्येति । महते दैवताय नारायणाय ॥ २।६।२ ॥

शेषं हविःशेषविशिष्टम् । प्राश्य भक्षयित्वा । आत्मनः प्रियमाशास्य अनुसन्धाय । कुशसंस्तरे कुशमये शयनीये । विष्णोरायतने गृहार्चाभूतविष्णोरालये ॥ २।६।३,४ ॥

एकेति । अलङ्कारविधिम् अलङ्कारविधानम् ॥ २।६।५ ॥

तत्रेति । सूतमागधवन्दिनाम्सूताः पौराणिकाः, मागधाः वंशशंसकाः, वन्दिनः स्तुतिपाठकाः ॥ २।६।६ ॥

तुष्टावेति । वाचयामास, स्वस्तिवाचनमिति शेषः ॥ २।६।७ ॥

तेषामिति । तूर्यघोषानुनादितः तूर्यघोषानुबन्धनादियुक्तः ॥ २।६।८।९ ॥

तत इति । शोभयितुं चक्रे अलङ्कर्तुं प्रचक्रमे ॥ २।६।१० ॥

सिताभ्रेति । अट्टालकेषु प्राकारोपरि युद्धार्थं परिकल्पितचतुःस्तम्भनिर्मितमञ्चेष्विति यावत् ॥ २।६।११।१२ ॥

सभास्विति । आलक्षितेषु आ समन्ताल्लक्षितेषु । उन्नतेषु वृक्षेषु । ध्वजाः सचिह्नाः, पताकाः चिह्नरहिताः ॥ २।६।१३ ॥

नटनर्तकसङ्घानाम्नटाः नाट्यं कारयितारः, नर्तकाः नाट्यकर्तारः ॥ २।६।१४,१५ ॥

बाला इति । रामाभिषेकसंयुक्ताः रामाभिषेकार्थ संयुक्ताः मिलिताः । “भवेदभिषवः स्नानम्” इति विश्वः (अभिषव इति पाठः) ॥ २।६।१६,१७ ॥

प्रकाशकरणार्थ निशागमनशङ्कया श्रीरामाभिषेकमहोत्सवे परिसमाप्त एव निशा समेष्यतीति शङ्क्या दीपवृक्षान् वृक्षाकारान् दीपस्तम्भान् । अनुरथ्यासु सर्वास्वपि रथ्यासु ॥ २।६।१८,१९ ॥

सर्व इति । अनुगृहीताः परमेश्वरेणेति शेषः । द्दष्टलोकपरावरःद्दष्टे लोकपरावरे उत्कृष्टापकृष्टवस्तुनी येन सः तथोक्तः ॥ २।६।२२२४ ॥

एवमिति । श्रुतवृत्तान्ताः दिग्भ्यः प्राप्ता जनपदाः जनाः पौराणां कथाः शुश्रुवुरित्यन्वयः ॥ २।६।२५,२६ ॥

जनौघैरिति । उदीर्णवेगस्य उत्कृष्टवेगस्य ॥ २।६।२७ ॥

तत इति । इन्द्रक्षयः इन्द्रनिवासः, अमरावतीति यावत् । अयोध्यानगरं समुद्रयादोभिःसमुद्रान्तर्वर्तिभिस्तिमिङ्गलादिजलजन्तुभिः ॥ २।६।२८ ॥

इति श्रीमहे श्रीरामा तत्त्वदी षष्ठः सर्गः ॥ २।६ ॥