००५ वसिष्ठकृतव्रतादेशः

संदिश्य व्रतोपवासादिकं कुर्वित्यनुज्ञाप्य ॥ २।५।१३ ॥

उपवासयितुमिति । ब्राह्मं ब्राह्मणारोहणयोग्यम् । युक्तं सज्जीकृतम् । ययाविति पूर्वोणान्वयः ॥ २।५।४ ॥

स इति । पाण्डराभ्रघनप्रभम् पाण्डराभ्रस्येव घना सान्द्रा प्रभा यस्य तत् । कक्ष्याः द्वाराणि ॥ २।५।५ ॥

तमागतमिति । इवशब्दो वाक्यालङ्कारे । मानयिष्यन् सम्मानाद्धेतोः ॥ २।५।६,७ ॥

स चेति । सम्भाष्य कुशलं पृष्ट्वा । सभाज्येति पाठे कुशलप्रश्नादिना प्रीतिं जनयित्वेत्यर्थः । अभिप्रसाद्य स्तुतिभिरिति शेषः । प्रियार्हं प्रियकथनार्हम् ॥ २।५।८,९ ॥

प्रातिरिति । अभिषेक्ता अभिषेक्ष्यति ॥ २।५।१०१५ ॥

बृन्दबृन्दैः बृन्दानुगतानि बृन्दानि येषां तानि तैः सम्भूय स्थितैरित्यर्थः । बृन्दं बृन्दमिति पाठे क्रियाविशेषणम् । अतिशयेन बृन्दीभवनं यथा भवति तथा । कुतूहलजनैःरामाबिषेकदर्शनकुतूहलसंपन्नजनैरिति मध्यमपदलोपः । वृताः युक्ताः अयोध्यायां राजमार्गाः अभिसंबाधाः संमर्दयुक्ताः बभूवुरिति योजना ॥ २।५।१६ ॥

जनेति । जनबृन्दोर्मिसंघर्षस्वनवतः जनबृन्दान्येव ऊर्मयः तेषां संघर्षः अन्योन्यसंघर्षणम् । हर्ष आनन्दोद्रेकः । ताभ्यां स्वनो ऽस्यासातीति स्वनवान्, तस्य राजमार्गस्य निस्वनः ॥ २।५।१७ ॥

सिक्तेति । सिक्ता जलसिक्ताः । संमृष्टाः शोधिताः । रथ्या वीथयो यस्यास्सा तथोक्ता । तदहः तस्मिन्नहनि । वनमालिनी कदलीक्रमुकादिविरचितश्रेणीयुक्ता । समुच्छ्रितगृहध्वजा समुच्छ्रितृहेषु ध्वजा यस्यास्सा तथोक्ता । अयोध्या आसीत् ॥ २।५।१८ ॥

तदेति । सस्त्रीबालाबलः अबला बलरहिताः, वृद्धा इति यावत् । जनः रामाभिषेकमाकाङ्क्षन् श्वो रामाभिषेक इति वार्ताश्रवणाद्रवेरुदयमाकाङ्क्षदित्यर्थः ॥ २।५।१९ ॥

प्रजालङ्कारभूतं प्रजालङ्कारहेतुभूतम् ॥ २।५।२० ॥

एवमिति । राजमार्गं पश्यन्निति शेषः । व्यूहन्निव विभजन्निव ॥ २।५।२१२३ ॥

तेनेति । तुल्यं तुल्यकालं समुत्तस्थुरित्यन्वयः ॥ २।५।२४२६ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां पञ्चमः सर्गः ॥ २।५ ॥