००४ रामाय दशरथस्योपदेशः

गतेष्विति । निश्चयज्ञःइदं कार्यमस्मिन्नवसरे कर्तव्यमिति निश्चयज्ञ इत्यर्थः । निश्चयं रामाभिषेकविषयनिश्चयम् ॥ २।४।१ ॥

श्व इति । ऽरामो यौवराज्ये ऽभिषेच्यो ऽस्तुऽ इति निश्चयं चक्र इति पुर्वेण सम्बन्धः ॥ २।४।२ ॥

अथेति । आमन्त्रयामास आज्ञापयमास । आनयेत्यनन्तरमितिकरणं द्रष्टव्यम् ॥ २।४।३।४ ॥

द्वाःस्थैरिति । तस्य सूतस्य पुनरागमनं द्वाःस्थैरावेदितं विज्ञापितं सूतं प्राप्तं पुनरागतं श्रुत्वैव शङ्कान्वितो ऽभवत्, इदानीमेव विसृष्टस्य पुनरागमने किं कारणमिति विचारान्वितो ऽभवत् ॥ २।४।५।६ ॥

तमिति । ततः रामवाक्यश्रवणानन्तरम् । श्रुत्वा, राजवाक्यमिति शेषः । इतराय आगमनाय वा, त्वं प्रमाणं निर्णेता ॥ २।४।७११ ॥

रामेति । यथेष्टम्यथावत् । तथा इष्टं कृतम् ॥ २।४।१२१४ ॥

तवाभिषेचनं विना मम कर्तव्यं किमपि नेति भावः ॥ २।४।१५,१६ ॥

अपिचेति । अशुभानशुभसूचकानुत्पातान्, सनिर्घाता अशनिपातसहिता उल्कानिर्गतज्वाला । दिशोल्केति सन्धिरार्षः । दिवः अन्तरिक्षात् पतति ॥ २।४।१७ ॥

अवष्टब्धम् आक्रान्तम् । दैवज्ञाः ज्योतिर्विदः ॥ २।४।१८,१९ ॥

तदिति । तत्तस्माद्यावदेव मे चेतो न विमुह्यति त्वामभिषेक्ष्यामीत्येवंविधा बुद्धिर्यावन्नोपैति तावदेवाभिषिञ्चस्व अभिषिक्तो भव ॥ २।४।२० ॥

अद्येति । पुनर्वसू तन्नामकं नक्षत्रम् । पुष्ययोगं चन्द्रस्य पुष्ययोगं, नियतम् अभिषेकनियतम्, प्रशस्तमित्यर्थः । दैवचिन्तकाः ग्रहचारज्ञाः, वक्ष्यन्ते वदन्तीत्यर्थः ॥ २।४।२१ ॥

तत इति । अभिषिञ्चस्व अभिषिक्तो भव ॥ २।४।२२ ॥

तस्मादिति । वध्वा सह सीतया सह । उपवस्तव्यम् उपोष्यं, निशायामुपवस्तव्यमित्यर्थः ॥ २।४।२३ ॥

सुहृद इति । एवंविधानि शुभोदर्काणि ॥ २।४।२४ ॥

केकयराजाय राज्यशुल्कं दत्त्वा दशरथः कैकेयीविवाहं कृतवान्, तं वृत्तान्तं हृदि कृत्वाहविप्रोषित इति । यद्वा भरतस्य साधुवृत्तं जानन्नपि ऽतद्यावदेव मे चेतःऽ इत्यादिना रामस्नेहाद्राजा यथा स्वचित्तमपि शङ्कितवान् तथैव भरतचित्तमपि शङ्कते विप्रेषित इति ॥ २।४।२५ ॥

ननु सद्गुणविशिष्टे भरते नैवं शङ्का युक्ता इत्यत आहकाममिति ॥ २।४।२६ ॥

तथापि मनुष्याणां चलचित्ततया भरतेपि राज्यलोभो भवेदिति मे मतिः । अनित्यं चञ्चलम् । नन्वसन्मनुष्याणमिव चित्तं चञ्चलम्,न तु सतामित्याशङ्क्य परबोधनादिना सतामपि चित्तस्य चाञ्चल्यप्राप्तिः सम्भावितेत्याह सतां चेति । धर्मनित्यानां धर्मनिरतानाम् । कृतशोभि कृतेन परकृतमित्रभेदादिना शोभितुं शीलमस्यास्तीति कृताशोभि । यद्वा कृतशोभि कृतेनैव कार्येण शोभि, न तु करिप्यमाणेन । अयं भावःयदिदानीमेव रामाभिषेकः क्रियते तर्हि भरतचित्तस्यापि हर्षो भवेत् यदि न क्रियते तदा राज्याशा भरतस्य भवेदिति अतस्त्वरितमात्मानमभिषिक्तं कुर्वित्यर्थः ॥ २।४।२७ ॥

इतीति । श्वोभाविन्यभिषेचने इत्युक्तः स रामः व्रजेत्यनुज्ञात इति सम्बन्धः ॥ २।४।२८,२९ ॥

तत्रेति । प्रवणां पुरुषोत्तमाराधनतत्पराम् । वाग्यतां वाङ्नियमवतीम् । रामार्थं श्रियं राज्यलक्ष्मीम् । आयाचतीं प्रार्थयन्तीम् ॥ २।४।३०,३१ ॥

तस्मिन्नित्यादि । ध्यायमाना तस्थाविति पूर्वेण सम्बन्धः । अन्वास्यमाना उपास्यमाना ॥ २।४।३२३४ ॥

मे पितुः शासनं यथा तथा मे अभिषेकः श्वो भविष्यतीति सम्बन्धः ॥ २।४।३५,३६ ॥

मङ्लानि मङ्गलकर्माणि ॥ २।४।३७,३८ ॥

वत्सेति । परिपन्थिनः शत्रवः हता भवन्त्विति शेषः । ज्ञातीन् बन्धन् ॥ २।४।३९ ॥

कल्याण इति । मया जातो जनितः ॥ २।४।४० ॥

अमोघमिति । बतेति हर्षे । पुरुषे परमपुरुषविषये । मे क्षान्तम् व्रतोपवाससहनम् । अमोघं सफलं जातम् । साफल्ये हेतुमाह येयमिति ॥ २।४।४१,४२ ॥

दशरथेन स्वस्मिन्निविशितराज्यभोगं सौभ्रात्रातिशयेन लक्ष्मणायत्तं करोतिलक्ष्मणेति । अन्तरात्मानम् प्राणम् ॥ २।४।४३ ॥

सौमित्र इति । भोगान् भोग्यपदार्थान् । राज्यफलानि अनर्ध्यवस्त्राभरणादीनि । जीवितं राज्यमन्यत्सर्व च त्वदर्थमेव अभिषेकसमये प्रार्थये, अन्यथा सर्वं निष्प्रयोजनमेवेति भावः ॥ २।४।४४ ॥

इतीति । अभ्यनुज्ञाप्य सीतां सीतायै अनुज्ञां दापयित्वा । मातृभ्यामिति शेषः ॥ २।४।४५ ॥

इति श्रीमहेश्वरतीर्थ श्रीरामायणतत्त्वदीपिका अयोध्याकाण्डव्याख्यायां चतुर्थः सर्गः ॥ २।४ ॥