तेषामिति । अञ्जलिपझानि पझमुकुलाकारानञ्जलीन् ॥ २।३।१,२ ॥
इतीति । प्रत्यर्च्य प्रत्यभिनुद्य तेषां समागतानां नृपाणामुपशृण्वतां तेषूपशृण्वत्सुसत्सु । वसिष्ठं वामदेवं च ब्राह्मणांश्च इदं वक्ष्यमाणं वाक्यमब्रवीत् ॥ २।३।३,४ ॥
राज्ञ इति । जनघोषः चिरकालप्रार्थितो रामाभिषेकविषयो ऽस्मन्मनोरथः फलित इत्येवंरूपो महानभूत् । वसिष्ठमिति वामदेवस्याप्युपलक्षणम् ॥ २।३।५ ॥
सपरिच्छदं सोपकरणम् ॥ २।३।६ ॥
तदिति । युक्तान् अधिकारिण इति यावत् ॥ २।३।७ ॥
सुवर्णेति । बलीन् पूजाद्रव्याणि । पृथक् च मधुसर्पिषी परम्परममिलिते क्षौद्रवृते । अहतानि नूतनानि, चामरव्यजने चमपवालनिर्मिते व्यजने । शातकुम्भानां सौवर्णानाम् । हिरण्यशृङ्गं सुवर्णालङ्कृतशृङ्गम् । समग्रमखण्डम् । उपस्थापयत प्रापयत ॥ २।३।११ ॥
यच्चान्यदिति । एष्टव्यम् अपेक्षणीयम् । मङ्गलद्रव्यमित्यर्थः ॥ २।३।१२,१३ ॥
प्रशस्तमन्नं मृष्टान्नम् । शतसाहस्रशब्दो ऽपरिमितवाचिविषयः । तत् अलं पर्याप्तम् । प्रकाममभिमतं भवेत् । दधिक्षीरोपसेचनं दधिक्षीरसंस्कारवत् गुणवत् व्यञ्जनोपेतम् ॥ २।३।१४१६ ॥
तालावचराः तालैरवचरन्ति जीवन्तीति तालावचराः नर्तकगायकादयः । कक्ष्यां द्वारम् ॥ २।३।१७ ॥
देवायतनचैत्येषु देवगृहेषु चैत्येषु रथ्यावृक्षेषु च । सान्नभक्षाः अन्नभक्षैः सह वर्तन्त इति तथा, अन्नमोदकहस्ता इति यावत् । माल्ययोग्याः माल्यप्रदानयोग्याः ॥ २।३।१८ ॥
दीर्घासिबद्धाः बद्धदीर्घासयः, मृष्टवाससः धौताम्बराः, महोदयम् महान् क्षीरामाभिषेकरूपः उदयो यस्मिन्नित्यङ्गणविशेषणम् ॥ २।३।१९ ॥
एवमिति । विप्रौ वसिष्ठवामदेवौ । क्रियाः रामाभिषेकोपयोगीनि कार्याणि व्यादिश्य अधिकारिणामाज्ञाप्येत्यर्थः । शेषं यत् कार्यं विहितं तत्पार्थिवाय निवेद्य चक्रतुरिति सम्बन्धः ॥ २।३।२० ॥
कृतमिति । यथोक्तवचनमुक्तवचनमनतिक्रम्य प्रीतौ हर्षयुक्तौ प्रीतिर्मनोगतानन्दः, हर्षः तज्जन्यो रोमाञ्चादिशरीरविकारः । तौ यथोक्तवचनम् उक्तवचनानतिक्रमेण सर्वं कृतमित्यब्रूतामित्यन्वयः ॥ २।३।२१ ॥
तत इति । कृतात्मा सुशिक्षितबुद्धिः ॥ २।३।२२२६ ॥
गन्धर्वराजेत्यादि श्लोकत्रयमेकं वाक्यम् । गन्धर्वराजप्रतिमं गन्धर्वश्रेष्ठसुन्दरमित्यर्थः । गन्धर्वराजौपम्यान्न केवलं भोगमात्ररसिकत्वम्, किन्तु वीररसाभिज्ञत्वमपीत्याहविख्यातपौरुषमिति । पौरुषोपयुक्तसंहननवत्त्वमाहदीर्घबाहुमिति । न केवलं शीरीषकुसुमसुकुमारबाहुत्वेनान्तःसारराहित्यमित्याहमहासत्त्वमिति । तदनुगुणगतविशेषमाहमत्तमातङ्गगामिनमिति । सगर्वसलीलगमनं मदालसगमनं वा विवक्षितम् । चन्द्राननमित्यनेनाह्लादकत्वसिद्धे निरतिशयाह्लादकत्वं द्योतयितुं कान्तेत्युक्तम् । तेन प्रत्यवयवशोभावत्त्वं दर्शितम् । रामं विग्रहगुणैः स्वरूपगुणैश्च रमयन्तम् । समुदायशोभावत्त्वमाहअतीवप्रियदर्शनमिति । रूपौदार्यगुणैःरूपं विग्रहः, औदार्यमनुभवितृभ्योनुभवदानं गुण्यते सदानुसन्धीयत इति गुण इति सदानुसन्धीयमानं सौशील्यमुच्यते । भहानयमस्माद्दशेष्वप्यतिक्षुद्रेष्वतिसंश्लेषेण वर्तत इति सदानुसन्धीयमानत्वात् । पुंसामिति कठिनचित्तानां द्दष्टिचित्तापहारिणम्, किमुत स्त्रीणामिति भावः ॥ २।३।२७।२८ ॥
धर्माभितप्ता इति । धर्माभितप्ताः ग्रीष्माभितप्ताः प्रजाः ह्लादयन्तं पर्जन्यमिव स्थितम्, समायान्तम् स्वसमीपमागच्छन्तं रामं नराधिपो दशरथः पश्यमानः सन् न ततर्प तृप्तिं न प्राप्तः, अत्र पश्यमान इत्यनेन निर्निमेषदर्शनमुक्तम् । न ततर्पेत्यनेन प्रतिक्षणमनुभवे नवनवप्रेमास्पदतया तृप्तिर्नाभूदिति सूच्यत इति रहस्यम् ॥ २।३।२९३२ ॥
तमिति । अञ्जलौ गृह्य गृहीत्वा तं समाकृष्य, सस्वजे आलिलिङ्ग ॥ २।३।३३ ॥
तदिति । राघवः आसनवरं प्राप्य स्वयैव प्रभया स्वशरीरकान्त्या तदासनं व्यदीपयत, भासमानं चकारेत्यर्थः ॥ २।३।३४ ॥
तेनेति । सा सभा वसिष्ठदशरथादिभिर्भ्राजितापि तेन रामेणैव व्यरोचत विशेषेण चकाशे । नक्षत्रादियुक्ता द्यौरिन्दुनेव ॥ २।३।३५,३६ ॥
तमिति । अलङ्कृतमादर्शे स्थितमात्मानं द्दष्ट्वा यथा तुष्यति जनः तदा दशरथः श्रीरामं द्दष्ट्वा तुतोषेत्यर्थः ॥ २।३।३७ ॥
आभाष्य रामेति सम्बोध्य ॥ २।३।३८,३९ ॥
यत इति । पुष्ययोगेन चन्द्रमसः पुष्यनक्षत्रयोगेनोपलक्षितः ॥ २।३।४० ॥
कामत इति । त्वं प्रकृत्या स्वभावत एव कामतः अत्यर्थं गुणवानसि, अतो गुणवति त्वयि न मयोपदेष्टव्यम्, अपि तु स्नेहादित्थं वक्ष्यामीति योजना ॥ २।३।४१ ॥
भूय इति । दशरथोपदेशवाक्ये सर्वत्रान्वयः कार्यः कामेति । कामजानि व्यसनानि स्त्रीद्यूतमृगयामधुसेवनानि, क्रोधजानिवाक्यपारुष्यदण्डपारुष्यजातानि, त्यजेथाः परिहरेत्यर्थः ॥ २।३।४२ ॥
परोक्षयेति । अमात्यादीनां प्रत्यक्षो भूत्वा यत्कार्याणि संविधत्ते सा प्रत्यक्षा वृत्तिः, परोक्षया वृत्त्या तक्षप्रभृतिकर्मान्तिकानां परोक्षो भूत्वा अधिकृतपुरुषमुखेन यत्कार्याणि संविधत्ते सा परोक्षा वृत्तिः ॥ २।३।४३ ॥
कोष्ठागारेति । कोष्ठागारं धान्यगृहम्, अन्तर्गृहमिति केचित् । कोष्ठागारायुधागारैस्सह सन्निचयान् सतां प्रशस्तवस्तूनां निचयान् कृत्वा सम्पाद्येत्यर्थः ॥ २।३।४४४६ ॥
सेति । प्रियाख्येभ्यः प्रियं रामाभिषेकरूपम् । आचक्षन्त इति प्रियाख्यास्तेभ्यः ॥ २।३।४७,४८ ॥
ते चेति । इष्टलाभमिव स्थितं तद्रामाभिषेकप्रस्ताववचनं श्रुत्वा देवान् समानर्चुः । श्रीरामाभिषेको निर्विघ्नो भूयादिति इष्टदेवताराधनं कृतवन्त इत्यर्थः ॥ २।३।४९ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां तृतीयः सर्गः ॥ २।३ ॥