००२ रामभिषेकचर्चा

तत इति । परिषदमास्थानमण्डपगतजनम्, हितमुत्तरत्र श्रेयस्करम् । उद्धर्षणम् आनन्दजनकमित्यर्थः । प्रथितम् अर्थगरिष्ठतया प्रसिद्धमित्यर्थः ॥ २।२।१ ॥

दुन्दुभीति । अनुनादिना प्रतिध्वनिना स्वरेण नादयन्, दिश इति शेषः । गम्भीरेण महता स्वरेणोवाचेति पूर्वेण सम्बन्धः ॥ २।२।२ ॥

राजेति । राजलक्षणयुक्तेन राजवाक्यानुरूपलक्षणयुक्तेन । माधुर्यरसयुक्तेन नृपतिर्दशरथः, नृपानुवाच ॥ २।२।३ ॥

विदितमिति । मे राज्यं मयेदानीं पाल्यमानं राज्यमित्यर्थः । मम पूर्वकैः राजेन्द्रैर्मन्वादिभिः, यथासुतवत् पुत्रेण तुल्यं परिपालितम् एतत्परिपालनम्, भवतां भवद्भिर्विदितमित्यर्थः ॥ २।२।४ ॥

ततः किम् ? तत्राहसोहमिति । ईक्ष्वाकुभिरिक्ष्वाकुवंश्यैर्नरेन्द्रैः परिपालितं सुखार्हं जगत् श्रेयसा श्रीरामाभिषेकरूपेण योक्तुकामोस्मि ॥ २।२।५ ॥

मत्कृतं परिपालनं भवदनुभवसाक्षिकमित्याहमयेति । पूर्वैरिक्ष्वाकुप्रभृतिभिराचरितं पन्थानं सन्मार्गं प्रजापरिपालनरूपम् । अनुगच्छता अनुसरता । नित्यमनिद्रेण सदा जागरूकेण । यथाशक्तिसामर्थ्यानुरूपेण ॥ २।२।६ ॥

इदमिति । लोकस्य हितं श्रेयः चरता कुर्वता आतपत्रस्य छायायां जरितं जरान्वितम्, अनेन सर्वकालपर्यटनं व्यज्यते, न तु विषयासक्तयेति भावः । एवं प्रयासेन राज्यमेकच्छत्रभूदिति तात्पर्यम् ॥ २।२।७ ॥

प्राप्येति । वर्षसहस्राणि षष्टिवर्षसहस्राणि प्राप्य बहून्यायूंषि वत्सरशतरूपानेकपूरुषायूंषि ॥ २।२।८ ॥

राजेति । राजप्रभावजुष्टां राजतेजसा पालिताम् ॥ २।२।९ ॥

सो ऽहमिति । प्रजाहिते पुत्रं कृत्वा,नियुज्येत्यर्थः । अनुमान्य अनुमतिं प्राप्यय्य । अनुज्ञाप्येति पाठेअनुज्ञां कारयित्वेर्थः ॥ २।२।१० ॥

अनुजातःअनुसृत्य जातः ॥ २।२।११ ॥

रामस्यातिमानुषशक्तियोगं प्रकटयतितमिति । पुण्येण नक्षत्रेण युक्तं चन्द्रमिव प्रकाशमानं तं रामं यौवराज्ये नियोक्तास्मि नियोक्ष्ये ॥ २।२।१२ ॥

अनुरूप इति । येन लक्ष्मीयुक्तेन नायेन त्रैलोक्यमपि नाथवत्तरम्, चतुर्मुखेन्द्रादय इव नाथवन्मात्रं न, किन्तु नाथवत्तरम् अनुरूपस्वामिकम् । स लक्ष्मणाग्रजः त्रैलोक्यान्तर्गतानां वो युष्माकम् अनुरूपो नाथः स्यादिति योजना ॥ २।२।१३ ॥

अनेनेति । इमां चिरकालधृतां मर्ही सुते सन्निवेश्य अनेन तन्निवेशरूपेण श्रेयसा मर्ही सन्नियोज्यगतक्केशो भविष्या९मीति सम्बन्धः ॥ २।२।१४ ॥

यदीति । मे इदमभिषेकरूपं कार्यं अनुरूपार्थं भवतामनुकूलार्थ यदि मया साधु सुमन्त्रितं यदि मे तर्हि भवन्तो ऽनुमन्यन्ताम् ममानुज्ञां प्रयच्छत । कथं वा करवाणि, भवतामनुमतिं विनेत्यर्थः, किं करवाणीति वार्थः ॥ २।२।१५ ॥

ननु भवदधिकः को वा हिताहितविचारसमर्थस्तत्राहयद्यपीत्यादिना । यद्यपि एषा रामाभिषेकविषया चिन्ता मम प्रीतिः प्रिया, तथाप्यतो ऽन्यद्धितमस्ति चेद्विचिन्त्यताम् । तथाहि विमर्देन विचारेण अभ्यधिकोदया अधिकफला मध्यस्थानां चिन्ता अन्याद्दशी स्वजनचिन्ताविलक्षणा ॥ २।२।१६ ॥

इतीति । प्रत्यनन्दन् प्रशंसापूर्वकमङ्गीचक्रुः ॥ २।२।१७ ॥

स्निग्ध इति । जनौघोद्धुष्टसत्रादः सम्यङ्नादः यस्य विमानं राज्यस्थानम् ॥ २।२।१८,१९ ॥

तम्येत्यादि । समतागतबुद्धयः समतागताः साम्यमैक्यं गताः बुद्धयो येषां ते ॥ २।२।२०,२१ ॥

इच्छाम इति । विशेषणसामर्थ्यात् कृताभिषेकमिति लभ्यते । महता गजेन शत्रुञ्जयाख्येन आयान्तमागच्छन्तम् । छत्रेण असाधारणेन श्वेतच्छत्रेण आवृताननं रामं इच्छामः प्रार्थयामः ॥ २।२।२२ ॥

इतीति । अजानन्निवरामस्य सर्वातिशायित्वं तदभिषेकस्य सर्वसम्मतत्वं च जानन्नपि अजानन्निव प्रजामुखाज्जिज्ञासुः ॥ २।२।२३ ॥

श्रुत्वेति । मद्वचनानन्तरं वचनं विनैव मत्सुतो राजत्वेन वृत इति मम संशयो जायते तन्निवृत्तिर्भवद्भिः कार्येति भावः । हिंसकहस्तापतिताः प्रजाः कदा निस्तरिष्याम इतिवद्भवतामाक्रोशः किमर्थमिति तात्पर्यम् ॥ २।२।२४ ॥

स्वहर्षं गोपयन् तैरेव वाचयितव्यमिति मनसि कृत्वाहकथमिति । पृथिवीमनुशासति सतियुष्मद्रक्षणं कुर्वति सति । वयं त्वया सम्यगेव परिपालिताः ॥ २।२।२५ ॥

त्वयि दोषगन्धो नास्तीति तात्पर्यात्तथापि त्वत्पुत्रकल्याणगुणबाहुल्याद्वशीकृतौमानसैरस्माभिरेवमुक्तमित्याहुःते तमिति । ते राजानः, कल्याणगुणाः मङ्गलस्वभावाः इतरपुरुषदुर्लभाः बहवो गुणास्सन्तीत्यर्थः ॥ २।२।२६ ॥

गुणानिति । प्रियान् शत्रूणामपि प्रीतिजनकान् आनन्दनान् अनिष्टनिवारणपूर्वकेष्टप्रापकत्वेन आनन्दजनकान् शौर्यादीन् ॥ २।२।२७ ॥

दिव्यैरिति । दिव्यैः अमानुषैः । इक्ष्वाकुभ्यः इक्ष्वाकुवंशप्रभवेभ्यः ॥ २।२।२८ ॥

राम इति । धर्मः श्रिया सह राज्यलक्ष्म्या सह रामाद्विनिर्वृत्तः आविर्भूतः ॥ २।२।२९ ॥

रामभद्रनिष्ठगुणसमुदायस्य जगत्येकत्र वासासम्भवादेकैकगुणयोगेन चन्द्रादीन् दृष्टान्तयतिप्रजेति । प्रजासुखत्वे प्रजासुखकरत्वे ॥ २।२।३० ॥

धर्मज्ञ इति । अनसूयकः न विद्यते असूया अन्यविषयिणी यस्य सः, उत्तरत्र न विद्यते असूया स्वविषयिणी अन्यकृता यस्य स तथोक्त इति न पुनरुक्तिः । सत्यसन्धः सत्या सन्धा प्रतिज्ञा यस्य सः । सान्त्वयिता कुपितान् दुःखितान् प्रति सान्त्ववचनेन दुःखं प्रशमयिता । श्लक्ष्णः प्रियं वदशीलः ॥ २।२।३१ ॥

मृदुरिति । मृदुः सुकरोपास्यः, स्थिरचित्तत्वं नामातिसङ्कटे ऽप्यङ्गीकृतपरित्यागराहित्यम् ॥ २।२।३२ ॥

प्रियवादी चेति भूतानां प्राणिनां प्रियावादी सत्यवादी चेति प्रियरूपसत्यवादी ॥ २।२।३३ ॥

तेनेति । तेन पूर्वोक्तगुणजातेन, कीर्तिः शौर्यादिनिबन्धना प्रसिद्धिः, यशः पराक्रमादिव्यापरजनितप्रसिद्धिरिति विवेकः ॥ २।२।३४,३५ ॥

गान्धर्व इति । गान्धर्वे सङ्गीतशास्त्रेपि । कल्याणेति । अदीनात्मा क्षोभहेतुसहस्रेष्वपि अक्षुभितान्तःकरणः ॥ २।२।३६ ॥

द्विजैरिति । अभिविनीतः शिक्षितः ॥ २।२।३७ ॥

यदेति । ग्रामार्थमित्यत्र ग्रामेत्यविभक्तिकनिर्देशः । ग्रामस्य नगरस्यार्थे प्रयोजनविषये ॥ २।२।३८,४० ॥

शुश्रूषन्त इति । दंशिताः अवहिताः । पुरुषव्याघ्रः पुरुषश्रेष्ठः ॥ २।२।४१ ॥

व्यसनेष्विति । मनुष्याणां प्राणिमात्रस्य व्यसनेषु कृच्छ्रेषु,भृशं भवति दुःखितः

साक्षाद्दुःखभाग्भ्योपि अधिकदुःखो भवति । दुःखकर्तृभिः स्वदुःखं विहाय निवारणीयं महद्दुःखं प्राप्नोतीत्यर्थः । पितेवेत्यत्रापि भृशमित्यनुषज्यते । परितुष्यति साक्षाज्जनक इव आनन्दयुक्तो भवतीत्यर्थः ॥ २।२।४२।४३ ॥

न विगृह्य कथारुचिःविगृह्य कलहं कृत्वा जल्पवितण्डात्मककथारुचिर्न भवतीत्यर्थः ॥ २।२।४४ ॥

सुभूरिति । शौर्यवीर्यपराक्रमैः शौर्यं युद्धे निर्भयेन प्रवेशसामर्थ्यम्, वीर्यं स्वस्याविकृतस्यैव परेषां विकारापादकत्वम्, पराक्रमस्तु युद्धे लघुसञ्चारः ॥ २।२।४५,४६ ॥

हन्तीति । नियमाद्धन्ति, अवश्यं हन्तीत्यर्थः ॥ २।२।४७ ॥

युनक्तीति । यत्र जने तुष्यति तमर्थैर्धनैर्युनक्ति योजयति ॥ २।२।४८,५० ॥

वत्स इति । ते वत्सस्तव दिष्ट्या भाग्येन श्रेयसि अस्माकं हितविषये जातः । पुत्रगुणैः । पुत्रोचितगुणैर्युक्तः । मारीचः मरीचिपुत्रः ॥ २।२।५१ ॥

बलमिति । देवासुरमनुष्येषु पुरवरे वर्तमानस्सर्वोपि जनः राघवस्य बलारोग्यादिकम् आशंसत इति योजना ॥ २।२।५२ ॥

आशंसते प्रार्थयते । आभ्यन्तरः अत्यन्तसेवकः ॥ २।२।५३ ॥

स्त्रिय इति । समाहिताः सावधानाः । रामस्यार्थे रामाभ्युदयविषये । तेषामिति । आयाचितं प्रार्थनाम् ॥ २।२।५४ ॥

राममिति । पश्यामः समृद्ध्यतां सफलं भवतु ॥ २।२।५६ ॥

तमिति । देवदेवोपमं विष्णुतुल्यम् । हिते श्रेयसि । निविष्टम् अभिनिवेशवन्तम्, हिततत्परमित्यर्थः । उदारैर्गुणैर्जुष्टं युक्तम् ॥ २।२।५७ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां द्वितीयः सर्गः ॥ २ ॥