००१ रामगुणवर्णनम्

श्रीमदयोध्याकाण्डे व्याख्येयानि व्याक्रियन्तेगच्छतेति । मातुलकुलं मातुलगृहम्, तदा पितृभ्रात्रनुज्ञानन्तरम् । अनधः सोदरो लक्ष्मणो बलवन्तं राममाश्रितः मयापि महदाश्रयः कर्तव्य इत्येवंविधकलुषबुद्धिरहित इत्यर्थः । नित्यशत्रुघ्नःनित्यशत्रवः कामादयः तान् हन्तीति तथा । नीतःमातुलगृहवासजनितसौख्यादिकमनेम विना असत्कल्पमिति धिया नीति इति भावः । प्रीतिपुरस्कृतःप्रीत्या भरतविषयस्नेहेन पुरस्कृतः, प्रीतिप्रेरित इत्यर्थः ॥ २।१।१ ॥

स इति । स भरतः पुत्रस्नेहेन पुत्रस्नेहेनेव ॥ २।१।२ ॥

तत्रापीति । अपिना स्थलसौख्यं द्योत्यते । तर्प्यमाणौ चेत्यत्र चकारो ऽप्यर्थः । कामतः “सार्वविभक्तिकस्तसिः” कामैः अभिमतपदार्थैरित्यर्थः । स्मरताम् अस्मरताम् । अडभाव आर्षः । शेषत्वाविवक्षाभावान्न षष्ठी । वृद्धं स्मरतामित्यत्र शुश्रूषाकालो ऽतीत इति धर्मलोपभिया पितरं स्मृतवन्ताविति तात्पर्यम् ॥ २।१।३४ ॥

चतुर्णां गुणवत्तयाभिमतत्वमभिधाय रामस्य निरतिशयगुणवत्तया अभिमतत्वमाहतेषामपि महातेजा इति । भूतानां देवादिभूतानां मध्ये गुणवत्तरः । स्वयम्भूः चतुर्मुखः । पितुः विष्णोः यथा प्रीतिकरो बभूव तथा तेषां चतुर्णां मध्ये गुणवत्तरो रामः पितुः दशरथस्य रतिकरो बभूवेत्यर्थः ॥ २।१।६ ॥

रामस्य अतिमानुषगुणयोगित्वं सहेतुकमाहस हीत्यादिना । हिशब्दो ऽवधारणे । उदीर्णस्य द्दप्तस्य रावणस्य वधार्थिभिर्देवैः अर्थितः प्रार्थितः सनातनो नित्यो विष्णुः रामरूपस्सन् जज्ञे आविर्बभूव,अतो वक्ष्यमाणगुणाः सर्वे तत्र सम्भवेयुरिति भावः ॥ २।१।७,८ ॥

स्वभावसिद्धगुणाड्यत्वं वर्णयतिस हीति । रूपोपपन्नः लावण्यनिधिः । अनसूयकंगुणेषु दोषाविष्करणमसूया तद्रहितः ॥ २।१।९ ॥

स चेति । स्वजनेन परुषमुच्यमानो ऽपि परुषमुत्तरं न प्रतिपद्यते न प्रयच्छति, किन्तु प्रशान्तात्मा सन् मृदुपूर्वं वचनमिति शेषः । भाषते ॥ २।१।१०,११ ॥

शीलवृद्धैरिति । शीलवृद्धैः सदाचारसम्पन्नैः, वयोवृद्धैः दीर्घायुःसम्पन्नैः, ज्ञानवृद्धैः लौकिकवैदिकज्ञानपूर्णैः । सज्जनैरिति त्रयाणां विशेष्यम् । अस्त्रयोग्यान्तरेषु अस्त्राभ्यासावकाशेषु । एताद्दशैः सज्जनैः सह कथयन्, शास्त्ररहस्यमिति शेषः । आस्त तिष्ठतिस्म चेत्यर्थः । अपिशब्देन सज्जनसल्लापानर्हकालेष्वपि तत्सल्लापद्योतनात्सद्भिस्सल्लापः सार्वकालिक इति द्योत्यते ॥ २।१।१२ ॥

बुद्धिमानिति । बुद्धिमान् प्रशस्तधीमान् । मधुराभाषी मधुरभाषणशीलः । पुर्वभाषीआगतान् प्रति प्रथमभाषणेन स्वाभिमुख्यत्वं द्योतयतीत्यर्थः । प्रियम्वदः परहितवचनशीलः । वीर्यवानिति परेषामाश्चर्यकारिणापि स्वकीयविर्येण स्वयं न विस्मितः, अप्राप्तगर्व इत्यर्थः ॥ २।१।१३ ॥

न चेति । न चानृतकथः अनुतवचनो न भवति । अनुरक्तः प्रजाभिरनुरञ्जितः, प्रजाश्चाप्यनुरञ्जते अनुरञ्जयतीत्यर्थः । अनेन परस्परानुरागो दर्शितः ॥ २।१।१४ ॥

सानुकोश इति । सानुकोशो दयावान् । दीनानुकम्पी दीनानुकम्पतया तदभितोषितार्थप्रापक इत्यर्थः । अतः सानुकोश इत्यनेन न पौनरुक्तयम् । प्रग्रहवान् नियमनवान्, दुष्टनिग्राहक इत्यर्थः ॥ २।१।१५ ॥

कुलेति । कुलोचितमतिः इश्वाकुकुलोचितदयादाक्षिण्यशरणागतसंरक्षणादिधर्मैकप्रवणबुद्धिः, क्षात्रधर्मं दुष्टनिग्रहपूर्वकप्रजापरिपालनरूपं परं धर्मं बहु मन्यते, गौरवेण जानिते इत्यर्थः । मन्यत इति । ततः क्षत्रधर्मात्सञ्जाताया कीर्त्या स्वर्गफलं साध्यतया मन्यते जानातीत्यर्थः ॥ २।१।१६ ॥

नेति । अश्रेयस्करकर्मणि निषिद्धकर्मणि विरुद्धकथारुचिः, पापकथासक्तो न भवतीत्यर्थः । वाचस्पतिर्यथा बृहस्पतिरिव उत्तरोत्तरयुक्तौ कक्ष्यायां वस्तुतत्त्वपरीक्षायां स्वोक्तार्थनिर्वाहार्थं वक्ता, उत्तरोत्तरप्रमाणोपन्यासचतुर इत्यर्थः ॥ २।१।१७ ॥

अरोग इति सत्कर्मानुष्ठानसामर्थ्यं दर्शितम् । देशकालवित् तत्तद्धर्माचरणयोग्यदेशकालज्ञ इत्यर्थः । पुरुषसारज्ञः सकृद्दर्शनमात्रेण पुरुषबलज्ञः । साधुः शिष्टः । क्षीणदोष इति यावत् ॥ २।१।१८ ॥

स त्विति । प्राणत्वेन निरूपणात् प्रजानां रामभद्रादधिकमभिमतवस्तु नास्तीति द्योत्यते ॥ २।१।१९ ॥

सम्यगिति । “वेदमधीत्य स्नायात् " इति स्मृतेः । अखिलवेदाध्ययनव्रताचरणानन्तरभाविस्नातककर्मयुक्तः । ईष्वस्त्रेईषवो मन्त्रहीनाः, अस्त्राणि मन्त्रपूर्वकाणि । ईष्वस्त्र इत्यत्र एकवद्भावः ॥ २।१।२० ॥

कल्याणेति । कल्याणाभिजनः कल्याणानां जन्मभूमिः । साधुः वेदप्रामाण्याभ्युपगन्ता । अदीनः क्षोभहेतुसहस्रेष्वपि अक्षोभ्यान्तःकरणः । सत्यवाक्अतिकृच्छकार्येष्वपि यथार्थवचननिरतः । ऋजुः करणत्रयार्जवयुक्तः । अभिविनीतः शिक्षितः ॥ २।१।२१ ॥

धर्मेति । धर्मकामार्थतत्त्वज्ञःपूर्वाह्णमध्याह्नापराह्णकाले कर्तव्यतया धर्मार्थकामान् जानातीत्यर्थः । प्रतिभानवान् “प्रज्ञां नवनवोन्मेषशालिनीं प्रतिभां विदुः” इत्युक्ता प्रतिभा, प्रतिभानं तद्वान् । लौकिक इति । लौकिके लोकविदिते । समयाचारे साङ्केतिकाचारे । कृतकल्पः कृतकौशलः, द्दढविनीतः ॥ २।१।२२ ॥

निभृत इति । संवृताकारः गृढाभिप्रायः गुप्तमन्त्रः फलपर्यन्तमन्यैरविदितमन्त्र इत्यर्थः । त्यागसंयमकालवित्त्यागस्सत्पात्रदानम् संयमः न्यायेनार्जनम् तयोः कालज्ञः ॥ २।१।२३ ॥

द्दढेति । द्दढभक्तिः आप्रितेषु द्दढस्नेहः । यद्वा अनुसरणीयवसिष्ठदशरथादिषु द्दढानुराग इत्यर्थः । स्थिरप्रज्ञःस्थिरा विस्मृतिरहिता प्रज्ञा यस्य सः । स्थिरप्राज्ञः इति पाठे–स्थिरः सर्वदा सर्वैरप्यविचाल्यः प्राज्ञः स्वभावो यस्य । नासद्ग्राहीअसदर्थग्राही न भवतीति समासः । यद्वा असत्पुरुषपरिग्रहरहितस्वभावः । न दुर्वचाः परोद्वेजकवचनरहितः । स्वदोषपरदोषवित् स्वरन्ध्रपररन्ध्रज्ञः ॥ २।१।२४ ॥

कृतज्ञःपरेण आत्मार्थ कृतमुपकारमल्पमपि बहुतया स्वोपकारत्वेन जानातीति तथोक्तः । पुरुषान्तरकोविदः पुरुषतारतम्यज्ञः । यद्वा आन्तरम् अभिप्रायः परपुरुषगूढाभिप्रायज्ञ इत्यर्थः । प्रग्रहानुग्रहयोर्थथान्यायं विचक्षणः प्रथममात्मीयत्वेन परिग्रहः प्रग्रहः, अनुग्रहो नाम परिगृहीतस्य नैरन्तर्थेणानुवर्तनम् तयोर्यथान्यायं युक्तायुक्तविचारानतिक्रमः, तत्र विचक्षणः निपुणः ॥ २।१।२५ ॥

सत्सङ्ग्रहप्रग्रहणेसत्सङ्ग्रहे सज्जनस्वीकारे, प्रग्रहणे तत्परिपालने । यथान्यायं विचक्षण इति पूर्वेणान्वयः । एकवद्भावः । यद्वा सत्सङ्ग्रहः सदाचारः, तस्य प्रग्रहणे अनुष्ठान इत्यर्थः । स्थानविन्निग्रहस्य च दुष्टनिग्रहस्य स्थानवित् । समयज्ञः चकाराच्छिष्टानुपालनस्य समयज्ञ इत्यर्थः । आयकर्मणि न्यायप्राप्यधनसम्पादनकर्मणि । उपायज्ञः तद्विषयोपायज्ञः, पुष्पेभ्यो मधु मधुकर इव प्रजाभ्यो ऽपीडनेनैव धनं सम्पादयितुं चतुर इत्यर्थः । संद्दष्टव्ययकर्मकृत् “कश्चिदायस्य चार्धेन चतुर्भागेन वा पुनः । पादभागौस्रिभिर्वापि व्ययः सञ्चोद्यते तथा ॥ " इति शास्त्रद्दष्टव्यकर्मजः ॥ २।१।२६ ॥

श्रैष्ठ्यमिति । शास्त्रसमूहेषु न्यायवैशेषिकवेदान्तादिशास्त्रसमूहेषु । व्यामिश्रकेषु

संस्कृतप्राकृतादिभाषात्मककाव्यनाटकालङ्कारादिषु श्रैष्ठ्यं श्रेष्ठतां निपुणतां प्राप्त इत्यर्थः । अर्थधर्मौ सङ्गृह्य अनुरुध्य सुखतन्त्रः कामप्रधानः अर्थधर्मापरित्यागेन कामसेवीत्यर्थः । न चालसः कर्तव्यकार्येषु निरुत्साहत्वमालम्यं तद्रहितः ॥ २।१।२७ ॥

वैहारिकाणां विनोदार्थानां चित्रकर्मादीनां विज्ञाता । किञ्च अर्थविभागवित् “धर्माय यशसे ऽर्थाय आत्मने स्वजनाय च । पञ्चधा विभजन् वित्तमिहामुत्र च शोभते ॥ " इत्युक्तप्रकारेणार्थविभागावित् । वारणवाजिनामारोहे आरोहणे विनये विविधगतिनयने शिक्षणेपि युक्तः सन्नद्धः ॥

२।१।२८ ॥

धनुरिति । अभियाता शत्रूणामभिमुखं याता । प्रहर्ता शत्रूणाम् । सेनानयविशारदः सेनानयश्चकादिव्यूहन्यासः तत्र विशारदः निपुणः ॥ २।१।२९ ॥

अनसूय इति । परकृतासूयारहितः, न च मत्सरी परसम्पद्विषये द्वेषरहितः । न चावमन्ता भूतानां प्राणिनामवमानकर्ता न भवति । न च कालवशानुगः कालवशः कालपारतन्त्र्यम्, तदनुसारी न भवतीत्यर्थः । “दशवर्षसहस्राणि दशवर्षशतानिच । वत्स्यामि मानुषे लोके पालयन् पृथिवीमिमाम् ॥ " इति भगवतैव कालनियमस्योक्तत्वात् ॥

२।१।३० ॥

वसुधायाः क्षमागुणैः क्षान्तिप्रधानैर्गुणैरिति मध्यमपदलोपी समासः । वसुधायास्तुल्य इति परेण सम्बधः । बुद्धया बृहस्पतेस्तुल्यो वीर्येणापि शचीपतेरिति ॥ २।१।३१,३२ ॥

तमेवमिति । मेदिनीशब्देन मेदिनीस्थजना लक्ष्यन्ते । यद्वा मेदिनी तदधिष्ठानदेवता, अकामयत सुजनदुर्जनानुग्रहनिग्रहयोर्मेदिन्या हर्षहेतुत्वादिति ज्ञेयम् ॥ २।१।३३,३४ ॥

चिन्ताप्रकारमाहअथत्यादि स्वर्गमवाप्नुयामित्यन्तेन । मयि जीवति सत्येव श्रीरामः कथम्केनोपायेन राजा स्यादित्येषा प्रीतिः चिन्ता । प्रीयते अनया चिन्तयेति व्युत्पत्त्या प्रीतिशब्दस्य चिन्तापरत्वम्, राज्ञो बभूवेत्यन्वयः ॥ २।१।३५ ॥

एषेति । द्रक्ष्यामीत्यत्रेतिकरणं द्रष्टव्यम् । प्रीतिः चिन्ता । अस्य दशरथस्य हृदि संपरिवर्तत इत्यन्वयः ॥ २।१।३६।३७ ॥

महीमिति । अनेन वयसा कृत्स्नां महीं अधिष्ठितमात्मजं द्दष्ट्वा यथा स्वर्गमाप्नुयामिति प्रीतिः हृदि संपरिवर्तत इति पूर्वेण सम्बन्धः ॥ २।१।३९।४० ॥

इतीत्यादि । लोकोत्तरैर्गुणैरित्यस्य युक्तमिति पूर्वेण सम्बन्धः । उक्तव्यतिरिक्तसौशील्यादिभिः समुदितैर्भिलितैः ॥ २।१।४१ ॥

दिवीति । उत्पातजम्आत्मानिष्टसूचकोत्पातसूचितम् । दिव्योत्पातः ग्रहनक्षत्रादिवैकृतम् । अन्तरिक्षोत्पातःमहावातपरिवेषसन्ध्यादिग्धूमादिः । भौमोत्पातःस्थावरजङ्गमविकारः, स्थावरविकारः भृकम्पशिलापातवृक्षरक्तस्रवणादिः, जङ्गमविकारः मनुष्यादिजातीयपशुपक्ष्याद्युत्पत्तिः, एतत्त्रिविधोत्पातजं भयं संचचक्षे कथयामास । सचिवानामिति शेषः । जरादर्शनं च रामाभिषेककारणान्तरमिति मत्वोक्तम्, न तूत्पातत्वेनेति द्रष्टव्यम् ॥ २।१।४२ ॥

पूर्णेति । आत्मनः स्वस्य शोकापनुदं सुखावहं लोके महात्मनो रामस्य संप्रियत्वं सर्वानन्दकरत्वम् । बुबुधे ज्ञातवान् ॥ २।१।४३ ॥

आत्मन इति । प्रियेण प्रीत्या हेतुना च भक्त्या श्रीरामपरिपालिताः प्रजाः धन्या भवन्त्विति प्रजाविषयभक्त्या च आत्मनः प्रजानां च श्रेयसे नृपो दशरथः, प्राप्तकाले प्राप्तावसरे, त्वरितवान् । रामाभिषेकमिति शेषः ॥ २।१।४४ ॥

नानानगरेति । नानानगरेषु वसन्तीति नानानगरवास्तव्याः ॥ २।१।४५ ॥

नत्विति । पश्चात् प्रियं रामाभिषेकं श्रोष्यत इति विचार्य त्वरया श्व एव अभिषेक्ष्यामीति । संभ्रमेणेति शेषः ॥ २।१।४६ ॥

तानिति । वेश्मनानाभरणैः प्रतिपूजितान् सम्यगोगृहभूषणप्रदानादिना स्वेन सत्कृतानित्यर्थः । प्रजापतिः ब्रह्मा ॥ २।१।४७ ॥

अथेति । शेषाः जनककेकयराजव्यतिरिक्ताः । राजवितिर्णेषु राज्ञा दत्तेषु ॥ २।१।४८,४९ ॥

स इति । लब्धमानैः लब्धसत्कारैः । उपोपविष्टः सहस्रचक्षुः इन्द्रः ॥ २।१।५० ॥

इति श्रीमहेश्वरतीर्थाविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां प्रथमः सर्गः ॥ २।१ ॥