०७७ दशरथाद्ययोध्यागमनम्

गत इति । प्रशान्तात्मा प्रशान्तो गतक्रोधः आत्मा मनो यस्य स तथोक्तः ॥ १।७७।१ ॥

विह्वलं परशुरामभयेन धनुर्दानवृत्तान्तस्य मायया तिरोधानमन्यान् प्रति ॥ १।७७।२४ ॥

गत इति । हृष्टः पुलकितो विस्मितो वा ॥ १।७७।५६ ॥

पताकाध्वजिनीमिति । पताकाः श्रेणीकृताः क्षुद्रध्वजाः, इतरे पुनर्महाध्वजाः । रम्यां स्वभावतो रम्याम् । सिक्तराजपथां रम्यां कुसुमोत्कारादिभिरुपाचारैः रम्याम् ॥ १।७७।७१० ॥

कौसल्येति । वधूप्रतिग्रहे वधूनां स्नुषाणां प्रतिग्रहे युक्तास्तत्पराः ॥ १।७७।१११२ ॥

मङ्गलालम्भनैः मङ्गलालङ्करणैः । देवतायतनानि गृहदेवताप्रतिमाः ॥ १।७७।१३१४ ॥

कृतदारा इति । पितरं शुश्रूषमाणाः वर्तयन्ति उज्जीवयन्ति, आह्लादयन्तीति यावत् । कृतास्त्राः लब्धास्त्राः । नरर्षभाः रामादयः ॥ १।७७।१५२० ॥

प्रियाणि इष्टप्राप्तिरूपाणि । हितानि अनिष्टनिवर्तकानि ॥ १।७७।२१ ॥

मातृभ्य इति । अन्ववैक्षत अनुसन्दधे ॥ १।७७।२२ ॥

एवमिति एवंविधेन रामस्य शीलवृत्तेन । नैगमाः पौराः, दशरथादयश्च प्रीताः ॥ १।७७।२३ ॥

तेषामिति । तेषां ब्राह्मणादीनां रामो गुणवत्तरः प्रियतरो बभूव ॥ १।७७।२४ ॥

राम इति । तद्गतः तद्गतान्तःकरणः । तस्याः सीतायाः हृदि समर्पितः । यद्वा तद्गतः तद्गतमना रामः तां हृदि समर्पयदित्यर्थः ॥ १।७७।२५ ॥

प्रिया त्वति । सीता रामस्य पितृकृता दारा इति गौरवेण प्रिया बभूव । पितृकृतविवाहः श्लाघनीयः । गुणाद्रूपगुणाच्चेति । गुणाच्छन्दानुवर्तनात् रूपगुणात् सौन्दर्यातिशयाच्च प्रीतिर्भूयो ऽभ्यवर्द्धत ॥ १।७७।२६ ॥

तस्याश्चेति । भर्ता रामः, हृदयम् अभिप्रायम्, हृदा मनसा, व्यक्तमाख्याति जानाति । इदमुत्तरश्लोकस्य शेषः । तस्य हृदये मैथिली भूयो ऽपि विशेषेण अतिशयेन । एतदुक्तं भवति परस्परहृदयान्तर्वर्तनेन परस्परस्वभावमुभौ जानाते इति ॥ १।७७।२७२८ ॥

तथा स इति । अभिरामया अभिरूपया अतिकामया अनुरक्तया भर्तरि अतिस्नेहया तया समेयिवान् सङ्गतः । अमरेश्वरो विष्णुः श्रियेव शुशुभ इति सम्बन्धः ॥ १।७७।२९ ॥

इति श्रीपरमहंसपरिव्राजकाचार्य श्रीनारायणतीर्थशिष्यश्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां सप्तसप्ततितमः सर्गः ॥ ७७ ॥

महेशतीर्थरचिता रामपादसमर्पिता । श्रीबालकाण्डव्याख्येयं समाप्ता तत्त्वदीपिका ॥ ॥ इति श्रीरामायणे बालकाण्डः समाप्तः ॥